तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 124, कुल 199 में से
संदर्भ में पढ़ेंद्विविधासमवायिकारणसाधारणं लक्षणमाह — सामान्यलक्षणन्त्विति । समवायसम्बन्धावच्छिन्नकार्यता निरूपिता या समवायस्वसमवायिसमवेतत्वान्यतर- सम्बन्धावच्छिन्ना कारणता तदाश्रयत्वमसमवायिकारणत्वमिति । अयं भावः — येन सम्बन्धेन कार्यं भवेत् स कार्यतावच्छेदकसम्बन्धः । एवं येन सम्बन्धेन कारणं तिष्ठेत् स कारणतावच्छेदकसम्बन्धः । कार्यं यत्रोत्पादनीयं तत्रैव कारणेनापि भवितव्यमिति सर्वं पूर्वमुक्तम् । तथा चासमवायिकारणस्य द्विविधे उदाहरणे कार्यतावच्छेदकः समवाय एव सम्बन्धः, कारणतावच्छेदकस्तु प्रथमे समवायसम्बन्धः द्वितीये च स्वसमवायिसमवेतत्वसम्बन्धो भवति । कथमिति चेत् श्रूयताम् — प्रथमे पटं प्रति तन्तुसंयोगोऽसमवायिकारणम् । तत्र पटः समवायसम्बन्धेन तन्तुषूत्पद्यते, तत्रैव तन्तुसंयोगोऽपि विद्यमानः सन् कारणं भवत्यतोऽत्र कार्यताकारणे उभे अपि समवायसम्बन्धावच्छिन्ने भवतः । द्वितीये च पटरूपं प्रति तन्तरूपमसमवायिकारणं भवति । तत्र कार्यं पटरूपं समवायेन पटे भवति, तत्रैव पटे कारणीभूतं तन्तरूपं स्वसमवायिसमवेतत्वसम्बन्धेन वर्तते । यतोऽत्र स्वपदेन तन्तुरूपं गृह्यते, तत्समवायिकारणं तन्तवः, तत्र समवेतत्वं—समवाय- सम्बन्धेन विद्यमानत्वं पटेऽस्ति । अतोऽत्र कार्यता समवायसम्बन्धावच्छिन्ना, कारणता च स्वसमवायिसमवेतत्वरूपपरम्परासम्बन्धावच्छिन्नाऽस्ति । अन्यतर- शब्दस्य वाकारार्थे प्रयुक्तत्वात् समवायसम्बन्धावच्छिन्नकार्यता निरूपिता या समवायसम्बन्धावच्छिन्ना कारणता, तदाश्रयत्वस्य प्रथमकारणनामादाय तन्तुसंयोगे समन्वयः, तथा तादृशकार्यता निरूपितस्वसमवायिसमवेतत्वसम्बन्धावच्छिन्ना या कारणता, तदाश्रयत्वस्य च लक्षणस्य द्वितीयकारणतामादाय तन्तुरूपे समन्वयः । न्या.बो.समवायमाश्रित्य समन्वयमाह न्यायबोधिनीकारः—द्रव्यासमावायिकारणी- पृ.३०.भूतेति । व्याख्यातप्रायमेतत् । आद्यपतनासमवायिकारणं गुरुत्वम्, एवमाद्यस्यन्दनासमवायिकारणं द्रवत्वम् इति पूर्वमुक्तम्, तदेवात्र प्रसङ्गात् समर्थयति — एवमिति । आद्यपतनं-कार्यम्, तत् समवायेन लोष्टादावत्पद्यते, तत्रैव लोष्टे समवायेन विद्यमानं सद् गुरुत्वं कारणं भवति । तथा च समवायसम्बन्धावच्छिन्नाद्यपतननिष्ठकार्यता निरूपितसमवाय- सम्बन्धावच्छिन्नकारणताया गुरुत्वे सत्त्वाद् गुरुत्वमाद्यपतनस्यासमवायिकारणं भवति । एवमाद्यस्यन्दनं समवायेन जले उत्पद्यते, तत्रैव समवायेन विद्यमानस्य द्रवत्वस्य कारणत्वात् द्रवत्वमसमवायिकारणं भवतीति भावः । स्वसमवायिसमवेतत्वसम्बन्धमाश्रित्य सामान्यलक्षणस्य स्वयमपि समन्वय- माह टीकाकारः—अवयवीति । घटपटरूपं हि अवयविनो घटापटादेर्गुणभूतं कपालतन्तरूपं च अवयवस्य कपालतन्त्वादेर्गुणभूतं, तस्येत्यर्थः । कारणत्वादित्य-