भारतकोश
संग्रह पर लौटें

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

९८ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः यस्मिन् स्थाने उद्बोधकसमवधाने सति तेन पुरुषेण साकमिन्द्रियसन्निकर्षाभावेऽपि तस्य ज्ञानं जायते, तदेव स्मृतिः । तत्र संस्कार एव कारणं भवतीति सुतरां लक्षणं समन्वेति । लक्षणे विशेषणकृत्यमाह — विशेषणानुपादाने इति । बहिरिन्द्रियाद्य- जन्यत्वविशिष्टसंस्कारजन्यत्वार्थकं 'संस्कारमात्रजन्येति' पदानुपादाने इत्यर्थः । प्रत्यक्षानुभवेऽतिव्याप्तिरिति । तस्यापि ज्ञानत्वादिति शेषः । तद्वारणाय विशेषणोपादानमिति । तथा च प्रत्यक्षानुभवस्य बहिरिन्द्रियजन्यत्वेन संस्कार- मात्रजन्यत्वाभावान्नातिव्याप्तिरिति भावः । विशेष्यस्य फलमाह — संस्कारेति । अयं भावः — संस्कारमात्र- जन्यत्वमात्रं लक्षणं स्यात् ज्ञानत्वञ्च नोपादीयेत तदा संस्कार- ध्वंसस्यापि संस्कारजन्यत्वेन तत्र स्मृतिलक्षणातिव्याप्तिः । ज्ञानत्वोपादाने तु ध्वंसस्याभावत्वान्नातिव्याप्तिः । ननु कथं संस्कारध्वंसः संस्कारजन्यस्तत्राह — ध्वंसं प्रतीति । अयमाशयः —यस्याभावः स प्रतियोगी । ध्वंसोऽपि अभाव एवेति संस्कारध्वंसस्य संस्कारः प्रतियोगी । एवं घटध्वंसं प्रति घटः प्रतियोगी भवतीत्यनयैव रीत्या अन्यत्रापि बोध्यम् । एवं यदि पूर्वं संस्कार एव न स्यात्तदा कस्य ध्वंसः स्यात् । यथा पूर्वं यदि घटो न स्यात्तदा दण्डेन कस्य ध्वंसो भवेत् । तस्मादेतन्मन्तव्यं यत् ध्वंसं प्रति प्रतियोगी कारणं भवतीति । तथा च संस्कार- ध्वंसेऽपि संस्कारजन्यत्वसिद्धौ तत्रातिव्याप्तिवारणाय ज्ञानत्वोपादानमावश्यक- मिति । यदा कश्चित् पुरुषः पूर्वमन्यत्र दृष्टः पुनरन्यत्र दृश्यते, तत्र 'सोऽयमिति' यज्ज्ञानं भवति, तदेव प्रत्यभिज्ञापदार्थः । तत्रातिव्याप्तिवारणाय मात्रपदम् । तथा सति नातिव्याप्तिः, तत्र प्रत्यभिज्ञायां तत्तांशे संस्कारजन्यत्वस्य सत्त्वेऽपि इदन्त्वांशे बहिरिन्द्रियजन्यत्वेन संस्कारमात्रजन्यत्वाभावात् । अनुभवलक्षणं व्याख्यातुमाह — अनुभवं लक्षयतीति । मूलस्थतद्द्भिन्नमित्य- स्यार्थमाह — तद्भिन्नत्वं नामेति । लक्षण य पर्यवसितं रूपमाह — तथा चेति । स्मृतिभिन्नत्वविशेषणस्य फलमाह तत्रेति । स्मृतावतिव्याप्तिरिति । तस्या अपि ज्ञानत्वादिति शेषः । विशेष्योपादानफलमाह — विशेष्यानुपादाने इति । घटादावतिव्याप्तिरिति । घटादेरपि स्मृतिभिन्नत्वादिति शेषः । घटस्य स्मृतिभिन्नत्वेऽपि ज्ञानत्वाभावान्नातिव्याप्तिरित्याशयः । न्या.बो. यथार्थानुभवलक्षणं व्याख्यातुमाह — यथार्थानुभवमिति । तद्वति तत्प्रकार- पृ.१२.कानुभवत्वं यथार्थानुभवस्य लक्षणम् । तद्वतीत्यत्र तच्छब्दार्थमाह तद्वती- त्यत्रेति । लक्षणस्य स्वयं स्वरूपमाह — तथाचेति ।

न्यायबोधिनी-संस्कृत-कला अयमाशयः- लक्ष्यताविवेचनावसरे विशेष्यता, प्रकारता, इत्युभे नाममात्रेण प्रदर्शिता । ते एवात्र विस्तरेणोच्येते । तथाहि-सर्वस्मिन्नपि सविकल्पके ज्ञाने एकं विशेष्यं भवति एकश्च प्रकारः । विशेषणमेव प्रकार इत्युच्यते । यथा 'अयं घट' इति ज्ञाने घटांशे घटत्वं प्रकारो घटश्च विशेष्योऽस्ति । घटत्वं प्रकारो यत्र तत् घटत्वप्रकारकम्, अत्र बहुव्रीहौ कप्रत्ययः । एवं घटो विशेष्यो यत्र तत् घटविशेष्यकं भवति । तथा चायं घट इति ज्ञानं घटत्वप्रकारकं घटविशेष्यकञ्चास्ति । एवं घटवद्भूतलमिति ज्ञाने घटस्य विशेषणत्वात् घट एव प्रकारः, भूतलञ्च विशेष्यमस्ति । तथाऽत्रापि घटः प्रकारो यत्रेति बहुव्रीहौ कप्रत्ययः । एवं भूतं विशेष्यं यत्रेत्यत्रापि बहुव्रीहौ कप्रत्ययः । तथा च घटवद्भूतलमिति ज्ञानं घटप्रकारकं भूतलविशेष्यकञ्चास्तीति नैयायिकानां पन्थाः । एतद्रीत्या प्रकृते तद्वतीति सप्तम्या विशेष्यत्वार्थकत्वेन तद्वद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणं भवति । यथा-यत्र भूतले घटो वर्तते तद् भूतं घटवद् भवति । तत्र यदि 'इदं भूतं घटवदिति, ज्ञानं क्रियते तदा इदं ज्ञानं यथार्थम् । यतो हि इदं ज्ञानं तद्वद्- विशेष्यकं तत्प्रकारकञ्चास्ति । तत्पदेन प्रकारीभूतो ( विशेषणीभूतः ) घटरूप- धर्मोऽत्र ग्रहीतव्यः । तथा च घटवद् ( भूतल ) विशेष्यकं घटप्रकारकम् ( घट- विशेषणकं ) चेदं ज्ञानमतो यथार्थम् । एवंविधमेव चान्यदपि ज्ञानं यथार्थं भवति । अत्रायं सारः- तत्प्रकारके ज्ञाने यद् विशेष्यमस्ति, तद् यदि तद्वत् स्यात् अर्थात् तस्य प्रकारस्याधिकरणं स्यात्, तदा तज्ज्ञानं यथार्थं भविष्यति, विशेष्यं यदि तद्वत् न स्यात्तदा तज्ज्ञानमयथार्थम् भविष्यति । एवमेव पटवद्गृहमिति ज्ञानं पटप्रकारकमस्ति, तस्य विशेष्यं गृहमपि पटवद् विद्यते । तस्मादिदं ज्ञानं यथार्थम्, तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वस्य यथार्थलक्षणस्य सत्त्वात् । बोधिनीकारः स्वममप्युदाहरति - रजते इदं रजतमिति ज्ञानमिति । अयमाशयः- अत्रेदंपदेन पुरोवर्ती पदार्थो ज्ञेयः । तथा च इदं पुरोवर्ती पदार्थो रजतमस्तीति ज्ञानाकारः । अत्र ज्ञाने पुरो विद्यमानं रजतमेव विशेष्यं रजतत्वञ्च प्रकारः । अर्थात् इदं ज्ञानं रजतत्वप्रकारकं रजतविशेष्यकं विद्यते । विशेष्यीभूतं रजतञ्च रजतत्वरूपप्रकारवदस्ति । अतः तद्वद् ( रजतत्ववदरजत ) विशेष्यकत्वे सति तत् ( रजतत्व ) प्रकारकत्वस्य सत्त्वाद् रजते 'इदं रजत'मिति ज्ञानं यथार्थम् ! तदेवाह- अत्रेति प्रमायथार्थशब्दयोः पर्यायत्वात् मूले उक्तम्- सैवेति । अतिप्रसङ्गवारणाय लक्षणस्य निष्कर्षमाह- तद्वदिति । तद्वन्निष्ठा या विशेष्यता, तादृशविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता, तादृशप्रकारताशालित्वं

यथार्थत्वमित्यर्थः । प्रकारता हि विशेष्यतानिरूपिता भवति । अर्थात् विशेष्यता प्रकारताया निरूपिका भवति । यतो हि, यदि विशेष्यं रजतं न स्यात् तर्हि किम- पेक्ष्य रजतत्वं प्रकारः स्यात् ! एवं, यदि रजतत्वं प्रकार एव न स्यात् तदा रजतं कस्य विशेष्यं कथ्येत । तस्माद् विज्ञायते यत् प्रकारता विशेष्यनिष्ठविशेष्यतारूप- धर्मनिरूपिता भवति, एवं विशेष्यताऽपि प्रकारनिष्ठप्रकारतारूपधर्मनिरूपिता भवति । प्रकारताविशेष्यतयोः परस्परं निरूप्यनिरूपकभावो भवतीत्याशयः । एतदाशयेनैव चोक्तनिष्कर्षे तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतेत्युक्तम् । तत्पदेन प्रकारीभूतं रजतत्वं धर्तव्यम् । तथा च, रजतत्ववद्रजतनिष्ठा या विशेष्यता, तन्निरूपिता या रजतत्वनिष्ठा प्रकारता, तादृशप्रकारताशालित्वम् 'इदं रजतम'ति ज्ञाने वर्तत इति लक्षणसमन्वयः । एवंविधनिष्कृष्टलक्षणस्य फलमाह- अन्यथेति । यत्र क्रमेण रङ्गरजते स्थापिते विद्येते, किन्तु भ्रमात् रङ्गस्थाने रजतं रजतस्थाने च रङ्गञ्जानाति 'इमे रजतरङ्गे' इति तत्रोक्तयथाश्रुतलक्षणस्याति- व्याप्तिरतस्तद्वारणमेव निष्कर्षस्य फलमित्याशयः । अतिव्याप्तिप्रकारं पूर्वं दर्शयति - तत्रापीति । अयं भावः- रङ्गरजतस्थाने रजतरङ्गे इति समूहालम्बनं यत् ज्ञानमस्ति, तत्र रजतत्वं रङ्गत्वञ्च प्रकारौ स्तः । अर्थात् इदं ज्ञानं रजतत्वप्रकारकं रङ्गत्वप्रकार- कञ्चास्ते । ज्ञानमिदं तदा यथार्थमेव भविष्यति यदा पूर्वोक्तप्रकारकं सत् रजतत्व- वद्विशेष्यकं रङ्गत्ववद्विशेष्यकञ्च स्यात् । इदं ज्ञानं तथा वर्ततेऽपि । यतोहि एतस्य रजतत्वरङ्गत्वप्रकारकसमूहालम्बनज्ञानस्य विशेष्यीभूते पुरोविद्यमाने रङ्ग- रजते एव विद्येते, ते च रजतत्वद् रङ्गत्ववच्चापि स्तः । तस्माद् रजतत्ववद्- विशेष्यकत्वरजतत्वप्रकारकत्वयोः, रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयो- श्चोक्तसमूहालम्बने ज्ञाने सत्त्वात् यथार्थानुभवलक्षणस्य तत्रातिव्याप्तिः । उक्त- निष्कर्षे तु नातिव्याप्तिरिति समाधत्ते - उक्तेति । अयमाशयः- पुरः क्रमेण रङ्गरजते स्तः, किन्तु वैपरीत्येन रजनरङ्गे इति जानाति । अर्थात् रङ्गं रजतं जानाति, रजतञ्च रङ्गं जानाति । रङ्गांशे रजतत्व- मवगाहते, रजतांशे च रङ्गत्वमवगाहते इति तु रहस्यम् । तथा च तदा रङ्गांशे रजतत्वमवगाहते तदा रजतत्वं प्रकारः रङ्गञ्च विशेष्यम् । प्रकारता रजतत्व- निष्ठा, विशेष्यता तु रङ्गनिष्ठा । रङ्गञ्च वस्तुतो रङ्गत्वधर्मवदस्ति न तु रजत- त्वधर्मवदिति । एवञ्च रजतत्वनिष्ठा प्रकारता यदा रजतत्ववन्निष्ठविशेष्यतानिरू- पिता स्यात् तदा तज्ज्ञानं यथार्थं भविष्यति । अत्र तु रजतत्वनिष्ठप्रकारता रङ्गत्ववन्निष्ठविशेष्यतानिरूपिता विद्यते । एवं यदा रजतांशे रङ्गत्वमवगाहते तदा रङ्गत्व प्रकारः रजतञ्च विशेष्यम् । प्रकारता रङ्गत्वनिष्ठा विशेष्यता च रजतनिष्ठा । रजतञ्च वस्तुतो रजतत्वधर्मवदस्ति न तु रङ्गत्वधर्मवदिति ।

एवंचात्रापि रङ्गत्वनिष्ठा प्रकारता यदा रङ्गत्ववन्निष्ठविशेष्यतानिरूपिता स्यात् तदैवैतज्ज्ञानं यथार्थं स्यात् । अत्र तु रङ्गत्वनिष्ठा प्रकारता रजतत्ववन्निष्ठविशेषे- ष्यातानिरूपिता विद्यते । तस्मात् रङ्गरजतयोः स्थाने इमे रजतरङ्गे इति समूहा- लम्बनज्ञानस्य न याथार्थ्यापत्तिः, रजतत्ववन्निष्ठविशेष्यतानिरूपितरजतत्वनिष्ठ- प्रकारताशालित्वस्य, रङ्गत्ववन्निष्ठविशेष्यतानिरूपितरङ्गत्वनिष्ठप्रकारताशालि- त्वस्य च निष्कृष्टलक्षणलब्धस्य प्रकृतसमूहालम्बनभ्रमेऽभावादिति । न्या.बो. एतदेव सर्वमाह बोधिनीकारः - तज्ज्ञानस्येति । उक्तसमूहालम्बनभ्रमस्ये- पृ.२३.त्यर्थः । रङ्गांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रङ्गत्ववन्निष्ठविशेष्यता- निरूपितत्वेऽपि रजतत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावात् इति, रजतांशे रङ्गत्ववावगाहित्वेन रङ्गत्वप्रकारताया रजतत्ववन्निष्ठविशेष्यतानिरूतितत्वेऽपि रङ्गत्ववन्निष्ठविशेष्यतानिरूपितत्वाभावादिति च रीत्यान्वयः । अत्रत्या सर्वापि रीतिः पूर्ण स्मरणीया यथाऽग्रे अयथार्थानुभवलक्षणव्याख्या न कठिना प्रतीयेत, परं सरला सती मनोमोदमुत्पादयेदिति । समूहालम्बनज्ञानस्य स्वरूपमाह— नानेति । उदाहरणन्तूक्तमेवेति । अयथार्थानुभवलक्षणं व्याख्यातुमारभते-अयथार्थानुभवं लक्षयतीति । मूले तदभाववतीति । अत्रापि लक्षणे तत्पदेन प्रकारीभूतो ( विशेषणीभूतः ) धर्मो धर्त्तव्यः । सप्तम्याश्च विशेष्यत्वमर्थो ज्ञेयः । तथा च पूर्वररीत्या तदभाववान् विशेष्यो यत्र ज्ञाने तत् तदभाववद्विशेष्यकं ज्ञानम्, एवं तत् प्रकारो यत्र ज्ञाने तत् तत्प्रकारकमित्युच्यते । तथा च तदभाववद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वम् अयथार्थानुभवस्य लक्षणम् । यथा पुरोविद्यमानायां स्वच्छतरायां शुक्तौ 'इदं रजत'मिति ज्ञानमयथार्थम् । यतो रजतं नास्ति किन्तु शुक्तिमेव रजतं जानाति । शुक्तौ शुक्तित्वमनवगाह्य रजतत्वमेवावगाहते इति तात्पर्यम् । अत्र ज्ञाने रजतत्वं प्रकारो विद्यते, शुक्तिश्च विशेष्यभूताऽस्ति । सा प्रकारीभूतरजतत्वधर्मवती नास्ति किन्तु रजतत्वाभाववती विद्यते । तथा च रजतत्वाभाववद्विशेष्यकत्वे सति रजतत्वप्रकारकत्वस्योक्तज्ञाने सत्त्वात् तज्ज्ञानमयथार्थम् । अतिप्रसङ्गवारणाय पूर्वरीत्याऽत्रापि तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताशालित्व ( शालि- ज्ञानत्वं ) निष्कृष्टलक्षणं करणीयम् इत्याह-अत्रापीति । निष्कर्षाभावे योऽति- प्रसङ्गस्तमाह - अन्यथेति । अयं भावः यत्र क्रमेण रङ्गरजते स्थापिते स्तः, तत्र च तेनैव क्रमेण "इमे रङ्गरजते, इति समूहालम्बनं ज्ञानं जायते, तज्ज्ञानं यथार्थमस्ति किन्तु निष्कृष्ट- लक्षणाभावे यथाश्रुतस्य मूलोक्तस्यायथार्थानुभवलक्षणस्य तत्रातिव्याप्तिः । यतो हि अत्र रङ्गत्वरजतत्वे प्रकारौ स्तः, रङ्गरजते च द्वे विशेष्ये स्तः । रङ्गरूपं

१०२ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः विशेष्यं रजतत्वाभाववदस्ति, रजतरूपं विशेष्यञ्च रङ्गत्वभाववदस्तीत्यपि निर्वि- वादम् । यथा चात्र रङ्गरजतयोर्द्वयोरपि विशेष्यतया, तयोविशेष्ययोः रङ्गत्व- रजतरूपप्रकारौ प्रति वैपरीत्येन सम्बन्धमभिप्रेत्य इदं समूहालम्बनं ज्ञानं रजतत्वाभाववद्रङ्गविशेष्यकत्वे सति रजतत्वप्रकारकमस्ति, एवं रङ्गत्वभाववद्- रजतविशेष्यकत्वे सति रङ्गत्वप्रकारकमस्ति, अतोऽतिव्याप्तिरिति । तदेवाह— एतत्समूहालम्बनस्येत्यादिना सत्त्वादित्यन्तेन । न्या.बो. निष्कृष्टलक्षणस्य तु नातिव्याप्तिरित्याह—उक्तनिष्कर्ष इति । उक्त- पृ.२४.प्रमात्मकसमूहालम्बनं ज्ञानं रङ्गे रङ्गत्वमवगाहते, एवं रजते रजतत्वमवगाहते । अतोऽत्र विशेष्यवैपरीत्याभिप्रायोऽशक्यः । अर्थात् रङ्गत्वप्रकारस्य रङ्गमेवात्र विशेष्यम् एवं रजतत्वप्रकारस्य रजतमेव विशेष्यम् । तथा च रङ्गत्वनिष्ठा प्रकारता रङ्गनिष्ठविशेष्यता निरूपिताऽस्ति, रङ्गश्च रङ्गत्वभाववान्नास्ति । एवञ्च रङ्गत्वाभाववन्निष्ठविशेष्यता निरूपिता रङ्गत्वनिष्ठा प्रकारता नास्ति । तथा रजतत्वनिष्ठा प्रकारता रजतनिष्ठविशेष्यता निरूपिता अस्ति । रजतञ्च रजतत्वा- भाववन्नास्ति । एवञ्च रजतत्वनिष्ठा प्रकारताऽपि रजतत्वाभाववन्निष्ठविशेष्यता- निरूपिता नास्ति । तस्मात् तदभाववन्निष्ठविशेष्यता निरूपिततन्निष्ठप्रकारता- कत्वस्य अयथार्थानुभव लक्षणस्य रङ्गरजतयोः स्थले जायमाने 'इमे रङ्गरजते' इति समूहालम्बने प्रमात्मकज्ञानेऽसत्त्वात् नातिव्याप्तिरिति भावः । तदेतत् सर्वमाह—तादृशप्रमाया इति । उदाहृतयथार्थज्ञानस्येत्यर्थः । रजतांशे रजतत्वावगाहित्वेन रजतत्वप्रकारताया रजतत्वाभाववद्रङ्गविशेष्यता- निरूपितत्वाभावात्, एवं रङ्गांशे रङ्गत्वत्वावगाहित्वेन च रङ्गत्वप्रकारताया रङ्गत्व- भाववद्रजतनिष्ठविशेष्यतानिरूपितत्वाभावान्नातिव्याप्तिरित्यन्वयः । अयथार्थानुभवस्य स्वयमप्युदाहरणमाह—यथेति । सुव्याख्यातमेतत् । सर्वत्र द्वैविध्यत्रैविध्याद्युक्तेः विभागपरतया मूलेऽपि चतुर्विधत्वोक्तिः यथार्थानुभवविभागपरैवेत्याह—यथार्थानुभवं विभजते इति । विपूर्वकभज्- धातोर्थः —स्वसमभिव्याहृतपदार्थतावच्छेदकव्याप्यमिथोविरुद्धयावद्धर्मप्रकारक- बोधानुकूलव्यापाररूपः पूर्वमेव प्रतिपादितः । अत्रापि तत्समन्वयो यथा—स्वं विपूर्वकभज्धातुः, तत्समभिव्याहृतं पदं—यथार्थानुभवपदं, तदर्थतावच्छेदकं— यथार्थानुभवत्वम्, तद्व्याप्या मिथो विरुद्धाश्च यावन्तो धर्माः—प्रत्यक्षत्वानुमितित्वो- पमितित्वशाब्दत्वधर्माः, तावद्धर्मप्रकारकोबोधाः—इदं प्रत्यक्षम्, इयमनुमितिः, इयमु- पमितिरियं शाब्दबोध इति बोधाः, तादृशबोधानुकूलो व्यापारः—प्रत्यक्षानुमित्यु- पमितिशाब्दभेदादिति वाक्यप्रयोगरूपः । स एवात्र विभागपदार्थ इत्यर्थः ।

न्यायबोधिनी-संस्कृत-कला १०३ न्या.बो. 'तत्करणम्'ति मूलस्थं पदं व्याख्यातुमाह—तत्करणमितीति । फलीभूता पृ.२५. ये प्रत्यक्षानुमित्युपमितिशाब्दास्तेषां करणमित्यर्थः । प्रत्यक्षादीनां चतुर्णां फलत्वोक्तिश्च इन्द्रिय, व्याप्तिज्ञान, सादृश्यज्ञान, पदज्ञानरूपसाधनजन्यत्वात् सङ्गच्छते । यथार्थानुभवकरणानि प्रत्यक्षानुमानोपमानशब्दाः । तान्येव न्याये चत्वारि प्रमाणान्युच्यन्ते । तेषां सामान्यलक्षणमाह—प्रत्यक्षादीति । विशेष- लक्षणमत्र कथं नोक्तमत आह—एकैकेति । मूलोक्तकरणलक्षणं व्याख्यातुमाह—करणलक्षणमाहेति । मूललक्षणे न्यूनतां परिजिहीर्षुः व्यापारवदिति निवेश्य व्याचष्टे—व्यापारवदिति । व्यापारवत्त्वे सति असाधारणत्वे च सति कारणत्वं करणलक्षणमित्यर्थः । यथा- दण्डो घटं प्रति असाधारणकारणत्वात् भ्रमणरूपव्यापारवत्त्वाच्च करणं भवति । असाधारणत्वं किमित्याह—असाधारणत्वञ्चेति । कार्यताकारणे अपि लक्ष्यता- विवेचनावसरे नाममात्रेण सङ्केतिते । कार्यं घटादिकं, कारणं दण्डादिकम्, कार्यता घटनिष्ठा कारणता दण्डनिष्ठा । यथा पृथिवीनिष्ठाया लक्ष्यताया अवच्छेदकं पृथिवीत्वं भवति तथा घटनिष्ठायाः कार्यताया अवच्छेदकं घटत्वं, दण्डनिष्ठायाः कारणतायाश्चावच्छेदकं दण्डत्वं भवति । पूर्वोक्तप्रकारताविशेष्यतावत् कार्यता- कारणतयोरपि निरूप्यनिरूपकभावो भवति । अर्थात् कार्यतानिरूपिता कारणता भवति, कारणतानिरूपिता च कार्यता भवति । यदि कारणं न स्यात् तर्हि कस्य कार्यं कथ्यते ? एवं यदि कार्यं न स्यात् तदा किं प्रति कारणं भवेत् ! तस्मात् तयोरेकतरान्यतरनिरूपिता भवतीति युक्तम् । एवं यो धर्मो यस्या अवच्छेदकः सा तद्धर्मावच्छिन्नेति पूर्वन्यायात् घटत्वं कार्यतायाः अवच्छेदकमतो घटनिष्ठा कार्यता घटत्वावच्छिन्ना । तथा कार्यत्वातिरिक्तः—कार्यत्वभिन्नो यो घटत्वादि- धर्मस्तदवच्छिन्ना या घटादिनिष्ठा कार्यता, तन्निरूपिता या कारणता, तच्छा- लित्वस्य दण्डे सत्त्वात् घटं प्रति दण्डोऽसाधारणं कारणम् । तदेवोदाहरति— यथेति । लक्षणं सङ्गमयति—कार्यत्वेति । दण्डेऽसाधारणं कारणत्वं वर्तत एव, भ्रमणादिरूपव्यापारवत्त्वमपि वर्तते, तस्माद् दण्डः करणमित्याह—भ्रम्येति । असाधारणकारणलक्षणे कार्यत्वातिरिक्तेति विशेषणं दत्तम्, तत्रातिरिक्तपदा- दानेन घटत्वादिपदादानेन च तदेव साधारणकारणस्य लक्षणं भवतीत्याह— साधारणत्वमिति । कार्यत्वावच्छिन्नकार्यतानिरूपितकारणताशालित्वमिति तल्लक्षणम् । अस्यायमाशयः—कार्यता विशेषरूपेण यथा घटे वर्तते तथा सामान्यरूपेण कार्यमात्रे विद्यते । घटमात्रनिष्ठायाः कार्यताया अवच्छेदकं यथा घटत्वं तथा कार्यमात्रनिष्ठायाः कार्यताया अवच्छेदकं कार्यत्वं वर्तते । तथा च कार्यत्वाव- च्छिन्नकार्यतानिरूपितकारणताशालित्वं साधारणकारणत्वम् । ईश्वरोऽदृष्टम्

कालादिकं च कार्यमात्रं प्रति कारणं भवति न तु घटमेव पटमेव वा प्रति । तथा च कार्यत्वावच्छिन्नकार्यता निरूपितकारणताशालित्वस्येश्वरादौ सत्त्वात् ईश्वरादिकं सर्वं जन्यपदार्थं प्रति साधारणकारणं भवतीत्याशयः । तदेवाह - ईश्वरेति । अदृष्टं-धर्माधर्मौ । कार्यमात्रं प्रति अदृष्टमपि कारणं भवति । स्वस्वाद्दृष्टवशादेव कश्चिद्धनी, कश्चिद्रङ्को, बधिरो, मूकः, काणो वा भवतीति भावः ।

न्या.बो. कारणलक्षणव्याख्यानायाह-कारणं लक्षयतीति । कार्यं प्रति नियतत्वे पृ.२६.सति पूर्ववृत्तित्वमिति लक्षणम् । कार्यं प्रति नियतत्वञ्च कार्यसत्त्वे निश्चितसत्ता- कत्वम् । अर्थात् यत्र कार्यं भवेत् तत्र पूर्वमवश्यं विद्यमानतयाऽपेक्षितं स्यादिति यावत् । अयमाशयः - कस्यचिद्रासभस्योपरि मृत्तिकामानीय कुम्भकारो घटं रचितवान् तर्हि रासभः पूर्वं विद्यमानोऽपि घटं प्रति कारणं न भवति । यतो हि नहि घटोत्पत्तिपूर्व सर्वत्र रासभस्तिष्ठत्येव, अन्यथापि मृत्तिकानयनस्य संभवात् । तस्माद् घटं प्रति नियतत्वाभावाद् रासभः तं प्रति कारणं न भवतीति ।

ननु घटं प्रति नियतत्वे सति पूर्ववृत्तित्वं दण्डरूपेऽपि वर्तते ऽ तो दण्डवद् दण्डरूपमपि घटं प्रति कारणं स्यादत आह नियतपूर्ववर्तिन इति । अनन्यथा- सिद्धपदमपि - अन्यथासिद्धा ये सन्ति, तद्भिन्नत्वं लक्षणे विशेषणीयमित्यर्थः । तथा च अन्यथासिद्धिभिन्नत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वमिति निष्कर्षः । दण्डरूपादीनामन्यथासिद्धत्वान्न तत्र कारणलक्षणातिव्याप्तिरित्याह - दण्ड- रूपादीनामिति । अन्यथासिद्धभेदा ग्रन्थान्तरतोऽनुसन्धेयाः ।

कार्यलक्षणं व्याख्यातुमाह - कार्यं लक्षयतीति । लक्षणस्वरूपमाह - प्राग्भावेति । उपपादयति - कार्योत्पत्तेरिति । घटादिकार्योत्पत्तेः पूर्वमित्यर्थः । इह घटो भविष्यतीति प्रतीतिर्या जायते, तस्यां प्रतीतौ घटोत्पत्तिप्राक्कालिको घटाभावो विषयीभूतो विद्यते स एव प्रागभावनाम्ना व्यवह्रियते । यस्याभावः स प्रतियोगीति नियमात् उक्तघटप्रागभावप्रतियोगित्वस्य घटे सत्त्वाद् घटः कार्य- मुच्यते इति भावः ।

न्या.बो. मूलकारकृतं कारणलक्षणविभागं किञ्चिद्विशिष्यानुवदति - समवायी- पृ.२७.त्यादि । समवायिकारणलक्षणं व्याख्यातुमाह - समवायिकारणं लक्षयतीति । मूलोक्तलक्षणस्यार्थमाह - यस्मिन्निति । यस्मिन् समवेतं सदित्यस्यार्थः समवायेन सम्बद्धं सदिति । अयं भावः - अवयवावयविनोः परस्परं समवायः सम्बन्ध इति पूर्वमस्माभिरुक्तम् । कपालद्वयमवयवभूतं घटश्चावयवी । तथा चावयवीभूतो घटः अवयवभूतयोः कपालयोः समवायसम्बन्धेन सम्बद्धः सन् उत्पद्यतेऽतो घटं प्रति

कपालद्वयं समवायिकारणम् । एवं गुणगुणिनोरपि समवाय एव सम्बन्ध इत्यप्युक्तम् । तथा च पटरूपात्मको गुणः समवायेन गुणिनि पटे सम्बद्धः सन् उत्पद्यतेऽतः पटरूपस्य समवायिकारणं पटः । तन्तुषु लक्षणं सङ्गमयति— तन्तुष्विति । सामान्यलक्षणमाह—सामान्यलक्षणन्विति । समवायसम्बन्धावच्छिन्ना या कार्यता, तन्निरूपितं यत् तादात्म्यसम्बन्धावच्छिन्नं कारणत्वं, तदेव समवायि- कारणत्वमित्यर्थः । अस्यायामाशयः—यथा लक्ष्यताया अवच्छेदकं पृथिवीत्वादिकमुक्तम्, तथा कार्यताया अपि घटत्वादिकमवच्छेदकं भवतीत्यप्यसाधारणकारणत्वव्याख्यायां प्रत्यपादि । तत्रेदपि बोध्यं यत् अवच्छेदकं धर्मसम्बन्धभेदेन द्विविधं भवति । येन सम्बन्धेन कार्यं कारणे तिष्ठेत् स एव कार्यतावच्छेदकः सम्बन्धः । येन सम्बन्धेन कारणं तिष्ठेत् स एव सम्बन्धः कारणतावच्छेदकः सम्बन्धो भवति । एवं यत्र कार्यमुत्पादनीयं तत्रैव कारणस्यापि सत्ताऽऽवश्यकी, अन्यथा प्रयागस्थ- मृत्तिकातः काश्यां घट उत्पद्येत । तथा च समवायेन सम्बन्धेन घटः कपालयो- रुत्पद्यतेऽतो घटनिष्ठायाः कार्यताया अवच्छेदकः सम्बन्धः समवायः । यो धर्मो यस्या अवच्छेदक इति पूर्वनियमवत् यः सम्बन्धो यस्या अवच्छेदको भवति सा तत्सम्बन्धावच्छिन्ना भवति । तथा च घटनिष्ठा कार्यता समवायसम्बन्धावच्छिन्ना, घटत्वधर्मावच्छिन्ना चास्तीति सिद्धम् । तथा कार्यकारणयोः सामानाधिकरण्या- पेक्षणात् घटो यदि समवायेन कपाले उत्पद्यते तदा तत्रैव ( कपाले ) कारणीभूतं कपालमप्यपेक्ष्यते, कपाले च कपालं तादात्म्यसम्बन्धेन तिष्ठति, स्वस्मिन् स्वस्य तादात्म्यसम्बन्धाभ्युपगमात् । तथा च कपालनिष्ठकारणताया अवच्छेदकः सम्बन्ध- स्तादात्म्यम्, एवं तन्निष्ठकारणताया अवच्छेदको धर्मः कपालत्वम् । पूर्वरीत्या च कारणता तादात्म्यसम्बन्धावच्छिन्ना कपालत्वधर्मावच्छिन्ना च सिद्धा । एवं सर्वापि कार्यता सम्बन्धस्थाने समवायसम्बन्धावच्छिन्नाऽत्र ज्ञेया, धर्मस्थाने तु घटत्वपटत्वादिस्रस्वधर्मावच्छिन्ना । एवं कारणतापि सर्वा सम्बन्धस्थाने तादा- त्म्यसम्बन्धावच्छिन्नाऽत्र ज्ञेया; धर्मस्थाने तु कपालत्वतन्तुत्वादिस्रस्वधर्मावच्छिन्ना भवतीति । तथा चेदं लक्षणं घटं प्रति समवायिकारणे कपालयांः, पटं प्रति च समवायिकारणे तन्तुष्वेव घटतेऽतो घटादिकं प्रति कपालादिकमेव समवायिकारण- मिति । लक्षणं कपालरूपे लक्ष्ये संगमयति—समवायसम्बन्धेनेत्यादि । व्याख्यातप्रायमेतत् । न्या.बो. सप्तसु पदार्थेषु मध्ये द्रव्यमेव कस्यापि समवायिकारणं भवतीति रहस्यम् पृ.२८.उक्तलक्षणरूपया युक्त्या प्रकटयति—समवायेनेति । समवायसम्बन्धावच्छिन्न-

[१०६] तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः

जन्यभावत्वावच्छिन्नजन्यभावनिष्ठकार्यतानिरूपिततादात्म्यसम्बन्धावच्छिन्नकारण- ताया द्रव्ये एव सत्त्वादित्यर्थः । सामान्यादीनां नित्यतया तेषु कारणापेक्षैव नास्तीत्यत आह—द्रव्यगुणकर्मसु त्रिष्विति । गुणकर्माणि प्रति द्रव्यमेव समवायिकारणं द्रव्यं प्रति तु कपालादिरूपा द्रव्यावयवा एव समवायिकारण- म इत्याह—द्रव्येत्विति । पटरूपात्मकगुणं प्रति पटात्मकं द्रव्यं समवायिकारण- मित्यदाहृतं, तदेव प्रकटयति—गुणादावपीति । असमवायिकारणलक्षणं व्याख्यातुमाह—असमवायिकारणं लक्षयतीति । स्वरूपप्रदर्शनपुरःसरं तस्य द्वैविध्यमाह—कार्येणेत्यादिना । कार्येण पटादिना सहैकस्मिन्नर्थे तन्त्वादौ समवेतं सत्—समवायसम्बन्धेन सम्बद्धं सत् यत् कारणं तदेकमसमवायिकारणं भवति । यत्र कार्यं समवायसम्बन्धेन भवेत् तत्रैव समवाय- सम्बन्धेन यत् कारणं तिष्ठेत् तत्त प्रथममित्यर्थः । एवं यत् कारणेन—स्वकार्य- समवायिकारणेनेत्यर्थः, सह एकस्मिन्नर्थे तन्त्वादौ समवेतं सत्—समवायसम्बन्धेन सम्बद्धं सत् कारणं भवति तद्द्वितीयमसमवायिकारणमित्यर्थः । न्या.बो. प्रथमलक्षणानुसारेण प्रथमसमवायिकारणं सामान्यतः प्रदर्शयति–जन्यति । पृ.२६. यावन्ति जन्यद्रव्याणि, तेषु अवयवसंयोग एवासमवायिकारणम् । यतो हि जन्यद्रव्यं घटादिरूपकार्यं समवायसम्बन्धेन कपालादौ तिष्ठति तत्रैव च कपाल- द्वयसंयोगः समवायेन तिष्ठति, गुणगुणिनोः समवायात् । तस्मात् सर्वत्र जन्यद्रव्यं प्रत्यवयवसंयोगः असमवायिकारणं भवतीति सिद्धम् । यत्र सामान्ययोः कार्यकारण- भावस्तत्र विशेषयोरपि भवतीति सिद्धान्तात् मूलकृता प्रदर्शितं विशेषोदाहरणं स्पष्टयितुमाह–पटात्मकार्ये इति । स्पष्टार्थः । मूलकृता लक्षितस्य स्वयं व्याख्यातस्य च द्वितीयासमवायिकारणस्य मूलकृतप्रदर्शितमुदाहरणं स्पष्टयितुमाह– द्वितीयमिति । अयमाशयः — यत् कारणं स्वकार्यसमवायिकारणेन सह एकस्मिन्नर्थे समवायेन सम्बद्धं सत् कारणं भवति, तदसमवायिकारणं भवति । यथा पटरूपं प्रति तन्तुरूपमसमवायिकारणम् । यादृशं हि तन्तूनां रूपं भवति, तादृशमेव पटस्यापि रूपं भवतीति सर्वविदितम् । तत्र स्वं — तन्तुरूपं, तस्य कार्यं पटरूपम्, तस्य समवायिकारणं पट इति समवायिकारणव्याख्याने प्रतिपादितम् । तथा च तन्तुरूपकार्यपटरूपसमवायिकारणीभूतः पटः समवायसम्बन्धेन तन्तुषु तिष्ठति, अत्रैव च तन्तुरूपमपि समवायसम्बन्धेन तिष्ठतीति पटरूपं प्रति तन्तुरूप- मसमवायिकारणम् । एवमेव घटरूपं प्रति कपालरूपमसमवायिकारणम् । यतो हि कपालरूपस्य यत्कार्यं घटरूपं, तस्य यत् समवायिकारणं घटः, स समवायेन कपालयोस्तिष्ठति तत्रैव समवायेन कपालरूपस्यापि सत्त्वादिति भावः । समन्वय- प्रकारमेवाह--कारणेन सहेति । स्पष्टोऽर्थः ।

द्विविधासमवायिकारणसाधारणं लक्षणमाह — सामान्यलक्षणन्त्विति । समवायसम्बन्धावच्छिन्नकार्यता निरूपिता या समवायस्वसमवायिसमवेतत्वान्यतर- सम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति । अयं भावः — येन सम्बन्धेन कार्यं भवेत् स कार्यतावच्छेदकसम्बन्धः । एवं येन सम्बन्धेन कारणं तिष्ठेत् स कारणतावच्छेदकसम्बन्धः । कार्यं यत्रोत्पादनीयं तत्रैव कारणेनापि भवितव्यमिति सर्वं पूर्वमुक्तम् । तथा चासमवायिकारणस्य द्विविधे उदाहरणे कार्यतावच्छेदकः समवाय एव सम्बन्धः, कारणतावच्छेदकस्तु प्रथमे समवायसम्बन्धः द्वितीये च स्वसमवायिसमवेतत्वसम्बन्धो भवति । कथमिति चेत् श्रूयताम् — प्रथमे पटं प्रति तन्तुसंयोगोऽसमवायिकारणम् । तत्र पटः समवायसम्बन्धेन तन्तुषूत्पद्यते, तत्रैव तन्तुसंयोगोऽपि विद्यमानः सन् कारणं भवत्यतोऽत्र कार्यताकारणे उभे अपि समवायसम्बन्धावच्छिन्ने भवतः । द्वितीये च पटरूपं प्रति तन्तरूपमसमवायिकारणं भवति । तत्र कार्यं पटरूपं समवायेन पटे भवति, तत्रैव पटे कारणीभूतं तन्तरूपं स्वसमवायिसमवेतत्वसम्बन्धेन वर्तते । यतोऽत्र स्वपदेन तन्तुरूपं गृह्यते, तत्समवायिकारणं तन्तवः, तत्र समवेतत्वं—समवाय- सम्बन्धेन विद्यमानत्वं पटेऽस्ति । अतोऽत्र कार्यता समवायसम्बन्धावच्छिन्ना, कारणता च स्वसमवायिसमवेतत्वरूपपरम्परासम्बन्धावच्छिन्नाऽस्ति । अन्यतर- शब्दस्य वाकारार्थे प्रयुक्तत्वात् समवायसम्बन्धावच्छिन्नकार्यता निरूपिता या समवायसम्बन्धावच्छिन्ना कारणता, तदाश्रयत्वस्य प्रथमकारणनामादाय तन्तुसंयोगे समन्वयः, तथा तादृशकार्यता निरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्ना या कारणता, तदाश्रयत्वस्य च लक्षणस्य द्वितीयकारणतामादाय तन्तुरूपे समन्वयः । न्या.बो.समवायमाश्रित्य समन्वयमाह न्यायबोधिनीकारः—द्रव्यासमावायिकारणी- पृ.३०.भूतेति । व्याख्यातप्रायमेतत् । आद्यपतनासमवायिकारणं गुरुत्वम्, एवमाद्यस्यन्दनासमवायिकारणं द्रवत्वम् इति पूर्वमुक्तम्, तदेवात्र प्रसङ्गात् समर्थयति — एवमिति । आद्यपतनं-कार्यम्, तत् समवायेन लोष्टादावत्पद्यते, तत्रैव लोष्टे समवायेन विद्यमानं सद् गुरुत्वं कारणं भवति । तथा च समवायसम्बन्धावच्छिन्नाद्यपतननिष्ठकार्यता निरूपितसमवाय- सम्बन्धावच्छिन्नकारणताया गुरुत्वे सत्त्वाद् गुरुत्वमाद्यपतनस्यासमवायिकारणं भवति । एवमाद्यस्यन्दनं समवायेन जले उत्पद्यते, तत्रैव समवायेन विद्यमानस्य द्रवत्वस्य कारणत्वात् द्रवत्वमसमवायिकारणं भवतीति भावः । स्वसमवायिसमवेतत्वसम्बन्धमाश्रित्य सामान्यलक्षणस्य स्वयमपि समन्वय- माह टीकाकारः—अवयवीति । घटपटरूपं हि अवयविनो घटापटादेर्गुणभूतं कपालतन्तरूपं च अवयवस्य कपालतन्त्वादेर्गुणभूतं, तस्येत्यर्थः । कारणत्वादित्य-

ग्रेण सम्बन्धः । तत्सम्बन्धावच्छिन्ना-स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नेत्यर्थः । समन्वयप्रकारं स्वयं प्रदर्शयति — अवयवगुणकपालतन्तुरूपादेरिति । न्या.बो. निमित्तकारणलक्षण स्पष्टयितुमाह—निमित्तकारणं लक्षयतीति । पृ.३१. लक्षणन्तु टीकायामेवोक्तम् । त्रिविधकारणलक्षणानि व्याख्यातानि, सम्प्रत्युपसंहृतं करणलक्षणं व्याख्या- तुमाह—तदेतदितीति । त्रिविधकारणमध्ये यदसाधारणं कारणं तत् करणमिति लक्षणम् । नन्वेवस्य लक्षणस्य कपालद्वयसंयोगे तन्तुसंयोगे चातिव्याप्तिः । पूर्वोक्तस्य कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता निरूपित कारणताशालित्वस्यैवासाधारणलक्षण- त्वात् । प्रकृते कार्यत्वानतिरिक्तघटत्वपटत्वधर्मावच्छिन्नकार्यता निरूपितकारणता- शालित्वस्य कपालसंयोगे तन्तुसंयोगे च मत्त्वादिति चेदत्राह — व्यापारवत्त्वे सतीति । तथा चोक्तासाधारणकारणत्वस्य तादृशसंयोगे सत्त्वेऽपि तस्य व्यापार- वत्त्वाभावान्नातिव्याप्तिः । दण्डादौ तु असाधारणत्वं व्यापारवत्त्वञ्चास्तीति घटादिकं प्रति दण्डादेः करणत्वं सुपपन्नम् । अक्षरार्थन्तु व्याख्ययैव गतार्थः । ननु व्यापारवत्त्वे सतीति करणलक्षणे विशेषितं, तत्र व्यापारत्वमेव किमित्याह— व्यापारत्वञ्चेति । तज्जन्यत्वे सति तज्जन्यजनकत्वमिति व्यापारलक्षणम् । अत्र तत्पदेन करणत्वेनाभिप्रेतो दण्डादिर्गृह्यते । भ्रमिभ्रमणम् । स हि दण्डाज्जन्यो भवति, अथ च दण्डजन्यो यो घटस्तस्य जनकोऽपि भवति, तस्मात् भ्रम्यादिर्व्या- पारः कथ्यते । तद्वत्त्वाच्च दण्डः करणं भवति । एवं कपालसंयोगतन्तुसंयोगादि- रपि क्रमेण कपालतन्त्वोः व्यापारो भवति । कपालसंयोगस्य कपालजन्यत्वे मति कपालजन्यस्य घटस्य जनकत्वात्, एवं तन्तुसंयोगस्य तन्तुजन्यत्वे मति तन्तु- जन्यस्य पटस्य जनकत्वात् । एतदेवाह—भवति हीत्यादिना घटपटजनकत्वा- न्या.बो. दित्यन्तेन । असाधारणत्वविशेषणस्य फलमाह — करणलक्षणे इति । ईश्वरा- पृ.३२. दृष्टादेरपि व्यापारवत्कारणत्वात् करणत्वं स्यादतः कार्यत्वातिरिक्तधर्मावच्छिन्न- कार्यतानिरूपितकारणत्वरूपमसाधारणत्वं विशेषितम् ईश्वरादेस्तु कार्यत्वसा- मान्यावच्छिन्नं प्रति कारणत्वादिति भावः । चक्षूरसनात्वग्घ्राणश्रोत्रमनांसि षडिन्द्रियाण्येव प्रत्यक्षप्रमाणपदेनोच्यन्ते । तल्लक्षणं प्रत्यक्षज्ञानकरणत्वं मूलकारेणोक्तम्, तदेव व्याख्यातुमाह-षड्विधेति । प्रमाभूतेषु प्रत्यक्षादिषु, — इत्यादिपदेन अनुमित्युपमितिशाब्दाः पूर्वोक्ता गृह्यन्ते । तत्र प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुष, रासन, घ्राणज, स्पर्शन, श्रावण, मानसप्रत्यक्षं, तत् प्रति असाधारणकारणत्वात् इन्द्रियसन्निकर्षरूपव्यापारवत्त्वाच्चेन्द्रियाण्येव करणानि भवन्तीति तेषां प्रत्यक्षप्रमाणत्व सिद्धम् । पर्यवसितमाह—अत इति ।

न्यायबोधिनी-संस्कृत-कला १०९

संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेष्यविशेषणभावश्चेति षड्विधसन्निकर्षाः प्रत्यक्षज्ञानहेतवो लक्ष्यन्ते, त एवेन्द्रिय- जन्यज्ञाने (प्रत्यक्षे) इन्द्रियव्यापारा इति केचन मन्यन्ते। किन्तु तत्राद्यान्तिमौ विहाय शेषाणां चतुर्णां समवायरूपतया, समवायस्य च नित्यतया तेषामिन्द्रिय- जन्यत्वाभावात् तज्जन्यत्वे सति तज्जन्यजनकत्वरूपव्यापारता न संभवतीति तत्रेन्द्रियमनःसंयोग एव बाह्यप्रत्यक्षे जननीये इन्द्रियव्यापारो मन्तव्यः, बाह्यप्रत्यक्षे सर्वैरेवेन्द्रियैः साकं मनसः संयोगसत्त्वादित्याह—आद्येत्यारभ्य बोध्येत्यन्तम्। विशेषणविशेष्यभावसन्निकर्षस्याभावप्रत्यक्ष एवोपयोगितया भावप्रत्यक्षस्थलीय- व्यापाराभिप्रायेणाद्यातिरिक्तत्वमुक्तम्। सुखादीनां मानसप्रत्यक्षे चक्षुरादिप- ञ्चेन्द्रियाणामनावश्यकत्वात् तत्रेन्द्रियमनःसंयोगो व्यापारो न भवितुमर्हति, किन्तु आत्ममनः संयोग एव व्यापार इत्याह—मानसेति। न्या.बो. प्रत्यक्षप्रमालक्षणं व्याख्यातुमाह—प्रत्यक्षप्रमाणेति। इन्द्रियार्थसन्निकर्ष- पृ. ३३. जन्यज्ञानत्वं प्रत्यक्षत्वम्। ननु प्रत्यक्षपदेन प्राणिप्रत्यक्षवत् ईश्वरप्रत्यक्षमपि ग्रहीतुं शक्यते, तथा च प्राणिप्रत्यक्षस्येन्द्रियार्थसन्निकर्षजन्यत्वेऽपि ईश्वरप्रत्यक्षस्य नित्यत्वेनेन्द्रियार्थसन्निकर्षजन्यत्वाभावात् तत्र प्रत्यक्षलक्षणाव्याप्तिरित्यत आह— जन्यप्रत्यक्षस्यैवेति । तथा चेश्वरप्रत्यक्षं लक्ष्यमेव नास्ति, अतस्तत्र नैव गच्छतु लक्षणं न तावता काऽपि हानिरित्यर्थः। ज्ञानाकरणकं ज्ञानं प्रत्यक्षमिति मूलकृता कृतमीश्वरप्रत्यक्षसाधारणं लक्षणं व्याचष्टे—ज्ञानमिति। ज्ञानं करणं येषां तानि ज्ञानकरणकानि, तद्भिन्नमित्यर्थः। अत्र ज्ञानपदेन यद्ग्राह्यं तदाह— व्याप्तिज्ञानं सादृश्यज्ञानं पदज्ञानमिति। अनुमितौ व्याप्तिज्ञानस्य, उपमितौ सादृश्यज्ञानस्य शाब्दे च पदज्ञानस्य करणत्वात् तानि ज्ञानकरणकानि भवन्ती- त्याह - ज्ञानकरणकानि अनुमित्युपमितिशाब्दानीति। प्रत्यक्षे इन्द्रियाणामेव करणतया ज्ञानकरणकभिन्नत्वं सुतरां प्रत्यक्षेऽस्तीत्याह - तद्भिन्नमिति । सर्वत्र प्रत्यक्षे लक्षणं सङ्गमयति—तथा चेति। प्रत्यक्षसामान्ये—प्राणिप्रत्यक्षे ईश्वर- प्रत्यक्षे चेत्यर्थः। निर्विकल्पकस विकल्पकयोर्लक्षणे व्याख्यातुं पूर्वं प्रत्यक्षविभागं प्रदर्शयति प्रत्यक्षं विभजते इति। निष्प्रकारकं ज्ञानं निर्विकल्पकमिति मूललक्षणं व्या- न्या.बो. चष्टे—प्रकारतेति। विशेषणमेव प्रकार इति पूर्वमुक्तम्। तथा च प्रकारतया पृ. ३४. शून्यं यज्ज्ञानं तन्निर्विकल्पकमित्यर्थः। यत्र ज्ञाने किमपि विशेषणं न भवति, तन्निर्विकल्पकमिति तात्पर्यम्। यथा बालविज्ञानमस्माकञ्चोपेक्षात्मकं ज्ञानम्। सर्वं ज्ञानं सविषयकं भवति, नहि किमपि ज्ञानं निर्विषयं भवति। अतएव ज्ञानं विषयी कथ्यते, तत्र भासमानपदार्थाश्च विषयाः कथ्यन्ते। यथा 'अयं घट'

इति ज्ञाने भासमानो घटादिः विषयसंज्ञया व्यवह्रियते । विषयता विषयनिष्ठा भवति । सा च विषयता त्रिविधा भवति । एका प्रकारताख्यविषयता, द्वितीया विशेष्यताख्यविषयता, तृतीया संसर्गताख्या विषयता चेति । यथा अयं घट इति ज्ञाने प्रकारीभूते घटत्वे प्रकारताख्या विषयता विद्यते । विशेष्यीभूते घटे विशेष्य- ताख्या विषयताऽस्ति । एवं घटघटत्वयोः समवायरूपसंसर्गे संसर्गताख्यविषयता विद्यते । तथा च निर्विकल्पके ज्ञाने प्रकारताविरहात् विशेष्यताऽपि नास्ति, तयोरभावे तयोरनुचरी संसर्गताऽपि नास्ति । तथा च निर्विकल्पके ज्ञाने त्रिविध- विषयतामध्ये एकस्या अपि विषयताया अभावात् लक्षणत्रयं भवितुमर्हतीति सर्वं हृदि कृत्वाऽऽह—निर्विकल्पके इति । चतुर्थीति । विलक्षणैव काचिदित्यर्थः । सविकल्पकप्रत्यक्षलक्षणं व्याख्यातुमाह—सविकल्पकमिति । विषयतायाः ज्ञाननिरूपितत्वादिति—यदि ज्ञानं न स्यात् घटादिः कस्य विषयो भवेत्तस्मात् विषयता ज्ञाननिरूपिता भवतीत्याशयः । यदा विषयता ज्ञाननिरूपिता तदा ज्ञानं विषयतानिरूपकमित्याह—ज्ञानस्य विषयतानिरूपकत्वेनेति । अतः प्रकारता- निरूपकज्ञानत्वम् अर्थात् प्रकारताख्यविषयतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणमिति । अत्र त्रिविधाया अपि विषयतायाः सम्भवात् लक्षणान्तरमपि सम्भवीत्याह— एवमिति । उदाहरणमाह—यथेति । अयं डित्थ इति, अयं ब्राह्मण इति च ज्ञाने इदंपदार्थो विशेष्यः । डित्थत्वं ब्राह्मणत्वञ्च प्रकारौ । तथा च इदन्तवावच्छिन्न- विशेष्यता निरूपित डित्थत्वनिष्ठप्रकारताशालिज्ञानत्वात्, इदन्तवावच्छिन्नविशेष्यता- निरूपितब्राह्मणत्वनिष्ठप्रकारताशालिज्ञानत्वाच्चेमे ज्ञाने सविकल्पके भवतः न्या. बो. चाक्षुषादिषड्विधप्रत्यक्षकारणीभूताः षड्विधसन्निकर्षाः मूले प्रोक्तास्तानेव पृ. ३५. विभागप्रदर्शनपूर्वकं व्याख्यातुमारभते चाक्षुषादीति । ज्ञानं विषयीति पूर्वमुक्तम् । विषये ज्ञानं विषयतासम्बन्धेन तिष्ठति, सम्बन्धमत्ता सम्बन्धिसत्ताया नियामिका भवति यतो यत्र घटसंयोगो वर्तते तत्र संयोगसम्बन्धेन घटोऽपि विद्यत एव । तथा च ज्ञानीया विषयता विषये विद्यतेऽतो ज्ञानमपि विषये विषयतासम्बन्धेन तिष्ठति । चाक्षुषादिकं ज्ञानमपि द्रव्यादौ विषये विषयतासम्बन्धेनोत्पद्यते । तदेतत् सर्वमभिप्रेत्याह—द्रव्यवृत्तीति । द्रव्यनिष्ठेत्यर्थः । तथा च द्रव्यवृत्तिलौकिक- विषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नचाक्षुषं प्रति चक्षुःसंयोगः कारणम् । यस्य द्रव्यस्य चक्षुषा प्रत्यक्षं करणीयमस्ति, तस्मिन् द्रव्ये चक्षुःसंयोग आवश्यक इत्यर्थः । एवं द्रव्यसमवेतं रूपादिकं, तद्वृत्तिविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति—अर्थात् द्रव्यसमवेतस्य रूपादेः प्रत्यक्षे करणीये चक्षुःसंयुक्तसमवायः

कारणम् । अत्र चक्षुःसंयुक्तं द्रव्यं, तत्र समवायो रूपस्येति । द्रव्यसमवेतं रूपादिकं तत्समवेतं शुक्लत्वनीलत्वादिकं तद्वृत्तिविषयतासम्बन्धेन चाक्षुषत्वाव- च्छिन्नं प्रति, अर्थात् शुक्लत्वादेः प्रत्यक्षे करणीये चक्षुःसंयुक्तसमवेतसमवायः कारणम् । अत्र चक्षुःसंयुक्तं भूतलादिद्रव्यं, तत्समवेतं रूपं तत्र समवायः शुक्ल- त्वादेरस्तीति समन्वयः । न्या.बो. अन्यत्राप्युदाहर्तुं द्रव्यग्राहकत्वं पूर्वमवधारयति—द्रव्यग्राहकाणीति । पृ. ३६. घ्राणरसनश्रवणानि तु गुणमात्रग्राहकाणीत्यतस्तानि पश्चादुदाहरिष्यन्ते इत्याह— अन्यानीति । त्वगिन्द्रियस्थले उदाहरति—अत इति । द्रव्यप्रत्यक्षे त्वक्- संयोगः कारणमिति प्रथमवाक्यार्थः । द्रव्यसमवेतशीतस्पर्शादिप्रत्यक्षे त्वक्संयुक्तं द्रव्यं तत्र यः शीतादेः समवायस्तद्रूपः सन्निकर्षः कारणमिति द्वितीयवाक्यार्थः । द्रव्यसमवेतः शीतस्पर्शादिः तत्समवेतं शीतत्वादिकं, तत्प्रत्यक्षे, त्वक्संयुक्तद्रव्य- समवेते शीतस्पर्शादौ यः शीतत्वादेः समवायः, तद्रूपः सन्निकर्षः कारणमिति तृतीयवाक्यार्थः । आत्मरूपद्रव्यप्रत्यक्षमुदाहरति—एवमिति । आत्मप्रत्यक्षे चक्षुरादीनाम- सामर्थ्यात् मनसैव तत्प्रत्यक्षं जायतेऽतस्तत्प्रत्यक्षं तद्वृत्तिसुखदुःखादिप्रत्यक्षञ्च मानसप्रत्यक्षनाम्ना व्यवह्रियते । तत्रात्मनो मानसप्रत्यक्षे आत्मना सह मनः- संयोगः कारणम् । आत्मसमवेतं यत् सुखदुःखादिकं, तस्य मानसप्रत्यक्षे मनः- संयुक्तसमवायः कारणम् । अत्र मनःसंयुक्त आत्मा तस्मिन् समवायः सुखादेर- स्तीति । एवमात्मसमवेते सुखादिके समवेतं यत् सुखत्वादिकं तत्प्रत्यक्षं प्रति मनःसंयुक्तसमवेतसमवायः कारणम् । अत्र च मनःसंयुक्त आत्मा, तत्समवेतं सुखादिकं, तत्र समवायः सुखत्वादेरिति भावः । रसनघ्राणयोस्त्विति । तद्गत- जातिः—रसगन्धगता रसत्वगन्धत्वादिजातिः । द्वितीयतृतीययोरिति । संयुक्तसमवायसंयुक्तसमवेतसमवाययोरित्यर्थः । रसगन्धप्रत्यक्षे आद्यः, रसत्वगन्ध- त्वप्रत्यक्षे द्वितीयः सन्निकर्षः कारणमित्यर्थः । न्या.बो. समवाय-समवेतसमवायसन्निकर्षावुदाहरति—श्रवणेति । शब्दप्रत्यक्षे पृ. ३७. समवायसन्निकर्षः कारणम् । यतो हि श्रवणेन्द्रियं नाकाशस्वरूपाद् भिन्नमस्ति । अत आकाशस्वरूपे श्रोत्रेन्द्रिये शब्दस्य समवायसम्बन्धाङ्गीकार इति भावः । ककारादिशब्दवृत्तिकत्वादिप्रत्यक्षे समवेतसमवायः कारणमित्याह—शब्द- वृत्तीति । अभावप्रत्यक्षहेतुभूतं विशेषणविशेष्यभावसन्निकर्षं व्याख्यातुमाह—अभाव- प्रत्यक्ष इतीति । मूलोक्तसन्निकर्षस्यार्थमाह-- विशेषणविशेष्यभाव इति । कीदृशाभावप्रत्यक्षे किंविधो विशेषणतासन्निकर्षः कारणमिति स्फोरणायाह—

११२ तर्कसंग्रहे [ प्रत्यक्षपरिच्छेदः न्या.बो.पञ्चविधेति । कार्यकारणस्वरूपं प्रदर्शयति-तथाहीति । द्रव्यमधिकरणं यस्य पृ.३८.स द्रव्याधिकरणकोऽभावः, तत्प्रत्यक्षो-भूतलादिद्रव्यनिष्ठो यो घटाद्यभावस्तत्- प्रत्यक्षो इत्यर्थः । तत्र इन्द्रियसंयुक्तविशेषणता कारणम्, इन्द्रियसंयुक्ते भूतले घटा- भावस्य विशेषणत्वादिति भावः । द्वितीयं कार्यकारणभावमाह-द्रव्यसमवेतेति । द्रव्यसमवेतमधिकरणं यस्याभावस्य, स द्रव्यसमवेताधिकरणकः, तत्प्रत्यक्षो इत्यर्थः । द्रव्यं-- घटादिरूपं द्रव्यं, तत्र समवेतं घटत्वं, तत्र विद्यमानो यः पृथिवीत्वाभावः, तत्प्रत्यक्षो इति तात्पर्यम् । तत्र इन्द्रियसंयुक्तसमवेतविशेषणतासन्निकर्षः कारणम् । इन्द्रियसंयुक्तो यो घटस्तत्र समवेतं यद् घटत्वं, तत्र पृथिवीत्वाभावस्य विशेष- णत्वात् । तृतीयमाह-द्रव्यसमवेतसमवेतेति । द्रव्यं घटः, तत्समवेतं रूपं, तत्समवेतरूपत्वादौ वर्तमानो यो नीलत्वाद्यभावः, तत्प्रत्यक्षे इत्यर्थः । इन्द्रिय- संयुक्तो घटः, तत्समवेतं रूपं, तत्समवेतं रूपत्वं, तत्र नीलत्वाभावस्य विशेष- णत्वादिति भावः । स्वयमुदाहरति-घटे पटत्वाभाव इत्यादि । व्याख्या- तमेतत् । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायां प्रत्यक्षपरिच्छेदः ।

अथानुमानपरिच्छेदः न्या.बो. अनुमितिकरणमनुमानं, परामर्शजन्यं ज्ञानमनुमितिरित्यनुमानानुमित्यो- पृ.३६. लक्षणे मूलकारेणोक्ते ते एव व्याख्यातुमारभते—अनुमानं लक्षयतीत्यादिना । मूले अनुमितिकरणपदेन व्याप्तिज्ञानं बोधनीयमित्याह—अनुमिताविति । अतो व्याप्तिज्ञानमेवानुमानप्रमाणसंज्ञया व्यवह्रियत इति बोद्धव्यम् । अनुमितौ जननीयायां लक्ष्यिष्यमाणः परामर्श एव व्यापारो भवतीत्याह—परामर्श इति । व्याप्तिज्ञानरूपकरण-परामर्शरूपतद्द्व्यापाराभ्यामनुमितिरूपं कार्यमुत्पद्यत इत्याह – अनुमितिरिति । लक्षणसमन्वयपुरस्सरं परामर्शस्य व्यापारत्वमुप- पादयति—परामर्शस्येति । परामर्शो हि व्याप्तिज्ञानाज्जायते, व्याप्तिज्ञानजन्या- मनुमिति जनयति चेत्यतः तज्जन्यत्वे सति तज्जन्यजनकत्वात् परामर्शो व्यापार इत्युपपन्नम् । अनुमानलक्षणस्वरूपमाह – अनुमितीति । अनुमानपदवाच्यमाह — अनुमानं व्याप्तिज्ञानमिति । एतस्येति । व्याप्तिज्ञानं हि परामर्शरूपव्यापार- द्वारा अनुमिति प्रत्यसाधारणकारणं ( कार्यत्वातिरिक्तानुमितित्वधर्मावच्छिन्न- कार्यतानिरूपितकारणताशालि) भवत्यूतो व्याप्तिज्ञानमनुमितिकरणमिति सिद्धम् । परामर्शजन्यत्वरूपमनुमितिलक्षणं व्याख्यातुं प्रतीकमुपादत्ते—परामर्श- जन्यमिति । परिष्कृतं लक्षणस्वरूपमाह—परामर्शजन्यत्वविशिष्टज्ञानत्व- मिति । परामर्शजन्यत्वविशेषणस्य फलमाह अत्रेति । ज्ञानत्वमात्रोपादाने इत्यर्थः । प्रत्यक्षादावतिव्याप्तिरिति । तस्यापि ज्ञानत्वादिति शेषः । तद्- वारणायेति । प्रत्यक्षस्य इन्द्रियसन्निकर्षजन्यत्वेन परामर्शजन्यत्वाभावाद् वारणमिति भावः । ज्ञानत्वानुपादाने दोषमाह—परामर्शजन्यत्वमात्रोक्ता- विति । परामर्शध्वंसो हि परामर्शजन्यो ऽस्ति, यतो हि यदि परामर्श एव न स्यात्तदा कस्य ध्वंसो भवेत् ? ध्वंसं प्रति प्रतियोगिनः कारणत्वात् । तस्मात् परामर्शध्वंसस्यापि परामर्शजन्यत्वेन तत्रातिव्याप्तिः, ज्ञानत्वोपादाने तु नाति- व्याप्तिः, ध्वंसस्य ज्ञानभिन्नत्वादिति भावः । न्या.बो. परामर्शलक्षणं व्याख्यातुं पूर्वं तदवतारयति—अनुमितीत्यादि व्याप्ति- पृ.४०. विशिष्टेत्यन्तम् । व्याप्तिविशिष्टपक्षधर्मताज्ञानत्वं परामर्शस्य लक्षणं मूले उक्तम् । अत्र व्याप्तिविशिष्टञ्च पक्षधर्मताज्ञानञ्चेति रीत्या कर्मधारयसमासः । ननु साहचर्यरूपाया व्याप्तेः हेतावेव वैशिष्ट्यसत्त्वात् कथं तद्वैशिष्ट्यं पक्षधर्मता- ज्ञाने प्रोक्तमित्यत आह—विशिष्टपदस्य प्रकारतानिरूपकपरत्वादिति । तथा ८

११४ तर्कसंग्रहे [ अनुमानपरिच्छेदः च व्याप्तिविशिष्टमित्यस्य व्याप्तिप्रकारकमित्यर्थः । अत्र व्याप्तिः प्रकारो यत्र ज्ञाने तद् व्याप्तिप्रकारकम् । एवञ्च व्याप्तिप्रकारकत्वं पक्षधर्मताज्ञानेऽस्त्येवेति नोक्तदोषः । पक्षधर्मतायाः ज्ञानमिति षष्ठीसमासात् पक्षधर्मताज्ञानशब्दो निष्पद्यते । अत्र षष्ठ्याः विषयत्वमर्थः । धर्मतापवस्य च सम्बन्धोऽर्थः । तथा च पक्षसम्बन्धि- विषयकं ज्ञानमिति लभ्यते । एतदेवाह — पक्षधर्मताज्ञानमित्यत आरभ्य सम्बन्धार्थकत्वादित्यन्तेन ग्रन्थेन । कर्मधारयसमासेन इति । तथा च यत्र यत्र कर्मधारयसमासो भवति तत्र सर्वत्रैव समस्यमानपदार्थयोरभेद एव संसर्गो भासते, यथा नीलश्चासौ घटश्चेति विग्रहेण कर्मधारयसमासे य एव नीलपदार्थो भवति स एव घटपदार्थो भवतीति नीलाभिन्नो घट इति तत्र बोध्यते, तद्वद् अत्रापि व्याप्तिप्रकारकाभिन्नं यत् पक्षसम्बन्धिविषयकं ज्ञानं, तत् परामर्श इति तात्पर्यम् । पक्षसम्बन्धिपदेन ( पक्षधर्मपदेन ) हेतुर्गृह्यते इत्यवधारणीयम् । उदाहरणमाह मूले—वह्निव्याप्यधूमवान् पर्वत इति ज्ञानं परामर्श इति । अत्र ज्ञाने प्रकारीभूतायाः ( विशेषणीभूतायाः ) व्याप्तेः पर्वतरूपपक्षसम्बन्धिनो धूमस्य च भानात् इदं ज्ञानं व्याप्तिप्रकारकपक्षसम्बन्धिविषयकं जातमत् एवंविधं ज्ञानमेव परामर्श इति सिद्धम् । न्या.बो. ननु धूमो वह्निव्याप्यः, आलोकवान् पर्वतं इत्याकारकसमुहालम्बनज्ञानेऽ- पृ.४१. परामर्शभूते उक्तलक्षणस्यातिव्याप्तिः, अत्रापि प्रकारविधया व्याप्तेः, पर्वनरूप- पक्षसम्बन्धिन आलोकस्य च भानेन व्याप्तिप्रकारकपक्षसम्बन्धिविषयकत्वादिति पूर्वपक्षमाह एवं सतीति । निष्कर्षेणोत्तरयति — पक्षनिष्ठविशेष्यतेति । प्रकारताविशेष्यतयोः मिथो निरूप्यनिरूपकभावो भवतीति बहुशः पूर्वमुक्तम् । तथा च पक्षनिष्ठविशेष्यतानिरूपिता या हेतुनिष्ठा प्रकारता, तन्निरूपिता या व्याप्तिनिष्ठाप्रकारता, तच्छाालिज्ञानत्वमिति परामर्शस्य निष्कृष्टं लक्षणम् । अनेन वह्निव्याप्यधूमवान् पर्वतं इति ज्ञानं परामर्शो भविष्यति । यतस्तत्र विशेष्यः पर्वतः, विशेष्यता पर्वतनिष्ठा, तन्निरूपिता प्रकारता हेतुभूते धूमे, तन्निरूपिता प्रकारता व्याप्ताविति तच्छाालिज्ञानत्वस्य तत्र सत्त्वात् । वह्निव्याप्यो धूमः आलोकवान् पर्वत इति समूहालम्बनज्ञाने तु नातिव्याप्तिः । यतस्तत्र पर्वतनिष्ठ- विशेष्यतानिरूपिता प्रकारता आलोके विद्यते किन्तु तन्निरूपिता प्रकारता व्याप्तौ नास्ति, आलोके व्याप्तेरविशेषणत्वात् । धूमिनरूपिता प्रकारता तु व्याप्तौ वर्तते, किन्तु तस्मिन् धूमे पर्वननिष्ठविशेष्यतानिरूपिता प्रकारतैव नास्ति, पर्वतरूपे विशेष्ये आलोकस्यैव विशेषणत्वेन धूमस्य विशेषणत्वाभावात् । तथा च तत्र पक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठप्रकारताशालिज्ञान- त्वाभावान्नातिव्याप्तिरिति भावः ।

न्यायबोधिनी-संस्कृत-कला ११५ परामर्शलक्षणं परिष्कृत्य सम्प्रत्यनुमितिलक्षणं निष्कर्षयति-एतादृश- परामर्शति। पक्षनिष्ठविशेष्यतानिरूपितहेतुनिष्ठप्रकारतानिरूपितव्याप्तिनिष्ठ- प्रकारताशालिज्ञानजन्यत्वे सति ज्ञानत्वमनुमितित्वमित्यर्थः। अनुमितिपरमर्शयोर्विशिष्य कार्यकारणभावमाह-अनुमितीति। पर्व- तत्वावच्छिन्नोद्देश्यतेति। अयमाशयः उद्देशयं विधेयञ्चेति द्वयमप्यनुमितावनुभूयते। यदुद्दिश्य किमपि विधीयते तदुद्देश्यम् कथ्यते, किमप्युद्दिश्य यद्विधीयते तद्विधेयमिति कथ्यते। यथा पर्वनमुद्दिश्य वह्निर्विधीयतेऽतः पर्वतोऽत्र उद्देश्यः, वह्निर्विधेयः उद्देश्यता पर्वतनिष्ठा विधेयता च वह्निष्ठाऽस्ति। यथा लक्ष्यताया अवच्छेदकं पृथिवीत्वं, लक्ष्यता च पृथिवीत्वावच्छिन्ना भवति, तथैवात्र उद्देश्यताया अवच्छेदकं पर्वतत्वं, विधेयतायाश्चावच्छेदकं वह्नित्वम्। पर्वतनिष्ठोद्देश्यता पर्वतत्वावच्छिन्ना, वह्नि- निष्ठा विधेयता च वह्नित्वावच्छिन्ना। धर्मसम्बन्धभेदेनावच्छेदकस्य द्वैविध्यात् वह्निष्ठा विधेयता यथा वह्नित्वधर्मेण वच्छिन्ना तथा संयोगसम्बन्धेनाप्य- वच्छिन्ना, संयोगेनैव वह्नेः पर्वते विधेयत्वात्, वह्नित्वावच्छिन्ना विधेयताऽस्ति यस्यामनुमितौ, सा वह्निन्त्वावच्छिन्नविधेयताकानुमितिः। बहुव्रीहौ कप्रत्ययः। एवं प्रकारताविशेष्यतादिवत् उद्देश्यनाव्रिधेयनयोरपि परस्परं निरूप्यनिरूपकभाव- सत्त्वात् पर्वतत्वावच्छिन्नाद्देश्यतानिरूपितसंयोगसम्बन्धावच्छिन्नवह्नित्वधर्मा- वच्छिन्नवह्नि निष्ठविधेयताकानुमितित्वावच्छिन्नं प्रति अर्थात् पर्वतो वह्निमान् इत्याकारानुमिति प्रति वह्निव्याप्तिविशिष्ट (व्याप्य ) धूमवान् पर्वत इत्या- कारकः वह्नित्वावच्छिन्नप्रकारतानिरूपिता या व्यातित्वावच्छिन्ना प्रकारता, तन्निरूपिता या धूमत्वावच्छिन्ना प्रकारता, तन्निरूपिता या पर्वतत्वावच्छिन्ना विशेष्यता, तच्छालिनिर्णयः कारणमिति भावः। एतच्च जगदीशभट्टाचार्य- मतेनोक्तम्। एतन्मते यत्रैकस्मिन्नेव पदार्थे किञ्चिन्निरूपिता विशेष्यता तिष्ठति, किञ्चिन्निरूपिता च प्रकारता तिष्ठति, तत्रत्यप्रकारताविशेष्यतयोरभेद एव भवति अतस्तत्र तन्मते विशेष्यतामनुक्त्वा प्रकारतैव व्यवह्रियते। यथाऽत्रैव वह्निव्याप्तिविशिष्टधूमवान् पर्वत इति परामर्शे वह्निनिष्ठप्रकारतानिरूपित- विशेष्यता व्याप्तौ वर्तते, एव तत्रैव धूमनिष्ठविशेष्यतानिरूपितप्रकारताऽप्यस्ति। वह्न्चपेक्षया विशेष्यीभूता धूमापेक्षया प्रकारीभूता (विशेषणीभूता ) व्याप्तिर- स्तीति यावत्। एवं धूमस्य व्याप्त्यपेक्षया विशेष्यत्वात् पर्वतापेक्षया च प्रकार- त्वात् धूमे व्याप्तिनिष्ठप्रकारतानिरूपिता विशेष्यता विद्यते, एवं पर्वतनिष्ठ विशेष्यता निरूपिता प्रकारताऽपि विद्यते। अतोऽत्र विशेष्यतामनुक्त्वा प्रकारतैव

११६ तर्कसंग्रहे [ अनुमानपरिच्छेदः केवलं व्यवह्रियते जगदीशभट्टाचार्यानुसारिभिः । अतस्तन्मतेनोक्तकार्यकारणभावे वह्नित्वावच्छिन्नप्रकारतानिरूपिता या व्याप्तित्वावच्छिन्ना प्रकारता इत्ये- वोक्तं न तु वह्नित्वावच्छिन्नप्रकारतानिरूपिता या व्याप्तित्वावच्छिन्नविशेष्य- तेत्युक्तम् । गदाधरभट्टाचार्यमते तु यत्रैकस्मिन्नेव पदार्थे विशेष्यताप्रकारते उभे तिष्ठतस्तत्र विशेष्यताप्रकारतयोर्नभेदो भवति, किन्तु तयोरवच्छेद्यावच्छेदकभाव एव भवत्यतस्तन्मतेन कार्यकारणभावं परिष्करोति—अभेदानङ्गीकर्तृ मते इति । न्या.बो. वह्नित्वावच्छिन्नप्रकारतानिरूपिता या व्याप्तिनिष्ठविशेष्यता, तादृशविशेष्यत्वा- पृ.४२.वच्छिन्ना या व्याप्तित्वावच्छिन्ना प्रकारता, तन्निरूपिता या धूमनिष्ठविशेष्यता, तादृशविशेष्यत्वावच्छिन्ना या धूमत्वावच्छिन्ना प्रकारता, तन्निरूपिता या पर्वतत्वावच्छिन्ना विशेष्यता तच्छालिनिर्णयः उक्तस्वरूपानुमिति प्रति कारणमिति भावः । अनुमितिकारणीभूतस्यैवंविधनिर्णयस्य स्वरूपमाह—स चेति । व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्श इत्यत्र व्याप्तिर्घटकीभूता विद्यते तस्याः स्वरूपं व्याख्यातुमारभते—यत्रेतीति । यत्र यत्रेति वाक्ये द्विरुक्तं यत्रेति पदं वीप्सां गमयति । सा च वीप्सा यावन्ति धूमाधिकरणानि सन्ति, तेषु सर्वेष्वेव वह्निरस्तीति बोधयति । एतावता वह्निर्धूमव्यापक इत्यर्थतो लभ्यते इति सर्वमाह—यत्रपदवीप्सेन्यादिना लब्धमित्यन्तेन ग्रन्थेन । यत्र यत्रेति वाक्यस्य स्पष्टीकरणं स्वय मूलकारेणैव ‘साहचर्यनियमो व्याप्ति’रिति वाक्येन कृतं, तदेव व्याख्यातुं न्यायबोधिनीकार आरभते—तदेवेति । एतदर्थस्त्विति । साहचर्य- नियम इत्यस्यार्थस्त्वित्यर्थः । नियतस्य साहचर्यं व्याप्तिरिति भावः । नियतपदस्य ‘व्यापकम्’ इत्यर्थः, साहचर्यपदस्य च ‘सामानाधिकरण्य’मित्यर्थः इत्याह— नियतत्वमिति । व्यापकञ्च वह्निर्भवतीत्युक्तमेव । समानमधिकरणं यस्य स समानाधिकरणः, तस्य भावः सामानाधिकरण्यम् । नियतस्य व्यापकीभूतस्य वह्नेः सामानाधिकरण्यं धूमेऽस्ति, यतः यद् वह्नेरधिकरणं वर्तते महानसादि, तदेव धूमस्याप्यधिकरणं वर्तते । ततो वह्न्यधिकरणमहानसादिवृत्तित्वमेव वह्निसामा- नाधिकरण्यमिति लभ्यते । न्या.बो. एवमाशयवानेव टीकाकारो विशेषरूपेण व्याप्तिस्वरूपमाह—तथा चेति । पृ.४३.धूमव्यापकीभूतो यो वह्निस्तत्सामानाधिकरण्यं व्याप्तिरिति भावः । वह्नौ कीदृशं धूमव्यापकत्वमित्याह—धूमसमानेति । धूमसमानाधिकरणीभूतो योऽत्यन्ताभावः, तत्प्रतियोगिताया अनवच्छेदकीभूतो यो धर्मस्तद्वत्त्वमित्यर्थः । धूमसमानाधिकरणत्वञ्च धूमाधिकरणे वर्तमानत्वम् । तथा च धूमाधिकरणं पर्वतादिक, तत्र वर्तमानोऽभावो घटाभावः ( घटत्वावच्छिन्नप्रतियोगिताकः ),

तादृशाभावस्य प्रतियोगी घटः, प्रतियोगिता घटनिष्ठा, तस्या अवच्छेदकं घटत्वम्, अनवच्छेदकं वह्नित्वं धर्मः, तादृशधर्मवत्त्वस्य वह्नौ सत्त्वात् वह्निर्धूमस्य व्यापकः, व्यापकीभूतवह्निसामानधिकरण्यञ्च धूमे व्याप्तिरिति । एतदेव सर्वं स्वयमप्याह टीकाकारः—तथा हीति । एतावता हेतुसमानाधिकरणात्यन्ताभावीयप्रति- योगितानवच्छेदकीभूतसाध्यतावच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरिति लभ्यते । एतस्य समन्वयस्तु स्वयमेवोक्तदिशाऽवसेयः । इयमेव च सिद्धान्त- भूतान्वयव्याप्तिरित्याह—इयमिति । पूर्वपक्षिणां व्याप्तिमाह—साध्याभाववदवृत्तित्वमिति । साध्यो वह्निः, तदभावः वह्न्यभावः, तद्वान् जलहदादिः, तत्र वृत्तित्वं मीनादेः, अवृत्तित्वञ्च धूमस्यास्तीति वह्निनिरूपिता व्याप्तिर्धूमे गच्छतीति समन्वयः । धूमस्य व्याप्तिस्तु वह्नौ न गमिष्यति । तत्र साध्यो धूमः, तदभावो धूमाभावः, तद्वत् अयःपिण्डम्, तत्र वृत्तित्वस्यैव वह्नौ सत्त्वात् इति भावः । अतो धूमवान् वह्नेरिति वह्निना धूमानुमानं न भवितुमर्हति किन्तु धूमेनैव हेतुना वह्नयनुमानं 'वह्निमान् पर्वतः' इत्याकारकं भविष्यतीति । एतस्या एव पूर्वपक्षव्याप्तेः परिष्कृतं स्वरूपमाह—साध्यतेत्यादि । साध्यतावच्छेदकसम्बन्धावच्छिन्ना साध्यतावच्छेदकधर्मावच्छिन्ना च या प्रतियोगिता, तादृशप्रतियोगितानिरूपको यः प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता- च्छेदकधर्मावच्छिन्नवैयधिकरण्यावच्छिन्नोऽभावः, तदधिकरणनिरूपितं यत् हेतुता- वच्छेदकसम्बन्धावच्छिन्नं वृत्तित्वं, तादृशवृत्तित्वनिष्ठं यत् वृत्तित्वत्वं, तदवच्छिन्ना या वृत्तित्वनिष्ठा प्रतियोगिता, तादृशप्रतियोगितानिरूपकोऽभावो व्याप्तिरिति समस्तवाक्यस्य विग्रहः । अयं भावः—साध्यताप्रतियोगिताहेतुतादीनां समेषामेव लक्ष्यतावत् किमप्य- वच्छेदकं भवति । तच्च सम्बन्धधर्मभेदेन द्विविधं भवति । यत्र यदुपयोगि प्रतीयते ग्रन्थकारेण तत्र तदुपादीयते । यत्र द्वयमप्युपयोगि तत्र द्वयमप्युपादीयते । एवं येन सम्बन्धेन साध्यं पक्षे साध्यते, स सम्बन्धः साध्यतावच्छेदकः । यथा पर्वतो वह्निमानित्यत्र पर्वते पक्षे वह्निरूपं साध्यं संयोगेन सम्बन्धेन साध्यते, तस्मात् वह्निनिष्ठसाध्यतावच्छेदकसम्बन्धः संयोगः । यथा हृदादौ संयोगेन वह्नेरभावो गृह्यते तस्मात् वह्न्यभावीयवह्निनिष्ठप्रतियोगितायाः अवच्छेदकः सम्बन्धः संयोगः । येन सम्बन्धेन हेतुः पक्षे तिष्ठति स हेतुतावच्छेदकसम्बन्धः । यथा पर्वतो वह्नि- मान् धूमादित्यत्र धूमः पर्वते संयोगेन वर्ततेऽतो धूमनिष्ठहेतुताया अवच्छेदकसम्बन्धः संयोग एव । साध्यतादीनामवच्छेदको धर्मः वह्नित्वादिकर्मिति तु लक्ष्यतावच्छेदक- पृथिवीत्ववद् बोध्यम् । एतैरवच्छेदकीभूतैः सम्बन्धैर्धर्मैश्च साध्यतादयो अवच्छिन्ना