भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 6, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 6

( vi )

इत्थञ्च 'कलाद्वय' संवलितन्यायबोधिन्या हिन्दीटिप्पणोपेतेन पदकृत्येन च पुरस्कृतं तर्कसंग्रहमिमं प्रकाशयितुकामाः दुर्लभानां महत्त्वपूर्णानां च संस्कृत- वाङ्मयग्रन्थानां प्रकाशनादिविधिना संस्कृतविद्यासंरक्षणबद्धादराः हिन्दीसंस्कृता- ङ्ग्लभाषासुपनिबद्धग्रन्थरत्नानां सुप्रसिद्धप्रकाशकाः श्रीमोतीलाल बनारसीदाससंस्थाया अध्यक्षा नवसंस्करणेन प्रकाश्य महान्तमुपकारं विहितवन्तो विद्यार्थिनां जिज्ञासूनाञ्चेति सर्वथा धन्यवादपात्राणि ते । तत्रभवान् तर्कसङ्ग्रहप्रणेता श्रीमदन्नम्भट्टो नाम्ना दाक्षिणात्य इति स्पष्टमेव । अयं तैलङ्गो ब्राह्मणो राघवसोमयाजिकुले समुत्पन्नो अद्वैतविद्याचार्यस्य तिरुमलस्यात्मज इति भाष्यप्रदीपोद्द्योतने तेनैव विदुषा लिखितम् । अस्य समयः १६२५-१७०० ई० वर्षमिति 'इन्ट्रोडक्शन टु तर्कसङ्ग्रह' इति ग्रन्थे अथल्येबोजसाभ्यां प्रतिपादितमित्यु- द्धृतं डॉ० दयानन्दभार्गवेण तर्कसङ्ग्रहावतरणिकायाम् । १६५० ई० वर्षेऽभूदिति केचित् । अष्टादशशताब्द्याः प्रथमे पादेऽयमभूदिति बोड़समहोदय आह । श्रीगोड़बोले- महोदयः स्वरचिते 'भारतखण्डाचा ऐतिहासिक कोष' नाम्नि महाराष्ट्रीयभाषाग्रन्थेऽन्न- म्भट्टं पञ्चदशे शतके आन्ध्रप्रदेशस्य गरिकपायग्रामे समुत्पन्नमाह । किन्तु अपरे नैतं तस्य समयमङ्गीकुर्वन्ति गदाधरविश्वनाथन्यायपञ्चाननोत्तरकाले तस्य भावात् । अनेनान्येऽपि कतिपयग्रन्था निर्मिताः । काश्यामागत्यायमध्यीतवानिति "काशीगमन- मात्रेण नान्नम्र्भट्टायते द्विजः" इति लोकोक्त्या विज्ञायते । न्यायबोधिनीकर्तुर्गोवर्धनस्य सम्बन्धेऽपि विद्यते मतभेदः । तथाप्ययं मैथिलस्तर्क- भाषाकर्तुः केशवमिश्रादर्वाचीनः इति तर्कभाषाया उपरि तर्कभाषाप्रकाशनाम्न्याष्टी- कायाः प्रणयनात् प्रतीयते । अयं बलभद्रविजयश्रियोरात्मजो विश्वनाथपद्मनाभयो- र्रानुज इति तर्कभाषाटीकारम्भपद्यैः प्रतीयते । पद्मनाभश्च किरणावलीभास्करे वर्धमानोपाध्यायं स्मरति । अतो गङ्गेशोपाध्यायपुत्राद् वर्धमानोपाध्यायात् पश्चात्काल- वर्ती अर्वाचीनो गोवर्धन इत्यत्र नास्ति सन्देहः । अस्य विचारस्यान्नम्भट्टकालनिर्णयेन सामञ्जस्यमुपपद्यते । अत एव १३०० तमे शकाब्दे विद्यमानेन गीतगोविन्दकार- जयदेवेनोल्लिखिताद् गोवर्धनाचार्यादन्य एवायं न्यायबोधिनीप्रणेता गोवर्धन इति मन्तव्यम् । पदकृत्यनिर्माता चन्द्रजसिंहः चन्द्रसिंहो वा श्रीगुरुदत्तसिंहशिष्य इति ग्रन्थान्त- पुष्पिकातोऽवगम्यते यत् सम्भवतोऽयं कश्चित् त्यागी महात्मा भवेदिति । पुष्पिकाया- मुल्लिखितम्—"इति श्रीमत्परमहंसगुरुदत्तसिंहशिष्यश्रीचन्द्रजसिंहविरचितं पदकृत्यं समाप्तम्" इति । प्रायो महात्मानः स्वपरिचये गुरुनामैवोल्लिखन्ति न पितृनामेति दृश्यते सम्प्रदायः । सिंहेति कथनात् पञ्चनदप्रान्ती|यो भवेत् । सामग्र्यभावाच्चास्य विषयेऽधिकमिदानीं वक्तुमर्हमिति मन्ये ।