तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 125, कुल 199 में से
संदर्भ में पढ़ेंग्रेण सम्बन्धः । तत्सम्बन्धावच्छिन्ना-स्वसमवायिसमवेतत्वसम्बन्धावच्छिन्नेत्यर्थः । समन्वयप्रकारं स्वयं प्रदर्शयति — अवयवगुणकपालतन्तुरूपादेरिति । न्या.बो. निमित्तकारणलक्षण स्पष्टयितुमाह—निमित्तकारणं लक्षयतीति । पृ.३१. लक्षणन्तु टीकायामेवोक्तम् । त्रिविधकारणलक्षणानि व्याख्यातानि, सम्प्रत्युपसंहृतं करणलक्षणं व्याख्या- तुमाह—तदेतदितीति । त्रिविधकारणमध्ये यदसाधारणं कारणं तत् करणमिति लक्षणम् । नन्वेवस्य लक्षणस्य कपालद्वयसंयोगे तन्तुसंयोगे चातिव्याप्तिः । पूर्वोक्तस्य कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यता निरूपित कारणताशालित्वस्यैवासाधारणलक्षण- त्वात् । प्रकृते कार्यत्वानतिरिक्तघटत्वपटत्वधर्मावच्छिन्नकार्यता निरूपितकारणता- शालित्वस्य कपालसंयोगे तन्तुसंयोगे च मत्त्वादिति चेदत्राह — व्यापारवत्त्वे सतीति । तथा चोक्तासाधारणकारणत्वस्य तादृशसंयोगे सत्त्वेऽपि तस्य व्यापार- वत्त्वाभावान्नातिव्याप्तिः । दण्डादौ तु असाधारणत्वं व्यापारवत्त्वञ्चास्तीति घटादिकं प्रति दण्डादेः करणत्वं सुपपन्नम् । अक्षरार्थन्तु व्याख्ययैव गतार्थः । ननु व्यापारवत्त्वे सतीति करणलक्षणे विशेषितं, तत्र व्यापारत्वमेव किमित्याह— व्यापारत्वञ्चेति । तज्जन्यत्वे सति तज्जन्यजनकत्वमिति व्यापारलक्षणम् । अत्र तत्पदेन करणत्वेनाभिप्रेतो दण्डादिर्गृह्यते । भ्रमिभ्रमणम् । स हि दण्डाज्जन्यो भवति, अथ च दण्डजन्यो यो घटस्तस्य जनकोऽपि भवति, तस्मात् भ्रम्यादिर्व्या- पारः कथ्यते । तद्वत्त्वाच्च दण्डः करणं भवति । एवं कपालसंयोगतन्तुसंयोगादि- रपि क्रमेण कपालतन्त्वोः व्यापारो भवति । कपालसंयोगस्य कपालजन्यत्वे मति कपालजन्यस्य घटस्य जनकत्वात्, एवं तन्तुसंयोगस्य तन्तुजन्यत्वे मति तन्तु- जन्यस्य पटस्य जनकत्वात् । एतदेवाह—भवति हीत्यादिना घटपटजनकत्वा- न्या.बो. दित्यन्तेन । असाधारणत्वविशेषणस्य फलमाह — करणलक्षणे इति । ईश्वरा- पृ.३२. दृष्टादेरपि व्यापारवत्कारणत्वात् करणत्वं स्यादतः कार्यत्वातिरिक्तधर्मावच्छिन्न- कार्यतानिरूपितकारणत्वरूपमसाधारणत्वं विशेषितम् ईश्वरादेस्तु कार्यत्वसा- मान्यावच्छिन्नं प्रति कारणत्वादिति भावः । चक्षूरसनात्वग्घ्राणश्रोत्रमनांसि षडिन्द्रियाण्येव प्रत्यक्षप्रमाणपदेनोच्यन्ते । तल्लक्षणं प्रत्यक्षज्ञानकरणत्वं मूलकारेणोक्तम्, तदेव व्याख्यातुमाह-षड्विधेति । प्रमाभूतेषु प्रत्यक्षादिषु, — इत्यादिपदेन अनुमित्युपमितिशाब्दाः पूर्वोक्ता गृह्यन्ते । तत्र प्रत्यक्षात्मकं यज्ज्ञानं चाक्षुष, रासन, घ्राणज, स्पर्शन, श्रावण, मानसप्रत्यक्षं, तत् प्रति असाधारणकारणत्वात् इन्द्रियसन्निकर्षरूपव्यापारवत्त्वाच्चेन्द्रियाण्येव करणानि भवन्तीति तेषां प्रत्यक्षप्रमाणत्व सिद्धम् । पर्यवसितमाह—अत इति ।