भारतकोश
तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)

Tantrasara of Mahamaheshvara Abhinavagupta with Commentary

महामाहेश्वर अभिनवगुप्त द्वारा

DevanagariHindipublished294 पृष्ठ

पृष्ठ 210, कुल 294 में से

संदर्भ में पढ़ें
पृष्ठ 210

दृष्ट्या अभितो यागगृहं पश्येत् । तत्र मुमुक्षुरुत्तराभिमुखस्तिष्ठेत्, यथा भगवदघोरतेजसा झटित्येव प्लुष्टपाशो भवेत् । तत्र परमेश्वरस्वातन्त्र्यमेव मूर्त्याभासनया दिक्त्तत्त्वम् अवभासयति । तत्र चित्प्रकाश एव मध्यं, तत इतरप्रविभागप्रवृत्तेः प्रकाशस्वीकार्यमूर्ध्वम्, अतथाभूतम् अधः, प्रकाशनसंमुखीनं पूर्वम्, इतरत् अपरम्, संमुखीभूतप्रकाशत्वात् अनन्तरं तत्प्रकाशधारारोहस्थानं दक्षिणम् आनुकूल्यात्, तत्संमुखं तु अवभास्य- त्वात् उत्तरम् इति दिक्कचतुष्कम् । तत्र मध्ये भगवान्, ऊर्ध्वस्य ऐशानं वक्त्रम्, अधः पातालवक्त्रम्, पूर्वादिदिक्कचतुष्के श्रीतत्पुरुषाघोरसद्योवामा- ख्यम्, दिक्कचतुष्कमध्ये अन्याश्चतस्रः—इत्येवं संविन्महिमैव मूर्तिकृतं दिग्भेदं भासयति, इति दिक् न तत्त्वान्तरम् । यथा यथा च स्वच्छछाया लङ्घयितुम् इष्टा सती पुरः पुरो भवति तथा परमेश्वरमध्यतामेति सर्वाधिष्ठातृतैव माध्यस्थ्यम् इत्युक्तम् । एवं यथा भगवान् दिग्विभागकारी तथा सूर्योऽपि, स हि पारमेश्वर्येव ज्ञानशक्तिरित्युक्तं तत्र तत्र, तत्र पूर्वं व्यक्तेः पूर्वा यत्रैव च तथा तत्रैव, एवं स्वात्माधीनापि स्वसंमुखीनस्य देशस्य पुरस्तात्त्वात् । एवं स्वात्मसूर्यपरमेशत्रितयैकोभावनया दिक्कचर्चा इति अभिनवगुप्तगुरुवः । एवं स्थिते उत्तराभिमुखम् उपविश्य देहपर्यष्ट- कादौ अहंभावत्यागेन देहतां दहेत् संनिधावपि परदेहवत्—अदेहत्वात्, ततो निस्तरङ्गध्रुवधामरूढस्य दृष्टिखाभाव्यात् या किल आद्या स्पन्द- कला सैव मूर्तिः, तदुपरि यथोपदिष्टयाज्यदेवताचक्रन्यासः, प्राधान्येन च इह शक्तयो याज्याः—तदासनत्वात् भगवन्त्वात्मादीनां शक्तेरेव च पूज्यत्वात्, इति गुरवः । तत्र च पञ्च अवस्था जाग्रदाद्याः, षष्ठी च अनुत्तरा नाम स्वभावदशा अनुसंधेया,—इति षोढा न्यासो भवति । तत्र कारणानां ब्रह्मविष्णुरुद्रेशसदाशिवशक्तिरूपाणां प्रत्येकम् अधिष्ठानात् षट्त्रिंशत्तत्त्वकलापस्य लौकिकतत्त्वोत्तीर्णस्य भैरवभट्टारकाभेदवृत्ते न्यासे पूर्णत्वात् भैरवीभावः तेन एतत् अनवकाशम् । यदाहुः ‘अतरङ्गरूढौ लब्धायां पुनः किं तत्त्वसृष्टिन्यासादिना’ इति । तावत् हि तदतरङ्गं भैरववपुः यत् स्वात्मनि अवभासितसृष्टिसंहारवैचित्र्यकोटि । एवम् अन्योन्यमेलकयोगेन परमेश्वरीभूतं प्राणदेहबुद्ध्यादि भावयित्वा बहि- रन्तः पुष्पधूपवर्णणाद्यैर्यथासंभवं पूजयेत् । तत्र शरीरे प्राणे धियि च तदनुसारेण शूलाब्जन्यासं कुर्यात्, तद्यथा—आधारशक्तिमूले मूलं, कन्द आमूलसारकं लम्बिकान्ते, कलातत्त्वान्तो दण्डः, मायात्मको ग्रन्थिः, चतुष्किकात्मा शुद्धविद्यापद्मं, तत्रैव सदाशिवभट्टारकः स एव महाप्रेतः— ९