तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 103, कुल 199 में से
संदर्भ में पढ़ें८४ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः चिकीर्षितस्य तर्कसंग्रहग्रन्थस्य निर्विघ्नसमाप्त्यर्थं श्रीमदन्नम्भट्टेन कृतस्येष्ट- देवतानमस्कारात्मकमङ्गलस्य तेनैव यो ग्रन्थादौ निबन्धः कृतस्तस्य शिष्यशिक्षा- रूपप्रयोजनं ज्ञापयितुं न्यायबोधिनीकारः—चिकीर्षितस्येत्यादिना । न्या.बो. ‘अथ पदार्थान् विभजते’ इत्यत्र ‘अथेति’ शब्द आनन्तर्यार्थः, मङ्गलकरणा- पृ.२. नन्तरमित्यर्थः । वस्तुतस्तु तर्कसंग्रहग्रन्थस्य बालानां सुखबोधार्थं कृतत्वात् ये ग्रहण- धारणपटवस्तेषामेवात्र बालत्वात्—शिष्याणां पठिष्यमाणविषयग्रहणधारणपटुत्व- सम्पत्त्यनन्तरमित्यर्थः । ‘पदार्थान् विभजते’ इत्यत्र द्वितीयाविभक्तेः कर्मत्व- मर्थः । धातूत्तरप्रत्ययस्य कृतिमत्त्वमर्थः । तथा च पदार्थकर्मकविभागानुकूलकृतिमान् मूलकार इति सम्पूर्णवाक्याद् बोधः । विभागपदार्थश्च स्वसमभिव्याहृतपदार्थता- वच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारकबोधानुकूलो व्यापारः । अत्र च स्वपदेन विपूर्वकभज्धातुः ग्राह्यः । तत्समभिव्याहृतम् अर्थात् तत्संनिकटे विद्यमानं पदं—पदार्थानिति पदं, तदर्थतावच्छेदकं पदार्थत्वम्, तद्व्याप्या मिथोविरुद्धाश्च यावन्तो धर्माः—द्रव्यत्व, गुणत्व, कर्मत्व, सामान्यत्व, विशेषत्व, समवायत्वा- भावत्वधर्माः । यतो हि यथा यत्र यत्र धूमोऽस्ति तत्र तत्र वह्निरवश्यं विद्यते तस्माद् धूमो वह्निव्याप्य इति कथ्यते । तथैव यत्रयत्र द्रव्यत्वादयः सप्त धर्माः सन्ति तत्र तत्र पदार्थत्वमवश्यमस्ति, तस्मात् पदार्थत्वव्याप्या द्रव्यत्वादिधर्माः । मिथो विरुद्धास्ते द्रव्यत्वादिधर्मा इत्यत्र तु शङ्कैव नास्ति । नहि द्रव्यत्वाधिकरणे गुणत्वम्, गुणत्वाधिकरणे द्रव्यत्वं वास्ति । एवमन्यत्रापि । यावद्धर्मप्रकारकबोधाः— इदं द्रव्यम्, अयं गुणः, इदं कर्म, इदं सामान्यं, अयं विशेषः, अयं समवायः, अयमभाव इति बोधाः सन्ति ! तथा हि प्रत्येकं सविकल्पके ज्ञाने कश्चित् प्रकारो भवति कश्चिद् विशेष्य इति । यथा अयं घट इति ज्ञाने घटत्वं प्रकारः घटश्च विशेष्यो भवति, तथा इदं द्रव्यमित्यादिपूर्वोक्तज्ञानेष्वपि द्रव्यत्वगुणत्वादयः प्रकाराः सन्ति, तस्मात् पूर्वोक्ता बोधाः द्रव्यत्वादिप्रकारकाः जाताः, तादृश- बोधानामनुकूलो व्यापारः द्रव्य, गुण, कर्म, सामान्य विशेष, समवायाभावा इति रीत्या पृथक्-पृथक् लेखनकथनादिरूपः, स एव च विभागपदेन कथ्यते । अग्रेप्येव- मेव द्रव्याणि विभजते, गुणान् विभजते इत्यादिस्थलेषु विभागपदार्थो वेदितव्यः । ननु द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः पदार्थाः इति लेखनमात्रेण गणयित्वैव सप्त पदार्था इति ज्ञानसंभवे सप्तग्रहणं किमर्थमित्यत आह—तत्रेत्यादि । तत्र—द्रव्यगुणेत्यादिवाक्ये, सप्तग्रहणम्-सप्तपददानमित्यर्थः। व्याप्तिलाभायेति । साहचर्यनियमो हि व्याप्तिः । तथाहि यत्र यत्र धूमो विद्यते तत्र तत्र वह्निरस्तीति धूमो वह्निव्याप्यो भवति, तथा यत्र यत्र पदार्थत्वं तत्र तत्र द्रव्यादिसप्तान्यतमत्व- मस्ति, अर्थात् स स द्रव्यादिसप्तानाम् अन्यतम एव भवति । यथा पदार्थत्वं द्रव्ये-