भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 105, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 105

८६ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः वा भवति तद् द्रव्यं भवति, तस्मात् तमोऽपि नीलरूपगुणवत् चलनक्रियावच्च वर्ततेऽतः तदपि द्रव्यं सिद्धं भवति इति भावः । नवद्रव्यवादी शङ्कते-न चेति । कॢप्तद्रव्येषु-निश्चितेषु नवद्रव्येष्वित्यर्थः । अन्तर्भावात् तेष्वेवान्तःपातित्वात्, दशमं द्रव्यं तमो नास्तीत्याशयः । दशमद्रव्यत्ववाद्युत्तरयति-तमसो रूपवत्त्वा- दिति । अयं भावः-तमसो वायौ, आकाशकालदिगात्ममनःसु च नान्तर्भावः, तमसो रूपवत्त्वात् तेषाञ्च नीरूपत्वात् । न पृथिव्यामन्तर्भावः, तस्या गन्धवत्त्वात् तमसश्च गन्धरहितत्वात् । न जलतेजसोरन्तर्भावः, तयोःक्रमेण शीतोष्णस्पर्शवत्त्वात् तमसश्च निःस्पर्शत्वात् । तस्मान्नवसु कुत्राप्यनन्तर्भावात् तमसो दशमद्रव्यत्वम् सिद्धमेवेति । अत्र सिद्धान्ती समाधत्ते-नेति । अयं भावः-तमो न कश्चित् भावपदार्थो येन तस्य दशमद्रव्यत्वशङ्कापि स्यात् । यतो हि भावपदार्थ एव द्रव्यं कथ्यते, तमस्तु तेजोऽभावरूपं सत् सप्तमे पदार्थ एवान्तर्भवति । तस्मात् तमसो दशमद्र- व्यत्वं दूरमास्ताम्, द्रव्यत्वमेव तस्य नास्तीति भावः । अतिरिक्तकल्पनायाम्- दशमद्रव्यत्वकल्पनायाम् । द्रव्यत्वमेव तस्य नास्तीति भावः । तेजोऽभावरूपत्वेने- वोपपत्तौ-तेजोऽभावस्वरूपस्य तस्याङ्गीकारेणैव सर्वदोषपरिहारे । अतिरिक्त- कल्पनायाम्-दशमद्रव्यत्वकल्पनायाम् । मानाभावात्-प्रमाणं नास्तीत्यर्थः । न्या.बो. ननु तेजोऽभावरूपं तम इति भवतोच्यते, तेज एव तमोऽभावस्वरूपं कथन्न पृ.४. मन्यते ? अयमेव पक्षो युक्तोऽयं न युक्त इत्यत्र विनिगमनाया अर्थात् एकतरपक्षसाधि- काया युक्तेरभावादिति शङ्कते-न चेत्यादिना । समाधत्ते-तेजसोऽभावरूपत्वे- ति । अयं सारः-तेजो यदि भावपदार्थो न स्यात् तर्हि सर्वैरनुभूयमानस्योष्णस्प- र्शस्य किं द्रव्यमाश्रयः स्यात् ? पृथिव्यादयस्तु नाश्रयो भवितुमर्हन्ति, तेषामनुष्ण- त्वात् । किन्तु अतिरिक्तमेव किमपि द्रव्यं कल्पनीयं स्यात् । तथाच यदि तेजो द्रव्यमपलप्यते तदान्यद् द्रव्यं शिरस्यापतत्येवेति गौरवं स्यात् । तस्मादुष्णस्पर्श- गुणाश्रयतया तेजो द्रव्यं स्वीकरणीयम्, तमश्च तेजोऽभावरूपमङ्गीकरणीयमिति । तर्हि नीलं तमञ्चलतीति प्रतीतेः का गतिर्भविष्यतीत्यत आह-तमसीति । नीलरूपप्रतीतिश्चलनक्रियाप्रतीतिश्च तमसि भ्रमात्मिके एव स्त इति । दीपञ्च- लति न तम इति भावः । न्या.बो. समवायेन गन्धवत्त्वं पृथिव्या लक्षणमित्यर्थः । अस्य लक्षणस्य पृथिवी लक्ष्या । पृ.५. अयं भावः-लक्ष्यते ज्ञायतेऽनेनेति व्युत्पत्त्या करणे ल्युट्प्रत्ययेन लक्षणपदं सिद्धयति । अर्थात् येन स्वरूपेण पदार्थो ज्ञायते तदेव स्वरूपम् लक्षणं कथ्यते । यथा-सास्नया अयं गौरिति ज्ञायते स्मात् सास्ना गोलक्षणम् । अत्रैव गन्धेनैव ज्ञायते इयं पृथिवीति तस्मात् गन्धवत्त्वं पृथिव्या लक्षणमिति । लक्षणेन च यज्- ज्ञायते तदेव लक्ष्यमिति कथ्यते । यथा सास्नारूपलक्षणेन गोर्ज्ञानं भवति 'अयं

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक) · पृष्ठ 105, कुल 199 में से · BharatKosha