भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 107, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 107

९० तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः

नाधिकरणस्य लक्ष्यतावच्छेदकसमानाधिकरणत्वस्य च पूर्वार्धस्य शृङ्गत्वे सत्त्वात् शृङ्गत्वं न गोलक्षणम्, अतिव्याप्तिदोषेण ग्रस्तत्वादिति भावः । अव्याप्तेर्निष्कृष्टलक्षणमाह - लक्ष्यतावच्छेदकसमानाधिकरणात्यन्ता- भावप्रतियोगित्वमिति । अयमर्थः - लक्ष्यतावच्छेदकसमानाधिकरणो योऽ- त्यन्ताभावस्तत्प्रतियोगित्वमव्याप्तिरिति । यथा गोर्यदि नीलरूपवत्त्वं लक्षणं कृतं स्यात् तदा तदव्याप्तिदोषेण ग्रस्तं स्यात् । यतो हि लक्ष्यतावच्छेदकं गोत्वं, तत्समानाधिकरणोऽर्थात् गोत्वाधिकरणे वर्तमानोऽत्यन्ताभावो नीलरूपवत्त्वाभाव एव, गोत्वाधिकरणे श्वेतगवि नीलरूपवत्त्वाभावात् । तादृशात्यन्ताभावप्रतियोगित्वं नीलरूपवत्त्वेऽस्ति । एवञ्च लक्ष्यतावच्छेदकगोत्वसमानाधिकरणात्यन्ताभावप्रतियो- गित्वात् इदं लक्षणमव्याप्तिदोषयुक्तम् । असंभवस्य निष्कृष्टलक्षणमाह-लक्ष्यतावच्छेदकव्यापकीभूताभाव- प्रतियोगित्वमिति । लक्ष्यतावच्छेदकव्यापकीभूतो योऽभावस्तत्प्रतियोगित्व- मित्यर्थः । यथा गोरेकशफवत्त्वं लक्षणं कृतं स्यात् तदा तल्लक्षणमसंभव- दोषग्रस्तम् । लक्ष्यतावच्छेदकं गोत्वम्, तद्व्यापकीभूतोऽभावः एकशफ- वत्त्वाभावः, तत्प्रतियोगिताया एकशफवत्त्वे सत्त्वात् । यथा यत्र यत्र धूमो वर्तते तत्र तत्र वह्नेः सत्त्वात् धूमस्य वह्निर्व्यापको भवति, तथैव गोत्वं सर्वत्र गवि वर्तते तत्र चैकशफवत्त्वाभावस्यापि सत्त्वात् एकशफवत्त्वाभावो गोत्वव्यापकः । तथा च लक्ष्यतावच्छेदकव्यापकीभूताभावप्रतियोगित्वात् एकशफवत्त्वमपि न गोलक्षणम् । किन्तु एतत्त्रितयदोषरहितत्वात् सास्नावत्त्वमेवादुष्टं गोलक्षणं मन्तव्यम् । एवं रीत्यैव रूपरहितत्वे सति स्पर्शवत्त्वमेव वायोरदुष्टं लक्षणम् । न्या.बो. मूलकृता कृतमाकाशलक्षणं व्याख्यातुमाह-आकाशं लक्षयतीति । "शब्द- पृ.६. गुणकमिति" इत्यत्रेतिशब्देन शब्दगुणकत्वमाकाशलक्षणमिति निर्दिश्यते । शब्दो गुणो यस्य तदाकाशमित्यर्थः । ननु शब्दोऽस्यास्तीति शब्दवत् तस्य भावः शब्दवत्त्वम् । तथा च समवायेन सम्बन्धेन शब्दवत्त्वमात्रस्याकाशलक्षणस्य सम्यक्त्वे गुणपदं किमर्थमत आह-गुणपदमिति । पृथिव्यादौ रूपरसादयोऽनेके विशेष- गुणाः ❀ सन्ति आकाशे तु केवलः शब्द एव विशेषगुणोऽस्तीति सूचनाय गुणपदं दत्तमिति भावः । न्यायबोधिन्यां द्योतनायेति पदं द्योतनार्थैवेत्यर्थकम् । तथा चैतेन यद् व्यवच्छेद्यं तदाह-न त्वतिव्याप्तिवारणायेति । विशेषणानामितरव्यावर्तक- त्वात् अन्यत्र अतिव्याप्तिवारणप्रयोजनकत्वेऽपि अत्र तथाविधप्रयोजनासंभवादिति भावः ।


* रूपं गन्धो रसः स्पर्शः स्नेहः सांसिद्धिको द्रवः । बुद्ध्यादिभावनान्ताश्च शब्दो वैशेषिका गुणाः ॥ इति विशेषगुणाः ।