तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 8, कुल 199 में से
संदर्भ में पढ़ेंप्रास्ताविकम् वाराणसेय सम्पूर्णानन्द-संस्कृतविश्वविद्यालयस्य पूर्वं न्यायवैशेषिकविभागाध्यक्षपदं ततः कुलपतिपदञ्चालङ्कृतवतां आचार्यप्रवरश्रीबदरीनाथशुक्लमहोदयानाम् सृष्टिचक्रं किलेदमनादि । तद् येभ्यो जीवेभ्यः प्रवर्तते, तेऽप्यनादयोऽनन्ताश्च । ते हि पूर्वस्यां सृष्टौ विहितनिषिद्धकर्मानुष्ठाने यानि सुकृतानि दुष्कृतानि पुण्यपापापर- नामान्यदृष्टशब्दव्यपदेश्यान्यर्जयन्ति, तदनुसारेण परमेश्वर उत्तरां सृष्टिं निर्माय समु- त्पाद्य च नानाविधानुच्चावचान् प्राणिनस्तेषु ग्रहणधारणानुष्ठानक्षमतया वरिष्ठान् मनुष्यानुद्दिश्य प्राणभृतामनुग्रहाय "आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चे"ति चतस्रो विद्या उपदिशति । यथोक्तं — न्यायसूत्रवात्स्यायनभाष्ये "इमाश्चतस्रो विद्याः प्राणभृता- मनुग्रहायोपदिश्यन्त" इति । विद्यास्वासुं प्रथमा पदार्थशास्त्रम्, द्वितीया आचारशास्त्रम्, तृतीया अर्थशास्त्रम्, चतुर्थी च राजशास्त्रम् । जनजीवनस्य सामग्र्येणाभिरैव निर्वाह्यमाणतया नाभ्यः काचिदन्या विद्या । नामान्तरैरन्यविद्यात्वेन यत्र तत्र वर्ण्यमानानां सर्वासामेव विद्या- नामासु चतसृष्वेवान्तर्भावात् । तत्रान्वीक्षिकीं निर्ब्रुवता वात्स्यायनेन न्यायसूत्रभाष्ये तावदिदमुक्तं यत् 'प्रत्यक्षा- गमाभ्यामीक्षितस्यान्वीक्षणमन्वीक्षा, तया प्रवर्तते या विद्या, सान्वीक्षिकी । इयमेव न्यायविद्या, न्यायशास्त्रं, तर्कशास्त्रं च । यतो विद्येयं पदार्थशास्त्रम्, अनयैव पदार्थाः परिच्छेद्यन्ते । पदार्थपरिच्छेदपरतन्त्रमेव च सर्वं कार्यजातमतो विद्येयं सर्वविद्यानां मूर्धन्यभूता । यथोक्तमाचार्यकौटिल्येन "प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणाम् । आश्रयः सर्वधर्माणां विद्योद्देशे प्रकीर्तिता" इति । तदेवं विद्याया अस्या विधेयं प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणं, तच्च प्रमाणैरर्थ- परीक्षणं, स एव न्यायः । अनेन विधिना परीक्ष्य निर्णीता अर्था एव आन्वीक्षिकी- शास्त्रस्य न्यायशास्त्रस्य तर्कशास्त्रस्य वा प्रतिपाद्याः सिद्धान्तभूता विषयाः । एषामेव सङ्क्षेपतोऽवबोधाय तत्रभवता प्रतिभावता अन्नम्भट्टेन 'तर्कसङ्ग्रह' नामा प्रकरणग्रन्थः प्रणीतः । यदुल्लेखः तर्कसङ्ग्रहस्यारम्भभागे "निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः ॥" इति ।