तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 109, कुल 199 में से
संदर्भ में पढ़ें९२ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः मतोर्या—घटत्वं जातिः समवायेन घटेऽस्तीति । एवं षष्ठः पदार्थो विशेषः समवायेनैव सम्बन्धेन नित्यद्रव्येषु वर्तते । कालिकसम्बन्धेन घटादयः काले कालो- पाधिषु च वर्तन्ते, कालस्य सर्वाधारत्वात् । जन्यपदार्था एव कालोपाधय उच्यन्ते । कालोपाधयश्च काल एवेति ज्ञेयम् । येन सम्बन्धेनाभावो भूतलादौ तिष्ठति स स्वरूपसम्बन्धः । अर्थात् घटाभाववद्भूतलमित्यत्र घटाभावो भूतले स्वरूपसम्बन्धेन तिष्ठति । तदात्मनो भावः तादात्म्यम् । तेन सम्बन्धेन घटो घटे एव वर्तते । तादात्म्येन सर्वं वस्तु स्वस्मिन् सम्बद्धं भवति । ज्ञानं विषयतासम्बन्धेन विषये तिष्ठति । विषयश्च विषयितासम्बन्धेन ज्ञाने तिष्ठतीति । एवं प्रदर्शितरीत्या गुणगुणिनोः समवायात् ज्ञानमात्मनि समवायेन सम्बन्धेन स्थास्यति । तदेव च ज्ञानम् विषयतासंबन्धेन विषये वर्तते । तथा च यद्यधिकरणपदं न स्यात् किन्तु ज्ञानवानात्मा इत्येव कथ्येत, तदा विषयतासम्बन्धेन घटादिविषयस्यापि ज्ञानवत्त्वात् तत्रात्मलक्षणस्यातिव्याप्तिः स्यात्, अतोऽधिकरणपदं दत्तम् । तथा च तेन समवायसम्बन्धेन ज्ञानाश्रयत्वलाभात् समवायेन आत्मन्येव ज्ञानस्य सत्त्वात् न कोऽपि दोषः पदमादधाति । उपरिष्टादुक्ततः सम्बन्धविवेकः सदा स्मृतो रक्षणीयो येन नाग्रेऽपि काठिन्यनुभूयेत । मनोलक्षणं व्याख्यातुमारभते— मनो निरूपयतीत्यादिना । सुखाद्युप- लब्धिसाधनमिन्द्रियं मन इत्यत्रोपलब्धिपदेन साक्षात्कार एव ग्रहीतव्योऽन्यथा सुखादीनां स्मृत्यात्मकोपलब्धि प्रति चक्षुरादेरप्युद्बोधकज्ञापकतया साधनत्वात्त- त्रातिव्याप्तिः प्रसज्ज्येतेति भावः । पर्यवसितं लक्षणमाह-तथाचेति । मनसि सुखदुःखादिसाक्षात्कारकारणत्वस्येन्द्रियत्वस्य च सत्त्वाल्लक्षणसमन्वयः । अत्र यदीन्द्रियत्वमेव मनसो लक्षणं स्यात् तदा चक्षुरादेरपीन्द्रियत्वात् तत्रातिव्याप्तिः स्यात्, अतः सुखादिसाक्षात्कारकारणत्वविशेषणम् । तथा च चक्षुरादेः सुखादि- साक्षात्कारेऽकारणत्वान्नातिव्याप्तिः । एतत्सर्वमाह - इन्द्रियत्वमात्रोक्तावित्या- दिना विशेषणमित्यन्तेन । विशेष्यस्येन्द्रियत्वस्य फलमाह - विशेष्यानुपादाने इति । आत्मन्यतिव्याप्तिरिति । अत्र हेतुमाह--आत्मन इति । सुखादिकं प्रति—सुखादिसाक्षात्कारं प्रति । समवायिकारणत्वादिति । विशेष्योपादानम्- इन्द्रियत्वस्य लक्षणे प्रवेश इत्यर्थः । एवञ्चात्मन इन्द्रियत्वाभावान्न तत्र मनो- लक्षणातिव्याप्तिरिति भावः । न्या.बो. पूर्वं सर्वाणि द्रव्याणि लक्षितानि, इतो गुणान् लक्षयितुमारभमाणस्य पृ.१२. मूलकारस्य 'चक्षुर्मात्रग्राह्यो गुणो रूपमिति' रूपलक्षणं व्याख्यातुमाह-रूपं लक्षयतीति । मूलवाक्यतो लक्षणांशं पृथक्कृत्य दर्शयति-चक्षुर्मात्रग्राह्यत्व- विशिष्टगुणत्वमिति । रूपं हि केवलेन चक्षुषा ग्राह्यमर्थात् ज्ञेयमस्ति गुणश्चा- स्तीति तत्र लक्षणसमन्वयः । अत्र लक्षणे चक्षुर्मात्रग्राह्यत्वं विशेषण, गुणत्वञ्च