तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 116, कुल 199 में से
संदर्भ में पढ़ेंन्यायबोधिनी-संस्कृत-कला अयमाशयः- लक्ष्यताविवेचनावसरे विशेष्यता, प्रकारता, इत्युभे नाममात्रेण प्रदर्शिता । ते एवात्र विस्तरेणोच्येते । तथाहि-सर्वस्मिन्नपि सविकल्पके ज्ञाने एकं विशेष्यं भवति एकश्च प्रकारः । विशेषणमेव प्रकार इत्युच्यते । यथा 'अयं घट' इति ज्ञाने घटांशे घटत्वं प्रकारो घटश्च विशेष्योऽस्ति । घटत्वं प्रकारो यत्र तत् घटत्वप्रकारकम्, अत्र बहुव्रीहौ कप्रत्ययः । एवं घटो विशेष्यो यत्र तत् घटविशेष्यकं भवति । तथा चायं घट इति ज्ञानं घटत्वप्रकारकं घटविशेष्यकञ्चास्ति । एवं घटवद्भूतलमिति ज्ञाने घटस्य विशेषणत्वात् घट एव प्रकारः, भूतलञ्च विशेष्यमस्ति । तथाऽत्रापि घटः प्रकारो यत्रेति बहुव्रीहौ कप्रत्ययः । एवं भूतं विशेष्यं यत्रेत्यत्रापि बहुव्रीहौ कप्रत्ययः । तथा च घटवद्भूतलमिति ज्ञानं घटप्रकारकं भूतलविशेष्यकञ्चास्तीति नैयायिकानां पन्थाः । एतद्रीत्या प्रकृते तद्वतीति सप्तम्या विशेष्यत्वार्थकत्वेन तद्वद्विशेष्यकत्वे सति तत्प्रकारकानुभवत्वं यथार्थानुभवस्य लक्षणं भवति । यथा-यत्र भूतले घटो वर्तते तद् भूतं घटवद् भवति । तत्र यदि 'इदं भूतं घटवदिति, ज्ञानं क्रियते तदा इदं ज्ञानं यथार्थम् । यतो हि इदं ज्ञानं तद्वद्- विशेष्यकं तत्प्रकारकञ्चास्ति । तत्पदेन प्रकारीभूतो ( विशेषणीभूतः ) घटरूप- धर्मोऽत्र ग्रहीतव्यः । तथा च घटवद् ( भूतल ) विशेष्यकं घटप्रकारकम् ( घट- विशेषणकं ) चेदं ज्ञानमतो यथार्थम् । एवंविधमेव चान्यदपि ज्ञानं यथार्थं भवति । अत्रायं सारः- तत्प्रकारके ज्ञाने यद् विशेष्यमस्ति, तद् यदि तद्वत् स्यात् अर्थात् तस्य प्रकारस्याधिकरणं स्यात्, तदा तज्ज्ञानं यथार्थं भविष्यति, विशेष्यं यदि तद्वत् न स्यात्तदा तज्ज्ञानमयथार्थम् भविष्यति । एवमेव पटवद्गृहमिति ज्ञानं पटप्रकारकमस्ति, तस्य विशेष्यं गृहमपि पटवद् विद्यते । तस्मादिदं ज्ञानं यथार्थम्, तद्वद्विशेष्यकत्वे सति तत्प्रकारकत्वस्य यथार्थलक्षणस्य सत्त्वात् । बोधिनीकारः स्वममप्युदाहरति - रजते इदं रजतमिति ज्ञानमिति । अयमाशयः- अत्रेदंपदेन पुरोवर्ती पदार्थो ज्ञेयः । तथा च इदं पुरोवर्ती पदार्थो रजतमस्तीति ज्ञानाकारः । अत्र ज्ञाने पुरो विद्यमानं रजतमेव विशेष्यं रजतत्वञ्च प्रकारः । अर्थात् इदं ज्ञानं रजतत्वप्रकारकं रजतविशेष्यकं विद्यते । विशेष्यीभूतं रजतञ्च रजतत्वरूपप्रकारवदस्ति । अतः तद्वद् ( रजतत्ववदरजत ) विशेष्यकत्वे सति तत् ( रजतत्व ) प्रकारकत्वस्य सत्त्वाद् रजते 'इदं रजत'मिति ज्ञानं यथार्थम् ! तदेवाह- अत्रेति प्रमायथार्थशब्दयोः पर्यायत्वात् मूले उक्तम्- सैवेति । अतिप्रसङ्गवारणाय लक्षणस्य निष्कर्षमाह- तद्वदिति । तद्वन्निष्ठा या विशेष्यता, तादृशविशेष्यतानिरूपिता या तन्निष्ठा प्रकारता, तादृशप्रकारताशालित्वं