तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 213, कुल 294 में से
संदर्भ में पढ़ें१३२ ] तन्त्रसार-अभिनवगुप्त [ आ. १३ शान्तेषु षट्सु कारणषट्कस्पर्शं कुर्वन् प्रत्येकमष्टौ संस्कारान् चिन्तयन् कंचित्कालं शिष्यप्राणं तत्रैव विश्रमय्य पुनरवरोहेत् । इत्येवापादिताष्टा- चत्वारिंशत्संस्कारोपरिकृतरुद्रांशापत्तिः समयीभवति । ततः अस्मै पूज्यं मन्त्रं पुष्पाद्यैः सह अर्पयेत् । ततः समयान् अस्मै निरूपयेत् । गुरौ सर्वात्मना भक्तिः, तथा शास्त्रे देवे, तत्प्रतिद्वन्द्विनि पराङ्मुखता, गुरुवत् गुरुपुत्रादेः विद्यासंबंधकृतस्य तत्पूर्वदीक्षितादेः संदर्शनम् यौनसंबन्धस्य तदाराधनार्थम्, न तु स्वत इति मन्तव्यम् । स्त्रियो वन्ध्यायास्तज्जु- गुप्साहेतुं न कुर्यात् । देवतानाम गुरुनाम तथा मन्त्रं पूजाकालात् ऋते न उच्चारयेत् । गुरुपभुक्तं शय्यादि न भुञ्जीत । यत् किंचित् लौकिकं क्रीडादि तत् गुरुसन्निधौ न कुर्यात् । तद्व्यतिरेकेण न अन्यत्र उत्कर्षबुद्धि कुर्यात् । सर्वत्र श्राद्धादौ गुरुमेव पूजयेत् । सर्वेषु च नैमित्तकेषु शाकिनी- त्यादिशब्दान् न वदेत् । पर्वदिनानि पूजयेत् । वैष्णवाद्यैरधोदृष्टिभिः सह संगतिं न कुर्यात् । अधोमार्गस्थितं कंचित् वैष्णवाद्यं तच्छास्त्रकुतूहलवत् गुरुकृत्यापि त्यजेत् । तदापि न उत्कर्षबुद्ध्या पश्येत् । लिङ्गिभिः सह समाचारमेलनं न कुर्यात्, तान् केवलं यथाशक्ति पूजयेत् । शङ्कास्त्यजेत् । चक्रे स्थितश्चरमाग्य्रादिविभागं जन्मकृतं न संकल्पयेत् । शरीरात् ऋते न अन्यत् आयतनतीर्थादिकं बहुमानेन पश्येत् । मन्त्रहृदयम् अनवरतं स्मरेत्, इत्येवं शिष्यः श्रुत्वा प्रणम्य अभ्युपगम्य गुरुं धनदारशरीरप- र्यन्तया दक्षिणया परितोष्य पूर्वदीक्षितांश्च दीनानाथादिकान् तर्पयेत् । भाविविधिना च मूर्तिचक्रं तर्पयेत् । इत्थं समयीभवति । मन्त्राभ्यासे नित्यपूजायां श्रवणेऽध्ययने अधिकारी, नैमित्तिके तु सर्वत्र गुरुमेव अभ्य- र्थयेत, इति सामयिको विधिः । अध्वानमालोच्य समस्तमन्तः पूर्णं स्वमात्मानमथावलोक्य । पश्येदनुग्राह्यधिया द्विषट्कपर्वन्तमेवं समयी शिशु स्यात् ॥ सअलभा अपरि उण्णउ परभैरउ अत्ताणु जाइवि अग्गणि सण्णउ जोअभिमी सत्ताणु । एहस समयदिक्ख परभइरव जलाणं हि मज्जणिण इत्थति लज्जहवन बहुपरिववहोडउवाजिण ॥ इति श्रीमदभिनवगुप्ताचार्यविरचिते तन्त्रसारे समयदीक्षाप्रकाशनं नाम त्रयोदशमाह्निकम् ॥१३॥