भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 127, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 127

इति ज्ञाने भासमानो घटादिः विषयसंज्ञया व्यवह्रियते । विषयता विषयनिष्ठा भवति । सा च विषयता त्रिविधा भवति । एका प्रकारताख्यविषयता, द्वितीया विशेष्यताख्यविषयता, तृतीया संसर्गताख्या विषयता चेति । यथा अयं घट इति ज्ञाने प्रकारीभूते घटत्वे प्रकारताख्या विषयता विद्यते । विशेष्यीभूते घटे विशेष्य- ताख्या विषयताऽस्ति । एवं घटघटत्वयोः समवायरूपसंसर्गे संसर्गताख्यविषयता विद्यते । तथा च निर्विकल्पके ज्ञाने प्रकारताविरहात् विशेष्यताऽपि नास्ति, तयोरभावे तयोरनुचरी संसर्गताऽपि नास्ति । तथा च निर्विकल्पके ज्ञाने त्रिविध- विषयतामध्ये एकस्या अपि विषयताया अभावात् लक्षणत्रयं भवितुमर्हतीति सर्वं हृदि कृत्वाऽऽह—निर्विकल्पके इति । चतुर्थीति । विलक्षणैव काचिदित्यर्थः । सविकल्पकप्रत्यक्षलक्षणं व्याख्यातुमाह—सविकल्पकमिति । विषयतायाः ज्ञाननिरूपितत्वादिति—यदि ज्ञानं न स्यात् घटादिः कस्य विषयो भवेत्तस्मात् विषयता ज्ञाननिरूपिता भवतीत्याशयः । यदा विषयता ज्ञाननिरूपिता तदा ज्ञानं विषयतानिरूपकमित्याह—ज्ञानस्य विषयतानिरूपकत्वेनेति । अतः प्रकारता- निरूपकज्ञानत्वम् अर्थात् प्रकारताख्यविषयतानिरूपकज्ञानत्वं सविकल्पकस्य लक्षणमिति । अत्र त्रिविधाया अपि विषयतायाः सम्भवात् लक्षणान्तरमपि सम्भवीत्याह— एवमिति । उदाहरणमाह—यथेति । अयं डित्थ इति, अयं ब्राह्मण इति च ज्ञाने इदंपदार्थो विशेष्यः । डित्थत्वं ब्राह्मणत्वञ्च प्रकारौ । तथा च इदन्तवावच्छिन्न- विशेष्यता निरूपित डित्थत्वनिष्ठप्रकारताशालिज्ञानत्वात्, इदन्तवावच्छिन्नविशेष्यता- निरूपितब्राह्मणत्वनिष्ठप्रकारताशालिज्ञानत्वाच्चेमे ज्ञाने सविकल्पके भवतः न्या. बो. चाक्षुषादिषड्विधप्रत्यक्षकारणीभूताः षड्विधसन्निकर्षाः मूले प्रोक्तास्तानेव पृ. ३५. विभागप्रदर्शनपूर्वकं व्याख्यातुमारभते चाक्षुषादीति । ज्ञानं विषयीति पूर्वमुक्तम् । विषये ज्ञानं विषयतासम्बन्धेन तिष्ठति, सम्बन्धमत्ता सम्बन्धिसत्ताया नियामिका भवति यतो यत्र घटसंयोगो वर्तते तत्र संयोगसम्बन्धेन घटोऽपि विद्यत एव । तथा च ज्ञानीया विषयता विषये विद्यतेऽतो ज्ञानमपि विषये विषयतासम्बन्धेन तिष्ठति । चाक्षुषादिकं ज्ञानमपि द्रव्यादौ विषये विषयतासम्बन्धेनोत्पद्यते । तदेतत् सर्वमभिप्रेत्याह—द्रव्यवृत्तीति । द्रव्यनिष्ठेत्यर्थः । तथा च द्रव्यवृत्तिलौकिक- विषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नचाक्षुषं प्रति चक्षुःसंयोगः कारणम् । यस्य द्रव्यस्य चक्षुषा प्रत्यक्षं करणीयमस्ति, तस्मिन् द्रव्ये चक्षुःसंयोग आवश्यक इत्यर्थः । एवं द्रव्यसमवेतं रूपादिकं, तद्वृत्तिविषयतासम्बन्धेन चाक्षुषत्वावच्छिन्नं प्रति—अर्थात् द्रव्यसमवेतस्य रूपादेः प्रत्यक्षे करणीये चक्षुःसंयुक्तसमवायः