तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 117, कुल 199 में से
संदर्भ में पढ़ेंयथार्थत्वमित्यर्थः । प्रकारता हि विशेष्यतानिरूपिता भवति । अर्थात् विशेष्यता प्रकारताया निरूपिका भवति । यतो हि, यदि विशेष्यं रजतं न स्यात् तर्हि किम- पेक्ष्य रजतत्वं प्रकारः स्यात् ! एवं, यदि रजतत्वं प्रकार एव न स्यात् तदा रजतं कस्य विशेष्यं कथ्येत । तस्माद् विज्ञायते यत् प्रकारता विशेष्यनिष्ठविशेष्यतारूप- धर्मनिरूपिता भवति, एवं विशेष्यताऽपि प्रकारनिष्ठप्रकारतारूपधर्मनिरूपिता भवति । प्रकारताविशेष्यतयोः परस्परं निरूप्यनिरूपकभावो भवतीत्याशयः । एतदाशयेनैव चोक्तनिष्कर्षे तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारतेत्युक्तम् । तत्पदेन प्रकारीभूतं रजतत्वं धर्तव्यम् । तथा च, रजतत्ववद्रजतनिष्ठा या विशेष्यता, तन्निरूपिता या रजतत्वनिष्ठा प्रकारता, तादृशप्रकारताशालित्वम् 'इदं रजतम'ति ज्ञाने वर्तत इति लक्षणसमन्वयः । एवंविधनिष्कृष्टलक्षणस्य फलमाह- अन्यथेति । यत्र क्रमेण रङ्गरजते स्थापिते विद्येते, किन्तु भ्रमात् रङ्गस्थाने रजतं रजतस्थाने च रङ्गञ्जानाति 'इमे रजतरङ्गे' इति तत्रोक्तयथाश्रुतलक्षणस्याति- व्याप्तिरतस्तद्वारणमेव निष्कर्षस्य फलमित्याशयः । अतिव्याप्तिप्रकारं पूर्वं दर्शयति - तत्रापीति । अयं भावः- रङ्गरजतस्थाने रजतरङ्गे इति समूहालम्बनं यत् ज्ञानमस्ति, तत्र रजतत्वं रङ्गत्वञ्च प्रकारौ स्तः । अर्थात् इदं ज्ञानं रजतत्वप्रकारकं रङ्गत्वप्रकार- कञ्चास्ते । ज्ञानमिदं तदा यथार्थमेव भविष्यति यदा पूर्वोक्तप्रकारकं सत् रजतत्व- वद्विशेष्यकं रङ्गत्ववद्विशेष्यकञ्च स्यात् । इदं ज्ञानं तथा वर्ततेऽपि । यतोहि एतस्य रजतत्वरङ्गत्वप्रकारकसमूहालम्बनज्ञानस्य विशेष्यीभूते पुरोविद्यमाने रङ्ग- रजते एव विद्येते, ते च रजतत्वद् रङ्गत्ववच्चापि स्तः । तस्माद् रजतत्ववद्- विशेष्यकत्वरजतत्वप्रकारकत्वयोः, रङ्गत्ववद्विशेष्यकत्वरङ्गत्वप्रकारकत्वयो- श्चोक्तसमूहालम्बने ज्ञाने सत्त्वात् यथार्थानुभवलक्षणस्य तत्रातिव्याप्तिः । उक्त- निष्कर्षे तु नातिव्याप्तिरिति समाधत्ते - उक्तेति । अयमाशयः- पुरः क्रमेण रङ्गरजते स्तः, किन्तु वैपरीत्येन रजनरङ्गे इति जानाति । अर्थात् रङ्गं रजतं जानाति, रजतञ्च रङ्गं जानाति । रङ्गांशे रजतत्व- मवगाहते, रजतांशे च रङ्गत्वमवगाहते इति तु रहस्यम् । तथा च तदा रङ्गांशे रजतत्वमवगाहते तदा रजतत्वं प्रकारः रङ्गञ्च विशेष्यम् । प्रकारता रजतत्व- निष्ठा, विशेष्यता तु रङ्गनिष्ठा । रङ्गञ्च वस्तुतो रङ्गत्वधर्मवदस्ति न तु रजत- त्वधर्मवदिति । एवञ्च रजतत्वनिष्ठा प्रकारता यदा रजतत्ववन्निष्ठविशेष्यतानिरू- पिता स्यात् तदा तज्ज्ञानं यथार्थं भविष्यति । अत्र तु रजतत्वनिष्ठप्रकारता रङ्गत्ववन्निष्ठविशेष्यतानिरूपिता विद्यते । एवं यदा रजतांशे रङ्गत्वमवगाहते तदा रङ्गत्व प्रकारः रजतञ्च विशेष्यम् । प्रकारता रङ्गत्वनिष्ठा विशेष्यता च रजतनिष्ठा । रजतञ्च वस्तुतो रजतत्वधर्मवदस्ति न तु रङ्गत्वधर्मवदिति ।