तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 159, कुल 294 में से
संदर्भ में पढ़ें७८ ] तन्त्रसार-अभिनवगुप्त [ आ. ८ न्धेस्तावत्त्वात् । तथाहि बहिस्तावत्त्यागाय वा अनुसन्धिः आदानाय वा द्वयाय वा, उभयरहितत्वेन स्वरूपविश्रान्तये वा, तत्र क्रमेण पायुः पाणिः पाद उपस्थ इति । अन्तः प्राणाश्रय कर्मानुसन्धेस्तु वागिन्द्रियम्, तेन इन्द्रियाधिष्ठाने हस्ते यत् गमनं तदपि पादेन्द्रियस्यैव कर्म इति मन्तव्यम्, तेन कर्मानन्त्येऽपि न इन्द्रियानन्त्यम् आबहेत्, इयति राज- सस्य उपश्लेषकत्वम् इत्याहुः । अन्ये तु राजसान्मन इत्याहुः, अन्येतु सात्त्विकात् मनो राजसाच्च इन्द्रियाणि इति । भोक्त्रांशाच्छादकात् तु तमःप्रधानाहंकारात् तन्मात्राणि वेद्यैकरूपाणि पञ्च । शब्दविशेषाणां हि क्षोभात्मनां यदेकम् अक्षोभात्मकं प्राग्भावि सामान्यम् अविशेषात्मकं तत् शब्दतन्मात्रं । एवं गन्धान्तेऽपि वाच्यं । तत्र शब्दतन्मात्रात् क्षुभितात् अवकाशदानव्यापारं नभः—शब्दस्य वाच्याध्यासावकाशसहत्वात् । शब्दतन्मात्रं क्षुभितं वायुः शब्दस्तु अस्य नभसा विरहाभावात् । रूपं क्षुभितं तेजः पूर्वगुणौ तु पूर्ववत् । रसः क्षुभित आपः पूर्वे त्रयः पूर्ववत् । गन्धः क्षुभितो धरा पूर्वं चत्वारः पूर्ववत् । अन्ये शब्दस्पर्शाभ्यां वायुः इत्यादिक्रमेण पञ्चभ्यो धरणी इति मन्यन्ते । गुणसमुदायमात्रं च पृथिवी, नान्यॊ गुणी कश्चित् । अस्मिंश्च तत्त्वकलापे ऊर्ध्वोर्ध्वगुणं व्यापकं, निकृष्टगुणं तु व्याप्यं । स एव गुणस्य उत्कर्षो—यत् तेन विना गुणान्तरं न उपपद्यते, तेन पृथिवीतत्त्वं शिवतत्त्वात् प्रभृति जलतत्त्वेन व्याप्तम्, एवं जलं तेजसा इत्यादि यावच्छक्तितत्त्वम् । भूतानि तन्मात्रगणैन्द्रियाणि मूलं पुमान्कञ्चुकयुग्मुकुन्दम् । भित्त्वा विशक्त्यन्तमियान्स्वसं वित्सन्धोस्तरङ्गप्रसरप्रकारः ॥ सअलतत्तपरिउण्णउ सअलतत्तउत्तिण्णउ । परिआणहअत्ताण्णउ परमविण समाणउ ॥ इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे तत्त्वस्वरूपप्रकाशनं नामाष्टममाह्निकम् ॥ ८ ॥