तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 106, कुल 199 में से
संदर्भ में पढ़ेंन्यायबोधिनी-संस्कृत-कला ८७
न्या.बो.गौरिति' तस्माद् गौर्लक्ष्यः । अत्रापि गन्धेन लक्षणेन पृथिवी ज्ञायते 'इयं पृथिवीति' पृ.१. तस्मात् पृथिवी लक्ष्या । एवमेवान्यत्रापि लक्ष्यलक्षणव्यवस्था ज्ञेया । वर्तमानत्व- स्मिन्नर्थे निष्ठशब्दो नव्यनैयायिकैर्व्यवह्रियते । लक्ष्यस्य भावो लक्ष्यता । सा च लक्ष्यता पृथिवीरूपे लक्ष्ये वर्ततेऽतो वक्तव्यं 'लक्ष्यता पृथिवीनिष्ठेति । एवमेव ब्राह्मणत्वं यज्ञदत्तेऽस्ति चेत् यज्ञदत्तनिष्ठब्राह्मणत्वमिति वक्तव्यम् । एवमन्यत्रापि । पृथिवीनिष्ठा या लक्ष्यता तस्या अवच्छेदकं पृथिवीत्वम् । तदेतोपपादयति बोधिनीकारः—यद्धर्मावच्छिन्नमिति । अर्थात् लक्ष्यं पृथिव्यादिकं येन धर्मेणावच्छिन्नं ( विशिष्टं ) स धर्मो लक्ष्य- वच्छेदकः । प्रकृते लक्ष्या पृथिवी पृथिवीत्वेन धर्मेण अवच्छिन्ना अस्ति, तस्मात् पृथिवीनिष्ठलक्ष्यतावच्छेदकं पृथिवीत्वम् । अयमत्र सारसारः—लक्ष्यता सर्वेष्वेव पदार्थेष्वस्ति । न हि जगति कोऽपि पदार्थोऽस्ति यो लक्ष्यो न भवेत् । तथा सर्वोऽपि पदार्थो यदि लक्ष्योऽस्ति तदा लक्ष्यताऽपि पृथिवीजलादिसकलनिष्ठाऽस्ति । अवच्छिनत्ति—विशिनष्टि—व्याव- र्तयतीत्यवच्छेदकम् । तथा च प्रकृते पृथिवीत्वं धर्मः पृथिवीनिष्ठां लक्ष्यतां जलादिनिष्ठलक्ष्यताभ्यो व्यावर्तयति । तस्मात् पृथिवीत्वं पृथिवीनिष्ठलक्ष्यताव- च्छेदकं भवति । अश्वत्वम् अश्वनिष्ठलक्ष्यतावच्छेदकं भवतीति । निष्ठपदार्थो न विस्मरणीयः, अन्यथाऽसामञ्जस्यमुत्पद्येत । एवं पृथिवीनिष्ठा लक्ष्यता पृथिवीत्वावच्छिन्ना । अत्र नियममाह—यो धर्मो यस्यावच्छेदकः स तद्धर्मावच्छिन्न इति । प्रकृते पृथिवीत्वं लक्ष्यताया अव- च्छेदकं विद्यतेऽतो लक्ष्यता पृथिवीत्वावच्छिन्ना । अत एव पृथिवीत्वावच्छिन्न- पृथिवीनिष्ठलक्ष्यतानिरूपितेत्यादिरीत्या योजयित्वा लम्बायमानं वाक्यं रचयन्ति नव्याः । एतच्चाग्रे स्फुटीभविष्यति । लक्ष्यतावत् प्रतियोगिता—अनुयोगिता— विधेयता—उद्देश्यता—आधेयता—अधिकरणता—कार्यता— कारणता-पक्षता- साध्यता—हेतुता—प्रतिबध्यता—प्रतिबन्धकता—शक्यता— शक्तता—इत्यादी- न्यपि भवन्ति । लक्ष्यतावच्छेदकवच्च प्रतियोगितावच्छेदकम्—अनुयोगितावच्छे- दकं—विधेयतावच्छेदकमित्यादीनि भवन्ति । स्थाने स्थाने सर्वाणि विविच्य दर्शयिष्यन्ते । अत्र तावदेषां नाममात्रं स्मरणीयम् । ननु यदि गन्धवत्त्वं पृथिव्या लक्षणं तदोत्पत्तिकालिनो घटः पृथिवी न स्यात्, तदानीं तत्र घटे गन्धवत्त्वलक्षणाभावात् । यतो हि नैयायिका मन्यन्ते— उत्पन्नं द्रव्यं क्षणमगुणं निष्क्रियञ्च तिष्ठतीति । तथा चोक्तलक्षणस्योत्पत्तिका- लीने घटेऽव्याप्तिरिति शङ्कायां लक्षणान्तरमाह—गन्धसमानाधिकरणेति । गन्धेन समानमधिकरणं यस्याः सा गन्धसमानाधिकरणा, सा चासौ द्रव्यत्वव्या- प्यजातिश्चेति गन्धसमानाधिकरणद्रव्यत्वव्याप्यजातिरिति समस्तं पदम् ।