तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 10, कुल 199 में से
संदर्भ में पढ़ें( xi )
तर्कसङ्ग्रहः पदकृत्याख्यव्याख्यया सह बहुत्र शिक्षासंस्थानेषु पाठ्यग्रन्थतया निर्धा- रितो वर्तते, किन्तु पदकृत्यग्रन्थस्य संक्षिप्तकायतयाऽनेकत्र दुरवबोधता सर्वविदिताऽ- तस्तदपाचिकीर्षया श्रीत्रिपाठिमहोदयेन भूयसां तदंशानां राष्ट्रभाषया विस्फोटणं कृतं, यद् विद्यार्थिवर्गस्यात्यन्तमुपकारकम् । यदि ग्रन्थ एष श्रीत्रिपाठिना साकल्येन राष्ट्र- भाषायाऽवतार्येत, तदा तेन महीयानुपकारो विद्यार्थिनां स्यादिति मे धारणा । एवञ्चै- तत्संस्करणगता त्रुटिर्नूनं संस्करणान्तरे परिह्रियेतेत्याशासे । एभिरेव शब्दैः श्रीत्रिपाठिभिः प्रस्तुतायाः कृतेः परिचयं वितन्वन् तस्या विद्वज्जन- स्तुत्यतां विद्यार्थिनिवहोपादेयताञ्च कामयमानस्तदर्थं श्रीत्रिपाठिमहोदयमहं सानन्दमभि- नन्दयामि अनुरुणध्मि च यत्तेनान्या अप्येवंविधाः कृतयः प्रस्तोतव्या, येन न्यायविद्या लोकस्य सुखप्राप्या भवेत् ।
बदरीनाथशुक्लः जुलाई, १९७४ [ न्यायवैशेषिकविभागाध्यक्षः ] वाराणसेयसंस्कृतविश्वविद्यालये वाराणसी