तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 114, कुल 199 में से
संदर्भ में पढ़ेंभावं प्रति स्वमतेन यो हेतुस्तमाह बोधिनीकारः—वस्तुतस्त्विति । तत्र हेतु- माह--मानाभावादिति । अयं भावः—यदि स्नेहः पिण्डीभावहेतुः स्यात्, तदा अद्रुतं यत् करकादिरूपं जलं, तेनापि सक्तवादयः पिण्डीभावमापद्येरन्, न चैवं, तस्मात् द्रुतजलसंयोग एव पिण्डीभावे हेतुरिति । शेषं स्पष्टम् । न्या.बो. शब्दलक्षणं व्याख्यातुमाह—शब्दं लक्षयतीति । श्रोत्रग्राह्यत्वे सति पृ.१८. गुणत्वं शब्दस्य लक्षणम् । विशेष्यदलस्य फलमाह—शब्द इति । यः गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिरपि तदिन्द्रियग्राह्येति नियमात् शब्दत्वस्यापि श्रोत्रग्राह्यत्वादित्याशयः । श्रोत्रेति पदप्रयोजनमाह—रूपादाविति । रूपादेर्गुण- त्वेऽपि श्रोत्रग्राह्यत्वान्नातिव्याप्तिरिति भावः । शब्दानां त्रैविध्यमाह— स इति । न्या.बो. संयोगाज्जायते इति संयोगजः, विभागाज्जायते इति विभागजः, शब्दा- पृ.२०. ज्जायते इति शब्दजः । संयोगजमुदाहरति—यथेति । विभागजमुदाहरति— वंशे इति । शब्दजं शब्दमुदाहरति शब्दोत्पत्तिदेशमिति । यत्र काष्ठादौ टङ्कादिप्रतिघातेन शब्द उत्पद्यते स शब्दोत्पत्तिदेशः, तमारभ्य श्रोत्रदेशपर्यन्तम्— कर्णपर्यन्तमित्यर्थः । निमित्तपवनेन—वायुद्वारा शब्दधारा जायन्ते उत्पद्यन्त इत्यर्थः । कथङ्कारं शब्दधारा जायन्ते ? इति जिज्ञासायामाह—वीचीतरङ्ग- न्यायेन, कदम्बमुकुलन्यायेन वेति । यद्यपि वीचीतरङ्गशब्दौ पर्यायौ तथापि वीचीशब्दस्य लघुत्वद्योतकत्वात्, तरङ्गशब्दस्य च महत्त्वमाशयेन प्रयुक्तंतदान्न पुनरुक्तिदोषः । यथा हि सरसि प्रस्तरादौ प्रक्षिप्ते सति तत्रैकस्तरङ्गः पूर्वं जायते, तस्मात्तरङ्गान्तरं, ततोऽपि तरङ्गान्तरमिति रीत्या तटपर्यन्तं तरङ्गा जायन्ते; यथा वा कदम्बमुकुलं भवति, तथा शब्दानां धाराः श्रोत्रदेशपर्यन्तं जायन्ते शब्दाश्च कर्णाभ्यां श्रूयन्ते इत्याशयः । तत्रोत्तरशब्दे पूर्वपूर्वशब्दः कारणम् भवतीत्याह— तत्रेति । न्या.बो. बुद्धिलक्षणं व्याख्यातुमाह—बुद्धेरिति । सर्वव्यवहारहेतुत्वे सति गुणत्वं पृ.२१. बुद्धेर्लक्षणम् । व्यवहारपदेन घटमानय पटमानयेत्यादिशब्दप्रयोग एव ग्राह्यः । स च शब्दप्रयोगात्मको व्यवहारो ज्ञानं विना न सम्भवति । नहि घटज्ञानं विना 'घटमानय' इति कश्चिदपि व्यवहर्तुं शक्नोतीति बुद्धौ सर्वव्यवहारहेतुत्वं सिद्धम् । स्मृतिलक्षणं व्याख्यातुमाह—स्मृतिं लक्षयतीति । संस्कारमात्रेति । संस्कारमात्रजन्यत्वमित्यस्य बहिरिन्द्रियाद्यजन्यत्वे सति संस्कारजन्यत्वमर्थः । यज्ज्ञानं चक्षुरादिबहिरिन्द्रियादिभिः जन्यं न स्यादथ च संस्कारेण जन्यं स्यात्त- ज्ज्ञानं स्मृतिरिति भावः । यथा कश्चित् काश्यां कमपि पुरुषं पश्यति, तदानीं दर्शनानन्तरमेव तस्यात्मनि पुरुषविषयकः संस्कार उत्पद्यते । तत्संस्कारबलादेवा- ७