तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 127, कुल 199 में से
संदर्भ में पढ़ेंइति ज्ञाने भासमानो घटादिः विषयसंज्ञया व्यवह्रियते । विषयता विषयनिष्ठा भवति । सा च विषयता त्रिविधा भवति । एका प्रकारताख्यविषयता, द्वितीया विशेष्यताख्यविषयता, तृतीया संसर्गताख्या विषयता चेति । यथा अयं घट इति ज्ञाने प्रकारीभूते घटत्वे प्रकारताख्या विषयता विद्यते । विशेष्यीभूते घटे विशेष्य- ताख्या विषयताऽस्ति । एवं घटघटत्वयोः समवायरूपसंसर्गे संसर्गताख्यविषयता विद्यते । तथा च निर्विकल्पके ज्ञाने प्रकारताविरहात् विशेष्यताऽपि नास्ति, तयोरभावे तयोरनुचरी संसर्गताऽपि नास्ति । तथा च निर्विकल्पके ज्ञाने त्रिविध- विषयतामध्ये एकस्या अपि विषयताया अभावात् लक्षणत्रयं भवितुमर्हतीति सर्वं हृदि कृत्वाऽऽह—निर्विकल्पके इति । चतुर्थीति । विलक्षणैव काचिदित्यर्थः । सविकल्पकप्रत्यक्षलक्षणं व्याख्यातुमाह—सविकल्पकमिति । विषयतायाः ज्ञाननिरूपितत्वादिति—यदि ज्ञानं न स्यात् घटादिः कस्य विषयो भवेत्तस्मात् विषयता ज्ञाननिरूपिता भवतीत्याशयः । यदा विषयता ज्ञाननिरूपिता तदा ज्ञानं विषयतानिरूपकमित्याह—ज्ञानस्य विषयतानिरूपकत्वेनेति । अतः प्रकारता- निरूपकज्ञानत्वम् अर्थात् प्रकारताख्यविषयतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणमिति । अत्र त्रिविधाया अपि विषयतायाः सम्भवात् लक्षणान्तरमपि सम्भवीत्याह— एवमिति । उदाहरणमाह—यथेति । अयं डित्थ इति, अयं ब्राह्मण इति च ज्ञाने इदंपदार्थो विशेष्यः । डित्थत्वं ब्राह्मणत्वञ्च प्रकारौ । तथा च इदन्तवावच्छिन्न- विशेष्यता निरूपित डित्थत्वनिष्ठप्रकारताशालिज्ञानत्वात्, इदन्तवावच्छिन्नविशेष्यता- निरूपितब्राह्मणत्वनिष्ठप्रकारताशालिज्ञानत्वाच्चेमे ज्ञाने सविकल्पके भवतः न्या. बो. चाक्षुषादिषड्विधप्रत्यक्षकारणीभूताः षड्विधसन्निकर्षाः मूले प्रोक्तास्तानेव पृ. ३५. विभागप्रदर्शनपूर्वकं व्याख्यातुमारभते चाक्षुषादीति । ज्ञानं विषयीति पूर्वमुक्तम् । विषये ज्ञानं विषयतासम्बन्धेन तिष्ठति, सम्बन्धमत्ता सम्बन्धिसत्ताया नियामिका भवति यतो यत्र घटसंयोगो वर्तते तत्र संयोगसम्बन्धेन घटोऽपि विद्यत एव । तथा च ज्ञानीया विषयता विषये विद्यतेऽतो ज्ञानमपि विषये विषयतासम्बन्धेन तिष्ठति । चाक्षुषादिकं ज्ञानमपि द्रव्यादौ विषये विषयतासम्बन्धेनोत्पद्यते । तदेतत् सर्वमभिप्रेत्याह—द्रव्यवृत्तीति । द्रव्यनिष्ठेत्यर्थः । तथा च द्रव्यवृत्तिलौकिक- विषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नचाक्षुषं प्रति चक्षुःसंयोगः कारणम् । यस्य द्रव्यस्य चक्षुषा प्रत्यक्षं करणीयमस्ति, तस्मिन् द्रव्ये चक्षुःसंयोग आवश्यक इत्यर्थः । एवं द्रव्यसमवेतं रूपादिकं, तद्वृत्तिविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति—अर्थात् द्रव्यसमवेतस्य रूपादेः प्रत्यक्षे करणीये चक्षुःसंयुक्तसमवायः