भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 131, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 131

अथ षष्ठमाह्निकम् अथ बाह्यविधिः स एव स्थानप्रकल्पनशब्देन उक्तः, तत्र त्रिधा स्थानं—प्राणवायुः शरीरं बाह्यं च, तत्र प्राणे तावत् विधिः, सर्वः असौ वक्ष्यमाणः अध्वा प्राणस्थः कल्प्यते, तस्य क्रमाक्रमकलनैव कालः, स च परमेश्वर एव अन्तर्भाति, तद्भासनं च देवस्य काली नाम शक्तिः, भेदेन तु तदाभासनं क्रमाक्रमयोः प्राणवृत्तिः । संविदेव हि प्रमेयेभ्यो विभक्तं रूपं गृह्णाति, अत एव च अवच्छेदयोगात् देह्यतां यान्ती नभः, ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिप्रधाना प्राणनारूपा जीवस्वभावा पञ्चभी रूपैः देहं यतः पूरयति, ततोऽसौ चेतन इव भाति । तत्र क्रिया- शक्तौ कालाध्वा, तत्र वर्ण-मन्त्र-पदाध्वनः कालाध्वनि स्थितिः पर-सूक्ष्म- स्थूलरूपत्वात् । देशाध्वस्थितिस्तु तत्त्व-पुर-कलात्मना इति भविष्यति स्वावसरे । तत्र यद्यपि देहे सबाह्याभ्यन्तरम् ओतप्रोतरूपः प्राणः, तथापि प्रस्फुटसंवेद्यप्रयत्नः असौ हृदयात्प्रभृति इति, तत एव अयं निरूपणीयः । तत्र प्रभुशक्तिः आत्मशक्तिः यत्न इति त्रितयं प्राणेरणे हेतुः—गुणमुख्यभावात् । तत्र हृदयात् द्वादशान्तान्तं स्वाङ्गुलैः सर्वस्य षट्त्रिंशदङ्गुलः प्राणचारः निर्गमे प्रवेशे च, स्वोचितबलप्रयत्नहेतुत्वात् सर्वस्य । तत्र घटिका तिथिः मासो वर्षं च वर्षसमूहात्मा, इति समस्तः कालः परिसमाप्यते । तत्र सपञ्चांशे अङ्गुले चषक इति स्थित्या घटिकोदयः घटिका हि षष्ट्या चषकैः तस्मात् द्वासप्तत्यङ्गुला भवति । अथ तिथ्युदयः । सपादमङ्गुलद्वयं त्रुटिः उच्यते, तासु चतसृषु प्रहरः, त्रुटयर्धं त्रुटयर्धं तत्र संध्या, एवं निर्गमे दिनं, प्रवेशे रात्रिः, इति तिथ्युदयः । अथ मासोदयः । तत्र दिनं कृष्णपक्षः, रात्रिः शुक्लः, तत्र पूर्वं त्रुटयर्धं अन्त्यं च त्रुटयर्धं विश्रान्तिः अकालकलिताः, मध्यास्तु पञ्चदश त्रुटय एव तिथयः, तत्र प्रकाशो विश्रान्तिश्च इति एते एव दिननिशे । तत्र वेद्यकथताप्रकाशो दिनं, वेद्यस्य विचारयितरि लयो रात्रिः, ते च प्रकाशविश्रान्ती चिराचिरवैचित्र्यात् अनन्तभेदे, तत्साम्ये तु विषुवत् ।

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक) · पृष्ठ 131, कुल 294 में से · BharatKosha