तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 173, कुल 294 में से
संदर्भ में पढ़ेंअथ नवममाह्निकम् अथ तत्त्वानां भेदो निरूप्यते । स च सप्तधा षडर्धशास्त्र एव परं परमेशेन उक्तः । तत्र शिवाः मन्त्र- महेशाः मन्त्रेशाः मन्त्राः विज्ञानाकलाः प्रलयाकलाः सकला इति सप्त शक्तिमन्तः । एषां सप्तैव शक्तयः, तद्भेदात् पृथिव्यादिप्रधानतत्त्वान्तं चतुर्दशभिर्भेदैः प्रत्येकं स्वं रूपं पञ्चदशं तत्र स्वं रूपं प्रमेयतायोग्यं स्वाहम- निष्ठम्—अपराभट्टारिकानुग्रहात्, प्रमातृषु उद्रिक्तशक्तिषु यत् विश्रान्ति- भाजनं तत् तस्यैव शाक्तं रूपं श्रीमत्परापरानुग्रहात् । तच्च सप्तविधं शक्तीनां तावत्त्वात् । शक्तिमद्रूपप्रधाने तु प्रमातृवर्गे यत् विश्रान्तं तच्छक्ति- मच्छिवरूपं श्रीमत्पराभट्टारिकानुग्रहात्, तदपि सप्तविधं—प्रमातॄणां शिवात्प्रभृति सकलान्तानां तावताम् उक्तत्वात् । तत्र शक्तिभेदादेव प्रमातॄणां भेदः, स च स्फुटीकरणार्थं सकलादिक्रमेण भण्यते, तत्र सक- लस्य विद्याकले शक्तिः तद्विशेषरूपत्वात् बुद्धिकर्माक्षशक्तीनां, प्रलया- कलस्य तु ते एव निर्विषयत्वात् अस्फुटे । विज्ञानाकलस्य ते एव विगल- त्कल्पे तत्संस्कारसचिवा प्रबुद्धचमात्रा शुद्धविद्या मन्त्रस्य । तत्संस्कार- हीना सैव प्रबुद्धा मन्त्रेशस्य । सैव इच्छाशक्तिरूपतां स्वातन्त्र्यस्वभावां जिघृक्षन्ती मन्त्रमहेश्वरस्य । इच्छात्मिका स्फुटस्वातन्त्र्यात्मिका शिवस्य इति शक्तिभेदाः सप्त मुख्याः । तदुपरागकृतश्च शक्तिमत्सु प्रमातृषु भेदः— करणभेदस्य कर्तृभेदपर्यवसानात्, शक्तेरेव च अव्यतिरिक्तायाः करणीकर्तुं शक्यत्वात् न अन्यस्य—अनवस्थाद्यापत्तेः । वस्तुतः पुनरेक एव चित्स्वा- तन्त्र्यानन्दविश्रान्तः प्रमाता, तत्र पृथिवी स्वरूपमात्रविश्रान्ता यदा वेद्यते तदा स्वरूपम् अस्याः केवलं भाति चैत्रचक्षुर्द्दष्टं चैत्रविदितं जाना- मीति, तत्र सकलशक्तिकृतं सकलशक्तिमद्रूपकृतं स्वरूपात्तरं भात्येव, एवं शिवान्तमपि वाच्यं, शिवशक्तिनिष्ठं शिवस्वभावविश्रान्तं च विश्वं जानामि इति प्रत्ययस्य विलक्षणस्य भावात् । ननु भावस्य चेत् वेद्यता स्वं वपुः तत्सर्वान्प्रति वेद्यत्वं, वेद्यत्वमपि वेद्यम् इत्यनवस्था, तया च