तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 111, कुल 199 में से
संदर्भ में पढ़ें... यथा च गुणपदं विशेषगुणपरमिति मन्तव्यमपि न भवेत्, एवं प्रभाघट- संयोगेऽतिव्याप्तिरपि न स्यात्तथा लक्षणमाह—अथवेति । चक्षुर्मात्रग्राह्या या जातिः रूपत्वजातिस्तादृशजातिमत्त्वं रूपे वर्तत इति लक्षणसमन्वयः । एवं सति प्रभाघटसंयोगेऽपि नातिव्याप्तिः, संयोगत्वजातेश्चक्षुर्मात्रग्राह्यत्वाभावात् । यतो हि घटपटसंयोगो यथा चक्षुषा गृह्यते तथा त्वचाऽपि गृह्यते । अतस्तन्निष्ठा संयोगत्वजातिरपि चक्षुष्ट्वग्भ्यां द्वाभ्यामेव गृह्यते, यो गुणो यदिन्द्रियग्राह्य इति न्यायात् । प्रभाघटसंयोगे चैकैव संयोगत्वजातिरस्ति । तथा च संयोगत्व- जातेश्चक्षुर्मात्रग्राह्यत्वाभावात्, चक्षुर्मात्रग्राह्यजातिमद्गुणत्वस्य प्रभाघटसंयोगेऽ- भावान्नातिव्याप्तिरिति भावः । जातिघटितलक्षणे गुणत्वोपादानस्य फलमाह— अन्नेति । अयं भावः—सुवर्णमिदमिति ज्ञानं चक्षुषैव भवति, चक्षुर्निमीलने केवलस्पर्शेन सुवर्णस्यापरिचयात् । तथा सुवर्णगतसुवर्णत्वजातिरपि चक्षुर्मात्र- ग्राह्या इति तादृशजातिमत्त्वस्य सुवर्णे सत्त्वादतिव्याप्तिरतस्तद्वारणाय गुणत्वोपादानमिति भावः । अग्रे रसादिलक्षणेऽपि विशेष्यविशेषणयोः प्रयोजनं सूचयति—एवमिति । न्या.बो. मूलकृत्कृतं स्पर्शलक्षणं व्याख्यातुमाह—स्पर्शं लक्षयतीति । अत्रापि पृ.१५. त्वग्भिन्नेन्द्रियाग्राह्यत्वे सति त्वगिन्द्रियग्राह्यत्वमिति स्पर्शलक्षणनिष्कर्षः । अत्र लक्षणे त्वग्भिन्नेन्द्रियाग्राह्यत्वार्थकमात्रपदस्य प्रयोजनमाह—अत्रापीति । यथा रूपलक्षणे तथा स्पर्शलक्षणेऽपीति भावः । संख्यादिसामान्येति । अयं भावः—स्पर्शलक्षणे यदि मात्रपदं न स्यात् तदा त्वगिन्द्रियग्राह्यगुणत्वमेव लक्षणं स्यात् । तथा च संख्याया अपि त्वगिन्द्रियग्राह्यगुणत्वमस्ति, यतो हि चक्षुषी पिधायापि स्पृष्ट्वैव द्वौ त्रयो वा घटा इति ज्ञानं जायत एव । तस्मात् संख्यायामुक्तलक्षणातिव्याप्तिरतो मात्रपदं देयम् । तथा सति नातिव्याप्तिः, तस्याः चक्षुषापि ग्राह्यत्वेन त्वगिन्द्रियमात्रग्राह्यत्वाभावात् । अन्यविशेषण- कृत्यम्—त्वगिन्द्रियग्राह्यत्वपदस्य गुणत्वपदस्य च प्रयोजनमित्यर्थः । पूर्ववत् रूपलक्षणे इवेत्यर्थः । अर्थात् अतीन्द्रियगुरुत्वादौ स्पर्शत्वे चातिव्याप्तिवारणं क्रमेण प्रयोजनमिति भावः । ग्राह्यत्वपदार्थोऽपि स एवेत्याह—ग्राह्यत्व- पदार्थोऽपीति । रूपरसगन्धस्पर्शाः पृथिव्यां पाकजा अत एवानित्या इति मूलकारोक्तं व्याख्यातुमाह—रूपादिचतुष्टयमिति । एतत्तत्त्वनिर्णयः—रूपादीनां पृथिव्यां पाकजत्वनिर्णय इत्यर्थः । इत्थम्—अव्यवहितोत्तरवक्ष्यमाणप्रकारेणेत्यर्थः । पाक- शब्दस्यार्थमाह—पाको नामेति । विजातीयः—विलक्षणः । एवंविधः पाकः किं करोतीत्याह—स चेति । नानाजातीयरूपजनकः—नानाप्रकाररूपोत्पादक इत्यर्थः । रूपजनको यो विजातीयस्तेजःसंयोगः, तदपेक्षया रसजनकस्तेजःसंयोगो विलक्षण