तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 7, कुल 199 में से
संदर्भ में पढ़ें( vii ) अस्य मदीयव्याख्याग्रन्थस्य पूर्वसंस्करणे भूमिकां लेखितुं मयाऽनुरुद्धाः पण्डित- प्रकाण्डा न्यायविद्याम्भोधिपारावारीणाः सम्पूर्णानन्दसंस्कृतविश्वविद्यालये न्यायवैशेषि- कविभागाध्यक्षपदं पुनस्तत्रैव कुलपतिपदं चालङ्कृतवन्तः पण्डितराजा आचार्यबदरी- नाथशुक्लमहोदयाः प्रास्ताविकलेखनेन मां भृशमनुगृहीतवन्त इति तेषां सततमहं कृतज्ञतामावहामि । तच्च पूर्वसंस्करणगतं प्रास्ताविकं विद्यार्थिनां कृते बहूपयोगि मन्यमानः पुनरत्रापि संस्करणे यथावदुद्धरामीति । तत्रत्यनिर्देशानुसारेणात्र पूर्व- संस्करणगतायास्त्रुटेः परिमार्जनाय प्रयासो मया विहितः । तथापि मुद्रणस्खल- नान्मानुष्यकनान्तरीयकत्वाद्वा प्रमादाज्जातास्त्रुटीः क्षमिष्यन्ते विपश्चित इति सविनयं निवेद्यते— विदुषामाश्रवः केदारनाथत्रिपाठी कार्तिकशुक्ला सप्तमी, भूतपूर्वदर्शनविभागाध्यक्षः २०४१ वि० सं० काशीहिन्दूविश्वविद्यालये वाराणसी