भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 104, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 104

न्यायबोधिनी-संस्कृत-कला [८५]

ऽस्ति तर्हि द्रव्यमपि सप्तसु अन्यतममेव वर्तते । एवं पदार्थत्वाश्रयाः प्रत्येकं गुणा- दयोऽपि द्रव्यादिषु सप्तसु अन्यतमा एव वर्तन्ते । अतः पदार्थत्वं द्रव्यादिसप्तान्य- तमत्वव्याप्यमिति सिद्धमेव । तथा चैतादृशव्याप्तिलाभायैव सप्तग्रहणमिति । अयं भावः—यथा धूमो वह्निव्याप्यः सन् वह्न्यभावस्थाने न भवति किन्तु वह्न्यधिकरणे एवोत्पद्यते, तथैव पदार्थत्वमपि द्रव्यादिसप्तान्यतमत्वव्याप्यं सत् द्रव्यादिसप्तान्यतममतिक्रम्य न तिष्ठति किन्तु तदन्तर्गतमेव तिष्ठति । अर्थात् द्रव्यादिसप्तभ्योऽन्योऽष्टमः कश्चित् पदार्थ एव न भवतीति स्पष्टं भवति । सप्तैव पदार्था इति पूर्वोक्तं दूषयितुं शक्तिरूपमष्टमं पदार्थमाशङ्कते- नन्विति । तथाहि मण्यादीति । अयमत्र पूर्वपक्षाशयः । काष्ठादिरूपेन्धनादौ वह्नेः संयागे सति दाहो जायते, किन्तु तत्रैव चन्द्रकान्तमणिसंयोगे कृते वह्निसत्त्वे- ऽपि दाहो न जायते, तस्य मणेरपसारणे तु जायते । अतः कल्प्यते यत् मणिसमवधाने वह्नेः दाहकताशक्तिर्नश्यति, सैव शक्तिर्मण्यभावदशायामुत्पद्यते इति । तस्मादेतत् सिद्ध्यति यत् अस्त्येका शक्तिर्या उत्पद्यते विनश्यति चेति । सैव चाष्टमः पदार्थ इति । अत्रोत्तरमाह—मणेः प्रतिबन्धकत्वेनेति । अयमत्र समाधानाश्यः—यथा कुलालो यदा घटं कर्तुमारभते तदैव यदि कश्चित् राजपुरुष आयाति तदा इच्छन्नपि स घटं कर्तुं न पारयति, तेन किं कुलालस्य घटकरणशक्तिर्नष्टा ? नहि, किन्तु तत्र राज- पुरुषस्य प्रतिबन्धकत्वं मन्यते तदभावस्य च कारणत्वं मन्यते । तथैव मणिसमवधाने वह्निसत्त्वेऽपि यदि दाहो न जायते तदा वह्नेर्दाहकताशक्ति- र्नष्टा इति न मन्तव्यम्, किन्तु मणेर्दाहं प्रति प्रतिबन्धकत्वमेव तत्र स्वीकरणीयम् । प्रतिबन्धकसत्त्वे कार्य्यासञ्जनात् प्रतिबन्धकाभावस्यापि कार्यं प्रति कारणत्व- स्वीकारात् । तदानीं प्रतिबन्धकाभावरूपं कारणमेव नास्तीति कुतो दाहो जायेत ? मण्यभावदशायान्तु प्रतिबन्धकाभावरूपकारणसत्त्वात् दाहो भविष्यत्येवेति न काचित् क्षतिः । तस्मादनेनैव पथा सर्वनिर्वाहे व्यर्था शक्तिकल्पना । नहि युक्त्य- भावादेव शक्तिरस्वीकारार्हा, दोषादपि नाङ्गीकारार्हेत्याह अनन्तेति । तथा च वारं वारं मण्यपसारणेऽनन्ताः शक्तयः, मणिस्थापने चानन्तास्तासां ध्वंसाः प्राग- भावाश्च स्वीकरणीया भविष्यन्तीति महदन्याय्यमिति भावः । अक्षराथंस्तु व्याख्यानुसारी स्वयं करणीयः । न्या.बो. द्रव्याणि विभजते इति । अस्यापि द्रव्यकर्मकविभागानुकूलव्यापारवान् पृ.३. मूलकार इति पूर्वरीत्यैवार्थ : पूर्वाचार्यैः नवानामेव पृथिव्यादीनां द्रव्याणां स्वीकृतत्वात् तद्दूषयितुं तमोरूपं दशमं द्रव्यमाशङ्कते—नन्वित्यादिना । तथाहितीति । नीलं तमश्चल- तीति प्रतीतिः तमसि नीलरूपं चलनक्रियाञ्च बोधयति । यद् गुणवत् क्रियावद्