भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 115, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 115

९८ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः यस्मिन् स्थाने उद्बोधकसमवधाने सति तेन पुरुषेण साकमिन्द्रियसन्निकर्षाभावेऽपि तस्य ज्ञानं जायते, तदेव स्मृतिः । तत्र संस्कार एव कारणं भवतीति सुतरां लक्षणं समन्वेति । लक्षणे विशेषणकृत्यमाह — विशेषणानुपादाने इति । बहिरिन्द्रियाद्य- जन्यत्वविशिष्टसंस्कारजन्यत्वार्थकं 'संस्कारमात्रजन्येति' पदानुपादाने इत्यर्थः । प्रत्यक्षानुभवेऽतिव्याप्तिरिति । तस्यापि ज्ञानत्वादिति शेषः । तद्वारणाय विशेषणोपादानमिति । तथा च प्रत्यक्षानुभवस्य बहिरिन्द्रियजन्यत्वेन संस्कार- मात्रजन्यत्वाभावान्नातिव्याप्तिरिति भावः । विशेष्यस्य फलमाह — संस्कारेति । अयं भावः — संस्कारमात्र- जन्यत्वमात्रं लक्षणं स्यात् ज्ञानत्वञ्च नोपादीयेत तदा संस्कार- ध्वंसस्यापि संस्कारजन्यत्वेन तत्र स्मृतिलक्षणातिव्याप्तिः । ज्ञानत्वोपादाने तु ध्वंसस्याभावत्वान्नातिव्याप्तिः । ननु कथं संस्कारध्वंसः संस्कारजन्यस्तत्राह — ध्वंसं प्रतीति । अयमाशयः —यस्याभावः स प्रतियोगी । ध्वंसोऽपि अभाव एवेति संस्कारध्वंसस्य संस्कारः प्रतियोगी । एवं घटध्वंसं प्रति घटः प्रतियोगी भवतीत्यनयैव रीत्या अन्यत्रापि बोध्यम् । एवं यदि पूर्वं संस्कार एव न स्यात्तदा कस्य ध्वंसः स्यात् । यथा पूर्वं यदि घटो न स्यात्तदा दण्डेन कस्य ध्वंसो भवेत् । तस्मादेतन्मन्तव्यं यत् ध्वंसं प्रति प्रतियोगी कारणं भवतीति । तथा च संस्कार- ध्वंसेऽपि संस्कारजन्यत्वसिद्धौ तत्रातिव्याप्तिवारणाय ज्ञानत्वोपादानमावश्यक- मिति । यदा कश्चित् पुरुषः पूर्वमन्यत्र दृष्टः पुनरन्यत्र दृश्यते, तत्र 'सोऽयमिति' यज्ज्ञानं भवति, तदेव प्रत्यभिज्ञापदार्थः । तत्रातिव्याप्तिवारणाय मात्रपदम् । तथा सति नातिव्याप्तिः, तत्र प्रत्यभिज्ञायां तत्तांशे संस्कारजन्यत्वस्य सत्त्वेऽपि इदन्त्वांशे बहिरिन्द्रियजन्यत्वेन संस्कारमात्रजन्यत्वाभावात् । अनुभवलक्षणं व्याख्यातुमाह — अनुभवं लक्षयतीति । मूलस्थतद्द्भिन्नमित्य- स्यार्थमाह — तद्भिन्नत्वं नामेति । लक्षण य पर्यवसितं रूपमाह — तथा चेति । स्मृतिभिन्नत्वविशेषणस्य फलमाह तत्रेति । स्मृतावतिव्याप्तिरिति । तस्या अपि ज्ञानत्वादिति शेषः । विशेष्योपादानफलमाह — विशेष्यानुपादाने इति । घटादावतिव्याप्तिरिति । घटादेरपि स्मृतिभिन्नत्वादिति शेषः । घटस्य स्मृतिभिन्नत्वेऽपि ज्ञानत्वाभावान्नातिव्याप्तिरित्याशयः । न्या.बो. यथार्थानुभवलक्षणं व्याख्यातुमाह — यथार्थानुभवमिति । तद्वति तत्प्रकार- पृ.१२.कानुभवत्वं यथार्थानुभवस्य लक्षणम् । तद्वतीत्यत्र तच्छब्दार्थमाह तद्वती- त्यत्रेति । लक्षणस्य स्वयं स्वरूपमाह — तथाचेति ।