तन्त्रसार (महामाहेश्वर अभिनवगुप्त - तन्त्रालोक का प्रामाणिक सार-संग्रह सटीक)
Tantrasara of Mahamaheshvara Abhinavagupta with Commentary
महामाहेश्वर अभिनवगुप्त द्वारा
पृष्ठ 82, कुल 294 में से
संदर्भ में पढ़ेंओं तत्सत्स्वात्मसंविद्वपुषे शंभवे नमः। अथ तन्त्रसारः श्रीमन्महामाहेश्वराचार्यवर्य-श्रीमदभिनवगुप्तविरचितः। प्रथममाह्निकम् विमलकलाश्रयाभिनवसृष्टिमहा जननी भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः। तदुभययामलस्फुरितभावविसर्गमयं हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥१॥ विततस्तन्त्रालोको विगाहितुं नैव शक्यते सर्वैः। ऋजुवचनविरचितमिदं तु तन्त्रसारं ततः शृणुत ॥२॥ श्रीशंभुनाथभास्करचरणनिपातप्रभापगतसंकोचम्। अभिनवगुप्तहृदम्बुजमेतद्विचिनुत महेशपूजनहेतोः ॥३॥ इह ज्ञानं मोक्षकारणं बन्धनिमित्तस्य अज्ञानस्य विरोधकत्वात्; द्विविधं च अज्ञानं बुद्धिगतं पौरुषं च; तत्र बुद्धिगतम् अनिश्चयस्वभावं, विपरीतनिश्चयात्मकं च। पौरुषं तु विकल्पस्वभावं संकुचितप्रथात्मकं, तदेव च मूलकारणं संसारस्य इति वक्ष्यामो मलनिर्णये। तत्र पौरुषम् अज्ञानं दीक्षादिना निवर्तेतापि, किं तु दीक्षापि बुद्धिगते अनध्यवसा- यात्मके अज्ञाने सति न संभवति—हेयोपादेयनिश्चयपूर्वकत्वात् तत्त्वशुद्धि- शिवयोजनारूपाया दीक्षाया इति। तत्र अध्यवसायात्मकं बुद्धिनिष्ठमेव ज्ञानं प्रधानम्, तदेव च अभ्यस्यमानं पौरुषमपि अज्ञानं निहन्ति, विकल्प- संविदभ्यासस्य अविकल्पान्ततापर्यवसानात्। विकल्पासंकुचितसंवित्प्र- काशरूपो हि आत्मा शिवस्वभाव इति सर्वथा समस्तवस्तुनिष्ठं सम्यङ्- निश्चयात्मकं ज्ञानमुपादेयम्। तच्च शास्त्रपूर्वकम्। शास्त्रं च परमेश्वर- भाषितमेव प्रमाणम्। अपरशास्त्रोक्तानामर्थानां तत्र वैविक्त्येन अभ्यु- पगमात् तदतिरिक्तयुक्तिसिद्धनिरूपणाच्च, तेन अपरागमरोक्तं ज्ञानं