तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 134, कुल 199 में से
संदर्भ में पढ़ेंतादृशाभावस्य प्रतियोगी घटः, प्रतियोगिता घटनिष्ठा, तस्या अवच्छेदकं घटत्वम्, अनवच्छेदकं वह्नित्वं धर्मः, तादृशधर्मवत्त्वस्य वह्नौ सत्त्वात् वह्निर्धूमस्य व्यापकः, व्यापकीभूतवह्निसामानधिकरण्यञ्च धूमे व्याप्तिरिति । एतदेव सर्वं स्वयमप्याह टीकाकारः—तथा हीति । एतावता हेतुसमानाधिकरणात्यन्ताभावीयप्रति- योगितानवच्छेदकीभूतसाध्यतावच्छेदकावच्छिन्नसाध्यसामानाधिकरण्यं व्याप्तिरिति लभ्यते । एतस्य समन्वयस्तु स्वयमेवोक्तदिशाऽवसेयः । इयमेव च सिद्धान्त- भूतान्वयव्याप्तिरित्याह—इयमिति । पूर्वपक्षिणां व्याप्तिमाह—साध्याभाववदवृत्तित्वमिति । साध्यो वह्निः, तदभावः वह्न्यभावः, तद्वान् जलहदादिः, तत्र वृत्तित्वं मीनादेः, अवृत्तित्वञ्च धूमस्यास्तीति वह्निनिरूपिता व्याप्तिर्धूमे गच्छतीति समन्वयः । धूमस्य व्याप्तिस्तु वह्नौ न गमिष्यति । तत्र साध्यो धूमः, तदभावो धूमाभावः, तद्वत् अयःपिण्डम्, तत्र वृत्तित्वस्यैव वह्नौ सत्त्वात् इति भावः । अतो धूमवान् वह्नेरिति वह्निना धूमानुमानं न भवितुमर्हति किन्तु धूमेनैव हेतुना वह्नयनुमानं 'वह्निमान् पर्वतः' इत्याकारकं भविष्यतीति । एतस्या एव पूर्वपक्षव्याप्तेः परिष्कृतं स्वरूपमाह—साध्यतेत्यादि । साध्यतावच्छेदकसम्बन्धावच्छिन्ना साध्यतावच्छेदकधर्मावच्छिन्ना च या प्रतियोगिता, तादृशप्रतियोगितानिरूपको यः प्रतियोगितावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिता- च्छेदकधर्मावच्छिन्नवैयधिकरण्यावच्छिन्नोऽभावः, तदधिकरणनिरूपितं यत् हेतुता- वच्छेदकसम्बन्धावच्छिन्नं वृत्तित्वं, तादृशवृत्तित्वनिष्ठं यत् वृत्तित्वत्वं, तदवच्छिन्ना या वृत्तित्वनिष्ठा प्रतियोगिता, तादृशप्रतियोगितानिरूपकोऽभावो व्याप्तिरिति समस्तवाक्यस्य विग्रहः । अयं भावः—साध्यताप्रतियोगिताहेतुतादीनां समेषामेव लक्ष्यतावत् किमप्य- वच्छेदकं भवति । तच्च सम्बन्धधर्मभेदेन द्विविधं भवति । यत्र यदुपयोगि प्रतीयते ग्रन्थकारेण तत्र तदुपादीयते । यत्र द्वयमप्युपयोगि तत्र द्वयमप्युपादीयते । एवं येन सम्बन्धेन साध्यं पक्षे साध्यते, स सम्बन्धः साध्यतावच्छेदकः । यथा पर्वतो वह्निमानित्यत्र पर्वते पक्षे वह्निरूपं साध्यं संयोगेन सम्बन्धेन साध्यते, तस्मात् वह्निनिष्ठसाध्यतावच्छेदकसम्बन्धः संयोगः । यथा हृदादौ संयोगेन वह्नेरभावो गृह्यते तस्मात् वह्न्यभावीयवह्निनिष्ठप्रतियोगितायाः अवच्छेदकः सम्बन्धः संयोगः । येन सम्बन्धेन हेतुः पक्षे तिष्ठति स हेतुतावच्छेदकसम्बन्धः । यथा पर्वतो वह्नि- मान् धूमादित्यत्र धूमः पर्वते संयोगेन वर्ततेऽतो धूमनिष्ठहेतुताया अवच्छेदकसम्बन्धः संयोग एव । साध्यतादीनामवच्छेदको धर्मः वह्नित्वादिकर्मिति तु लक्ष्यतावच्छेदक- पृथिवीत्ववद् बोध्यम् । एतैरवच्छेदकीभूतैः सम्बन्धैर्धर्मैश्च साध्यतादयो अवच्छिन्ना