तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 209, कुल 294 में से
संदर्भ में पढ़ेंअथ त्रयोदशमाह्निकम् अथ प्रसन्नहृदयो यागस्थानं यायात्, तच्च यत्रैव हृदयं प्रसादयुक्तं परमेश्वरसमावेशयोग्यं भवति तदेव, न तु अस्य अन्यल्लक्षणम्, उक्तावपि ध्येयतादात्म्यमेव कारणम्, तदपि भावप्रसादादेव इति नान्यत् स्थानम्। पीठपर्वताग्रम् इत्यादिस्तु शास्त्रे स्थानोद्देश एतत्पर एव बोद्धव्यः—तेषु तेषु पीठादिस्थानेषु परमेशनिविष्ट्या परमेश्वराधिष्ठानां शक्तीनां देहग्रहणात्, आर्यदेशा इव धार्मिकाणां म्लेच्छदेशा इव अधार्मिकाणाम्, पर्वताग्रादेश्चै- कान्तत्वेन विक्षेपपरिहारात् एकाग्र्यप्रदत्वम् इति। तत्र यागगृहाग्रे बहिरेव सामान्यन्यासं कुर्यात्, करयोः पूर्वं, ततो देहे। ह्रीं-न-फ-ह्रीं, ह्रीं-अ-क्ष-ह्रीं इत्याभ्यां शक्तिशक्तिमद्वाचकाभ्यां मालिनीशब्दराशिमन्त्राभ्याम्, एकेनैव आदौ शक्तिः ततः शक्तिमानिति, मुक्तौ पादाग्राच्छिरोऽन्तम्, भुक्तौ तु सर्वो विपर्ययः। मालिनी हि भगवती मुख्यं शाक्तं रूपं बीजयोनिसंघट्टेन समस्तकामदुघम्। अन्वर्थं चैतन्नाम रुद्रशक्तिमालाभिर्युक्ता फलेषु पुष्पिता संसारशिशिरसंहारनादभ्रमरी सिद्धिमोक्षधारिणी दानादानशक्तियुक्ता इति र-लयोरेकत्वस्मृतेः। अत एव हि भ्रष्टविधिरपि मन्त्र एतन्न्यासात् पूर्णो भवति, साङ्गोऽपि गारुडवैष्णवादिनिरञ्जनताम् एत्य मोक्षप्रदो भवति। देहन्यासानन्तरम् अर्धपात्रे अयमेव न्यासः। इह हि क्रिया- कारकाणां परमेश्वराभेदप्रतिपत्तिदार्ढ्यसिद्धये पूजाक्रिया उदाहरणी कृता, तत्र च सर्वकारकानाम् इत्थं परमेश्वरीभावः, तत्र यष्ट्राधारस्य स्थानशुद्ध्यापादानकरणयोर्घपात्रशुद्धिन्यासाभ्याम् यष्टुर्देहन्यासात्, याज्यस्य स्थण्डिलादिन्यासात्। एवं क्रियाक्रमेणापि परमेश्वरीकृत- समस्तकारकः तयैव दृशा सर्वक्रियाः पश्यन् विनापि प्रमुखज्ञानयोगाभ्यां परमेश्वर एव भवति। एवम् अर्धपात्रे न्यस्य पुष्पधूपाद्यैः पूजयित्वा तद्विन्दुभिः यागसारं पुष्पादि च प्रोक्षयेत्। ततः प्रभामण्डले भूमौ खे वा ओं-बाह्यपरिवाराय नम इति पूजयेत्। ततो द्वारस्थाने ओं-द्वार- देवताचक्राय नम इति पूजयेत्। अगुप्ते तु बहिःस्थाने सति प्रविश्य मण्डलस्थण्डिलाग्र एव बाह्यपरिवारद्वारदेवताचक्रपूजां पूर्वोक्तं च न्यासादि कुर्यात्, न बहिः। ततोऽपि फट् फट् फट् इति अस्त्रजप्तपुष्पं प्रक्षिप्य विघ्नानपसारितान् ध्यात्वा अन्तः प्रविश्य परमेश्वरकिरणेद्धया