तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 212, कुल 294 में से
संदर्भ में पढ़ेंआ. १३ ] तन्त्रसार-अभिनवगुप्त [ १३१
प्राक् दीक्षितस्य हस्ते अस्त्रकलशं दद्यात् । स्वयं च गुरुः कुम्भम् आद- दीत । ततः शिष्यं गृहपर्यन्तेषु विघ्नशमनाय धारां पातयंस्तं कुम्भोऽनु- गच्छेत् इमं मन्त्रं पठन्— भो भोः शक्र त्वया स्वस्यां दिशि विघ्नप्रशान्तये । सावधानेन कर्मान्तं भवितव्यं शिवाज्ञया ॥ त्र्यक्षरे नाम्नि—भो इत्येकमेव । तत ऐशान्यां दिशि कुम्भं स्थापयेत् । विकिरोपरि अस्त्रकलशम् । तत उभयपूजनम् । ततः स्थण्डिलमध्ये परमेशपूजनम् । ततः अग्निकुण्डं परमेश्वरशक्तिरूपतया भावयित्वा तत्र अग्निं प्रज्वाल्य हृदयान्तर्बोधाग्निना सह एकीकृत्य मन्त्रपरामर्शसाहित्येन ज्वलन्तं शिवाग्निं भावयित्वा, तत्र न्यस्य अभ्यर्च्य मन्त्रान् तर्पयेत् आज्येन तिलैश्च । अर्घपात्रेण च प्रोक्षणमेव तिलाज्यादीनां संस्कारः । स्रुक्स्रुवयोश्च परमेशाभेददृष्टिरेव हि संस्कारः । ततो यथाशक्ति हुत्वा स्रुक्स्रुवौ ऊर्ध्वाधोमुखतया शक्तिशिवरूपौ परस्परोन्मुखौ विधाय सम्पा- दोत्थितो द्वादशान्तगगनोदितशिवपूर्णचन्द्रनिःसृतपतत्परामृतधाराभावनां कुर्वन् वौषडन्तं मन्त्रम् उच्चारयन् च आज्यक्षयान्तं तिष्ठेत्, इति पूर्णा- हुतिः मन्त्रचक्रसंतर्पणी । ततश्चरुं प्रोक्षितमानीय स्थण्डिलकलशकुम्भव- ह्निषु भागं भागं निवेद्य, एकभागम् अवशेष्य, शिष्याय भागं दद्यात् । ततो दन्तकाष्ठम् । तत्पातोऽग्नि-यमनिऋर्तिदिक्षु अधश्च न शुभ इति । तत्र होमोऽस्त्रमन्त्रेण कार्यः । ततो विक्षेपपरिहारेण भाविमन्त्रदर्शनयो- ग्यतायै बद्धनेत्रं शिष्यं प्रवेश्य अनुत्थितं तं कृत्वा पुष्पाञ्जलिं क्षेपयेत् । ततः सहसा अपास्तनेत्रबन्धोऽसौ शक्तिपातानुगृहीतकरणत्वात् सन्नि- हितमन्त्रं तत्स्थानं साक्षात्कारेण पश्यन् तन्मयो भवति, अनुगृहीतकर- णानां मन्त्रसन्निधिः प्रत्यक्षः प्रत्यक्षवतस्तान् इव भूतानाम् । ततः स्वद- क्षिणहस्ते दीप्ततया देवताचक्रं पूजयित्वा तं हस्तं मूर्धहृन्नाभिषु शिष्यस्य पाशान् दहन्तं निक्षिपेत् । ततो वामे सोम्यतया पूजयित्वा शुद्धतत्त्वा- प्यायिनं, ततः प्रामाणं कुर्यात् । ततो भूतदेवतादिग्बलिं महामांसजलादि- पूर्णं बहिर्दद्यात्, आचामेत् । ततः स्वयं चरुभोजनं कृत्वा शिवात्मना सह ऐक्यमापन्नः प्रबुद्धवृत्तिः तिष्ठेत् । स्वप्नम् अपि प्रभाते शिष्यः चेत् अशुभं स्वप्नं वदेत् तत् अस्मै न व्याकुर्यात्—शङ्कातङ्कौ हि तथास्य स्याताम्, केवलम् अस्त्रेण तन्निष्कृतिं कुर्यात् । ततस्तथैव परमेश्वरं पूज- यित्वा तदग्रे शिष्यस्य प्राणक्रमेण प्रविश्य हृत्कण्ठतालुललाटरन्ध्रद्वाद-