तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 110, कुल 199 में से
संदर्भ में पढ़ेंन्या.बो. विशेष्यमस्ति । विशेष्यस्य गुणत्वमात्रस्य लक्षणत्वे दोषमाह — विशेष्यमात्रो- पृ.१२. पादान इति । रसादावतिव्याप्तिरिति । तस्यापि गुणत्वादिति शेषः । चक्षुर्मात्रग्राह्यत्वविशेषणदाने तु नातिव्याप्तिः, रसादेः रसनादिग्राह्यत्वेन चक्षुर्ग्र्रा- ह्यत्वाभावात् । चक्षुर्मात्रग्राह्यत्वमात्रस्योपादाने गुणत्वस्य चानुपादाने दोषमाह- रूपत्वेऽतिव्याप्तिरिति । यथा रूपं चक्षुर्मात्रग्राह्यं तथा रूपत्वस्यापि चक्षुर्मात्र- ग्राह्यत्वादित्यर्थः । कथं रूपवत् रूपत्वमपि चक्षुर्मात्रग्राह्यमित्यत्र हेतुं नियममाह— यो गुण इति । रूपादिचतुर्विंशतिगुणमध्ये यो गुणो येनेन्द्रियेण गृह्यते तद्गुण- निष्ठा या रूपत्वादिजातिः सापि तेनैवेन्द्रियेण गृह्यते इति नियमार्थः । तथा च रूपत्वेऽतिव्याप्तिवारणाय गुणत्वेति विशेष्योपादानम् । एवं सति रूपत्वं सामान्यं (जातिः) न तु गुण इति नातिव्याप्तिः । चक्षुर्मात्रग्राह्यत्वमित्यस्यार्थमाह—चक्षुर्मात्रग्राह्यत्वं नामेति । चक्षु- र्भिन्नानि यानि रसनादीनीन्द्रियाणि तैरग्राह्यत्वे सति चक्षुर्ग्राह्यत्वमित्यर्थः । ननु चक्षुर्ग्राह्यत्वे सति गुणत्वमित्येवं रूपलक्षणमस्तु मात्रपदं किमर्थमत आह— मात्रपदानुपादान इति । अयमेको घट इत्यत्र संख्यायास्त्वचा घटस्पर्शे कृते यथा ज्ञानं भवति तथा चक्षुषाऽपि भवतीति तस्या अपि चक्षुर्ग्राह्यगुणत्वादति- व्याप्तिरिति भावः । तदेवाह—तत्रापीति । मात्रपददाने तु नातिव्याप्तिरित्याह— संख्यादेरिति । अत्र लक्षणे ग्राह्यत्वं प्रत्यक्षविषयत्वम्, चक्षुर्ग्राह्यत्वं चक्षुर्जिन्य- प्रत्यक्षविषयत्वम् इत्यनुपदं वक्ष्यति बोधिनीकारः । तथाचैतादृशचक्षुर्ग्राह्यत्वानु- पादानेऽतीन्द्रियगुरुत्वादावतिव्याप्तिः स्यादतस्तद्वाररणाय चक्षुर्ग्राह्यत्वोपादानम् । तथा सति नातिव्याप्तिः, तस्यातीन्द्रियत्वेन चक्षुषाऽग्राह्यत्वात् इत्याशनेनाह— अतीन्द्रियेति । ग्राह्यत्वार्थं उक्तः । अग्राह्यत्वस्यार्थमाह—अग्राह्यत्वं नामेति । तदविषयत्वम् — प्रत्यक्षाविषयत्वमित्यर्थः । मात्रपदार्थसहकृतमुक्त- लक्षणस्य फलितार्थमाह — तथा चेति । स्पष्टोऽस्यार्थः । एवं फलितार्थेऽपि दिवसे सूर्यस्य रात्रौ चन्द्रस्य दीपस्य वा प्रभया सह घटस्य यः संयोगस्तत्रातिव्याप्तिरित्याशङ्कते—नन्विति । अतिव्याप्तौ हेतुमाह—चक्षुर्मात्रग्राह्यगुणत्वादिति । चक्षुर्भिन्नेन्द्रिय- जन्यप्रत्यक्षाविषयत्वे सति चक्षुर्जन्यप्रत्यक्षविषयत्वे च सति गुणत्वात् इत्यर्थः । अतिव्याप्तिवारणोपायमाह—गुणपदस्येति । तथा चात्र गुणपदस्य ‘रूपं गन्धो रसः स्पर्शः’ इति श्लोके उक्ता ये विशेषगुणास्तत्परत्वात्, संयोगस्य च पठितविशेषगुणानन्तर्गतत्वात् नातिव्याप्तिरित्याशयः । ननु यदि गुणपदं विशेष- गुणपरं तदा संख्यादावतिव्याप्तिवारणाय दत्तं मात्रपदं व्यर्थमेव, संख्याया विशेषगुणत्वाभावादेव तत्रातिव्याप्तेरभावादिति शङ्कते—न चैवमिति । मात्र- पदस्य अन्यप्रयोजनप्रदर्शनेनोत्तरयति—जलमात्रेति । तथा च सांसिद्धिकद्रवत्वस्य चक्षुर्ग्राह्यविशेषगुणत्वात् तत्रैवातिव्याप्तिवारणाय मात्रपदसार्थक्यादिति भावः ।