भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 9, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 9

( x ) 'तर्कसङ्ग्रह' इत्यत्र तर्कशब्दस्तर्कशास्त्रप्रतिपाद्यपरस्तर्कानुग्राह्यपरो वा । सङ्ग्रह- शब्दश्च संक्षिप्तग्रहसाधनपरः । तथा च तर्कसङ्ग्रहो नाम तर्कानुगृहीतप्रमाणैः परिच्छि- न्नानां तर्कशास्त्रप्रतिपाद्यानां बोधकः संक्षिप्तः शब्दसमूहः । स च बालशब्देन विवक्षि- तानां समधीतकाव्यकोशव्याकरणादीनामपधीततर्कशास्त्राणां च जनानां तत्तत्पदार्थस्या- क्लेशेन बोधनाय ग्रन्थकृता प्रयुक्तः । तमेवाधिकृत्य सुधिया गोवर्धनेन न्यायबोधिनीनामा व्याख्याग्रन्थो विरचितः । यथोक्तं तदुपक्रमे तेनैव "अखिलागमसञ्चारि श्रीकृष्णाराख्यं परं महः । ध्यात्वा गोवर्धनसुधीस्तनुते न्यायबोधिनीम् ॥" इति । तत्र न्यायो नाम न्यायभाष्यानुसारेण 'प्रमाणैरर्थपरीक्षणं न्यायः', न्यायवार्तिका- नुसारेण 'वाक्यभावमापन्नानि प्रत्यक्षादीनि प्रमाणान्येव न्यायः', प्राचीनपरिभाषानुसारेण 'समस्तरूपोपपन्नलिङ्गप्रतिपादकं वाक्यं न्यायः', तत्त्वचिन्तामणिकृतो गङ्गेशोपाध्याय- स्यानुसारेण 'अनुमितिचरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञानजनकवाक्यं न्यायः' दीधितिकृतो रघुनाथस्यानुसारेण 'उचितानुपूर्वीकप्रतिज्ञादिवाक्यपञ्चकं न्यायः' । किन्त्वेषु न्यायबोधिनीशब्दघटको न्यायशब्दो न कमप्यभिधत्ते, किन्तु न्यायनिर्णीतमर्थसार्थं ब्रूते, तस्यैव बोधनाय व्याख्याग्रन्थस्यास्य प्रवृत्तेः । तर्कसङ्ग्रहो हि व्याख्येयग्रन्थः, न्याय- बोधिनी च व्याख्याग्रन्थः, व्याख्येयव्याख्याग्रन्थयोश्च समानविषयत्वं सर्वसम्मतम् । अतस्तर्कशास्त्रप्रतिपाद्या न्यायशास्त्रप्रतिपाद्याश्च अर्था अभिन्नाः, तेषामेव सुखावबोधार्थ- मुभयो ग्रन्थयोरवतारः । बालानां सुखबोधाय प्रणीतस्यापि तर्कसङ्ग्रहस्य भविष्यति काले दुर्गमतां विभाव्य तन्निराचिकीर्षया तर्कसङ्ग्रहेणाहृत्य बोधनानर्हाणां बहूनामर्थानां प्रतिपिपादयिषया च न्यायबोधिनी निर्मिता तत्रभवता विद्वद्वरेण गोवर्धनेन । वर्तमाने काले न्यायबोधिन्या अपि दुर्बोधतां विभाव्य सारल्येन तद्गणीयार्थानामानायासं सुस्पष्टञ्च बुबोधयिषया वर्तमानेषु व्युत्पन्ननैयायिकेष्वन्यतमेन पण्डितप्रवरेण काशीहिन्दूविश्वविद्यालयस्य संस्कृत- महाविद्यालये दर्शनविभागाध्यक्षेण श्रीकेदारनाथत्रिपाठिना कलानाम्नी तद्व्याख्यां विधाय न्यायशास्त्रस्य समग्रो विद्यार्थिवर्गो बहुलः शिक्षकवर्गश्च स्थाने उपचिकीर्षितः । श्रीत्रिपाठिना पदार्थानां सरलीकरणस्य या कला आत्मनः कलायां प्रदर्शिता, सा कलाशालासु छात्राणामविकलं फलं जनयितुं भृशं क्षमतेति कतिपयोदाहरणोपन्यासेन प्रमाणीतुं शक्यते । यथा-षष्ठे पृष्ठे 'अयं भाव' इत्यादिना ग्रन्थेन लक्ष्यत्वलक्षणत्वादीनां बोधनम्, अष्टमनवमपृष्ठयोः 'अत्रायं भाव' इत्यादिना ग्रन्थेन वायुलक्षणघटकस्य रूपत्वावच्छिन्नप्रतियोगिताकाभावस्य बोधनम्, द्वात्रिंशपृष्ठे 'अयं भाव' इत्यादिना त्रयस्त्रिंशे पृष्ठे 'अयमाशय' इत्यादिना च समवायिकारणत्वादीनां बोधनम्, अष्टचत्वा- रिंशे पृष्ठे 'अयमाशय' इत्यादिना उद्देश्यत्वविधेयत्वादीनां बोधनम्, षट्सप्ततितमे पृष्ठे परिष्कृतस्यानुभवजन्यत्वस्य बोधनम्, द्व्यशीतितमे पृष्ठे 'एतेषां कथं सप्तस्वन्तर्भाव इति चेत्, इत्थम्' इत्यादिना ग्रन्थेन प्रमाणादीनां द्रव्यादिपदार्थेष्वन्तर्भावबोधनम् ।