तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 5, कुल 199 में से
संदर्भ में पढ़ेंकिञ्चिन्निवेदनम्
अथेदं प्रस्तूयते 'संस्कृत-हिन्दीकला' द्वयकलिता न्यायबोधिन्या सहिन्दीटिप्पणेन पदकृत्येन च संवलितस्य 'तर्कसंग्रह' इति सुविदितनामधेयस्य न्यायवैशेषिकयोर्महोप- योगिनः प्राथमिकस्य प्रकरणग्रन्थस्य संस्करणान्तरं तत्रभवतां भवतां न्यायविद्यारसि- कानां पुरतः । विदितमेतच्छास्त्रेष्वधीतिनां यत् सकलेषु भारतीयदर्शनेषु महती ह्यस्ति परम्परा न्यायग्रन्थानाम् । सा च विद्वानामुत्कर्षेण सहैधमानाऽन्तः सर्वत्र निजविजय- वैजयन्तीमुत्तोलयन्ती क्रमेण भूयसीं ग्रन्थसम्पत्तिं बिभ्रती साम्प्रतं विभ्राजतेतराम् । अस्यामेव परम्परायां न्यायसिद्धान्तमुक्तावली-तर्कभाषादिग्रन्थत आरभ्य बाधान्तनव्य- न्यायग्रन्थाः न्यायभाष्यवार्तिकतात्पर्यटीकापरिशुद्धिप्रभृतयः किरणावली-न्यायमञ्जरी- न्यायलीलावतीप्रभृतयश्च प्राचीनन्यायवैशेषिकग्रन्थाः स्वगुणगरिम्णा सर्वतः प्रसार- मानाश्च भूरिश उपकारान् शास्त्रीयजगति विदधतीति न तिरोहितं विदुषाम् । तथापि तेषां ग्रन्थानां सुकुमारमतीनां बालजनानां दुरवगमतामाकलय्य श्रीमदन्नम्भट्टस्तर्कसङ्ग्रह- नामानं न्यायवैशेषिकाश्रितं ग्रन्थं प्रणिनाय । तदुपरि च स्वयं मूलकारः श्रीमानन्नम्भट्टः प्राचीनन्यायसरण्या दीपिकाभिधां व्याख्यां, सुधीगोवर्धनो नव्यन्यायसरण्या न्यायबोधिनीं, श्रीचन्द्रजसिंहश्च संक्षिप्तमपि गूढाभिप्रायं 'पदकृत्ये'ति यथार्थसंज्ञं व्याख्याग्रन्थं व्यरचयन् । तत्र चेदानीं नव्यन्यायसरण्याः प्रायः सर्वेष्वेव शास्त्रेष्वनुप्रविष्टतया सारल्येन तस्याः परिचयाभिलाषिणां लाभाय नव्यन्यायनगरप्रवेशे गोपुरायमाणाया न्यायबोधिन्या उपरि बहोः कालात् सरलां विशदाञ्च व्याख्यां कर्तुमनाः 'संस्कृत-कला' निर्माणेऽहं प्रावर्तिषि, समपूरं प्राचीकशञ्च तां स्वयमेव । 'संस्कृत-कलायाः' निर्माणावसरे नूनं पाण्डित्यप्रदर्शनमनभ्याशमित्यमित्यासीन्मम मनसि । अतएव विद्यार्थिभिर्विद्वद्भिश्च भृशं समादृतत्वात् स्वल्पैरेव वर्षेर्विपणिषु तस्याः संजाताद् दौर्लभ्यादध्येतृवर्गा- ध्यापकवर्गयोः पुनरस्याः प्रकाशनार्थमुत्सुकतां दृष्ट्वा संस्करणान्तराय प्रायस्यँस्तथा छात्राणां कृते विशेषोपयोगितादृष्ट्या संस्कृत-कलया सहैव हिन्दीकलयापि न्यायबोधिनीं समयोजयम् । यद्यपि बिहारोत्कलवङ्गप्रान्तेषु न्यायबोधिन्येव प्रायस्तत्रत्यपरीक्षासु पाठघतया निर्धारिताऽऽस्ते, तथापि सम्पूर्णानन्दसंस्कृतविश्वविद्यालयादिषु च पदकृत्यस्य निर्धारित- तया तदपि मया गूढस्थलेषु हिन्दीटिप्पणेन सह संयोजितं परीक्षार्थिनामुपकारायेति ।