भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 114, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 114

भावं प्रति स्वमतेन यो हेतुस्तमाह बोधिनीकारः—वस्तुतस्त्विति । तत्र हेतु- माह--मानाभावादिति । अयं भावः—यदि स्नेहः पिण्डीभावहेतुः स्यात्, तदा अद्रुतं यत् करकादिरूपं जलं, तेनापि सक्तवादयः पिण्डीभावमापद्येरन्, न चैवं, तस्मात् द्रुतजलसंयोग एव पिण्डीभावे हेतुरिति । शेषं स्पष्टम् । न्या.बो. शब्दलक्षणं व्याख्यातुमाह—शब्दं लक्षयतीति । श्रोत्रग्राह्यत्वे सति पृ.१८. गुणत्वं शब्दस्य लक्षणम् । विशेष्यदलस्य फलमाह—शब्द इति । यः गुणो यदिन्द्रियग्राह्यस्तन्निष्ठा जातिरपि तदिन्द्रियग्राह्येति नियमात् शब्दत्वस्यापि श्रोत्रग्राह्यत्वादित्याशयः । श्रोत्रेति पदप्रयोजनमाह—रूपादाविति । रूपादेर्गुण- त्वेऽपि श्रोत्रग्राह्यत्वान्नातिव्याप्तिरिति भावः । शब्दानां त्रैविध्यमाह— स इति । न्या.बो. संयोगाज्जायते इति संयोगजः, विभागाज्जायते इति विभागजः, शब्दा- पृ.२०. ज्जायते इति शब्दजः । संयोगजमुदाहरति—यथेति । विभागजमुदाहरति— वंशे इति । शब्दजं शब्दमुदाहरति शब्दोत्पत्तिदेशमिति । यत्र काष्ठादौ टङ्कादिप्रतिघातेन शब्द उत्पद्यते स शब्दोत्पत्तिदेशः, तमारभ्य श्रोत्रदेशपर्यन्तम्— कर्णपर्यन्तमित्यर्थः । निमित्तपवनेन—वायुद्वारा शब्दधारा जायन्ते उत्पद्यन्त इत्यर्थः । कथङ्कारं शब्दधारा जायन्ते ? इति जिज्ञासायामाह—वीचीतरङ्ग- न्यायेन, कदम्बमुकुलन्यायेन वेति । यद्यपि वीचीतरङ्गशब्दौ पर्यायौ तथापि वीचीशब्दस्य लघुत्वद्योतकत्वात्, तरङ्गशब्दस्य च महत्त्वमाशयेन प्रयुक्तंतदान्न पुनरुक्तिदोषः । यथा हि सरसि प्रस्तरादौ प्रक्षिप्ते सति तत्रैकस्तरङ्गः पूर्वं जायते, तस्मात्तरङ्गान्तरं, ततोऽपि तरङ्गान्तरमिति रीत्या तटपर्यन्तं तरङ्गा जायन्ते; यथा वा कदम्बमुकुलं भवति, तथा शब्दानां धाराः श्रोत्रदेशपर्यन्तं जायन्ते शब्दाश्च कर्णाभ्यां श्रूयन्ते इत्याशयः । तत्रोत्तरशब्दे पूर्वपूर्वशब्दः कारणम् भवतीत्याह— तत्रेति । न्या.बो. बुद्धिलक्षणं व्याख्यातुमाह—बुद्धेरिति । सर्वव्यवहारहेतुत्वे सति गुणत्वं पृ.२१. बुद्धेर्लक्षणम् । व्यवहारपदेन घटमानय पटमानयेत्यादिशब्दप्रयोग एव ग्राह्यः । स च शब्दप्रयोगात्मको व्यवहारो ज्ञानं विना न सम्भवति । नहि घटज्ञानं विना 'घटमानय' इति कश्चिदपि व्यवहर्तुं शक्नोतीति बुद्धौ सर्वव्यवहारहेतुत्वं सिद्धम् । स्मृतिलक्षणं व्याख्यातुमाह—स्मृतिं लक्षयतीति । संस्कारमात्रेति । संस्कारमात्रजन्यत्वमित्यस्य बहिरिन्द्रियाद्यजन्यत्वे सति संस्कारजन्यत्वमर्थः । यज्ज्ञानं चक्षुरादिबहिरिन्द्रियादिभिः जन्यं न स्यादथ च संस्कारेण जन्यं स्यात्त- ज्ज्ञानं स्मृतिरिति भावः । यथा कश्चित् काश्यां कमपि पुरुषं पश्यति, तदानीं दर्शनानन्तरमेव तस्यात्मनि पुरुषविषयकः संस्कार उत्पद्यते । तत्संस्कारबलादेवा- ७