भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 211, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 211

१३० ] तन्त्रसार-अभिनवगुप्त [ आ. १३ प्रकर्षेण लीनत्वात् बोधात् प्राधान्येन वेद्यात्मकदेहक्षात् नादामर्शात्मक- त्वाच्च, इति । तन्नाभ्युत्थितं तन्मूर्धस्थशत्रपनिर्गतं नादान्तर्गतशक्ति- व्यापिनीसमनारूपमशत्रयं द्विषट्कान्तं, तदुपरि शुद्धपद्मस्थाद् औन्मनसम् एतस्मिन् विश्वमये भेदे आसनीकृते अधिष्ठातृतया व्यापकभावेन आधेय- भूतां देवतां कल्पयित्वा यत् तत्रैव समस्तभावनिर्भर आत्मनि विश्वभावार्पणं तदेव पूजनं, यदेव तन्मयीभवनं तद्ध्यानं, यत् तथाविधान्तःपरामर्शक्रम- प्रबुद्धमहातेजसा तथाबलादेव विश्वात्मीकरणं स होमः, तदेवं कृत्वा परिवारं तत एव वह्निरराशिविस्फुलिङ्गवत् ध्यात्वा तथैव पूजयेत् । द्वादशान्तमिदं प्राप्यं त्रिशूलं मूलतः स्मरन् । देवीचक्राप्रपं त्यक्तक्रमः खचरतां व्रजेत् ॥ मूलाधाराद्विषट्कान्तव्योमाग्रापूरणात्मिका । खेचरीयं खसंचारस्थितिभ्यां चामृताशनात् ॥ एवम् अन्तर्यागमात्रादेव वस्तुतः कृतकृत्यता । सत्यतः तदाविष्टस्य तथापि बहिरपि कार्यो यागोऽवच्छेदहानय एव, योऽपि तथा समावेश- भाक् न भवति तस्य मुख्यो बहिर्यागः, तदभ्यासात् समावेशलाभो—यत- स्तस्यापि तु पशुतातिरोधानायान्तर्यागः—तदरूढावपि तत्संकल्पबलस्य शुद्धिप्रदत्वात् । अथ यदा दीक्षां चिकीर्षेत् तदाधिवासनार्थं भूमिपरिग्रहं, गणेशार्चनं, कुम्भकलशयोः पूजां, स्थण्डिलार्चनं, हवनं च कुर्यात् । नित्यनैमित्तिकयोस्तु स्थण्डिलाद्यर्चनहवने एव । तत्र अधिवासनं शिष्यस्य संस्कृतयोग्यताधानम् अम्लीकरणमिव दन्तानां देवस्य कर्तव्योन्मुखत्व- ग्रहणम्, गुरोस्तद्ग्रहणम् । उपकरणद्रव्याणां यागगृहान्तर्वर्तितया परमेशतेजोबृंहणेन पूजोपकरणयोग्यतार्पणमिति । तत्र सर्वोपकरणपूर्णं यागगृहं विधाय भगवतीं मालिनीं मातृकां वा स्मृत्वा तद्रणतेजःपुञ्जभरितं गृहीतं भावयन् पुष्पाञ्जलिं क्षिपेत् । तत उक्तास्त्रपात्राणि यथासंभवं सिद्धार्थधान्याक्षतलाजादीनि तेजोरूपाणि विकीर्य ऐशान्यां दिशि क्रमेण संघट्टयेत्, इति भूपरिग्रहः । ततः शुद्धविद्यान्तमासनं दत्त्वा गणपतेः पूजा, ततः कुम्भम् आनन्दद्रव्यपूरितम् अलंकृतं पूजयेत्, ततो याज्यमनु पूगं न्यस्य तत्र मुख्यं मन्त्रं सर्वाधिष्ठातृतया विधिपूर्वकत्वेन स्मरन् अष्टो- त्तरशतमन्त्रितं तेन तं कुम्भं कुर्यात् । द्वितीयकलशे विघ्नशमनाय अस्त्रं यजेत् । ततः स्वस्वदिक्षु लोकपालान् सास्त्रान् पूजयेत् । ततः शिष्यस्य