तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
४. कर्म, सामान्य, विशेष, समवाय, अभाव एवं ग्रन्थ उपसंहार
श्रीगणेशाय नमः तर्कसंग्रहः हिन्दीव्याख्योपेत-पदकृत्य-सहितः प्रत्यक्षपरिच्छेदः ৲—❖—৴ निधाय हृदि विश्वेशं विधाय गुरुवन्दनम् । बालानां सुखबोधाय क्रियते तर्कसंग्रहः ॥ पदकृत्यम् श्रीगणेशं नमस्कृत्य पार्वतीशङ्करं परम् । मया चन्द्रजसिंहेन क्रियते पदकृत्यकम् ॥ १ ॥ यस्मादिदमहं मन्ये बालानामुपकारकम् । तस्माद्धितकरं वाक्यं वक्तव्यं विदुषा सदा ॥ २ ॥ विश्वेशं जगत्कर्तारं श्रीसाम्बमूर्तिं हृदि मनसि निधाय नितरां धार- यित्वा, गुरुवन्दनं च विधाय कृत्वेत्यर्थः । बालेति । 'अत्राधीतव्याकरण- काव्यकोशोऽनधीतन्यायशास्त्रो बालः । व्यासादावतिव्याप्तिवारणायाऽन- धीतन्यायेति । स्तनन्धयेऽतिप्रसक्तिवारणायाऽधीतव्याकरणेति । सुखेति । हिन्दी भवं भवानीं वाग्देवीं न्यायाचार्यांश्च भूरिशः । प्रणम्य पदकृत्यस्य टिप्पणीं भाषयाऽऽरभे ॥ १. मङ्गलश्लोकमें बालशब्दसे वयकी दृष्टिसे बालक अर्थ अभिप्रेत नहीं है, किन्तु जिसने व्याकरण काव्य और कोशका अध्ययन किया है तथा न्याय-शास्त्रका अध्ययन नहीं किया है, वही यहाँ बाल है । व्याकरणादिके ज्ञाता व्यास आदिमें इस बाल- लक्षणकी अतिव्याप्ति न हो जाय, इसलिए 'अनधीतन्याय" यह पद दिया गया । माताका स्तनपान करनेवाले शिशुमें इस लक्षणकी अतिव्याप्ति न हो, इसके लिए "अधीतव्याकरण" इत्यादि पद दिये गये ।
१४० तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः पदार्थाः कति कानि च तेषां नामानि?— द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः । द्रव्याणि कति, कानि च तानि ?— तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवैव । पदकृत्यम् ᴬसुखेनानायासेन बोधाय पदार्थतत्त्वज्ञानायेत्यर्थः । तर्क्यन्ते प्रमितिविषयी- क्रियन्ते इति तर्का द्रव्यादिपदार्थास्तेषां सङ्ग्रहः सङ्क्षेपेणोद्देशलक्षणपरीक्षा यस्मिन् स ग्रन्थः । नाममात्रेण वस्तुसंकीर्तनमुद्देशः, यथा द्रव्यं गुण इति । असाधारणधर्मो लक्षणम्, यथा गन्धवत्त्वं पृथिव्याः । लक्षितस्य लक्षणं सम्भवति न वेति विचारः परीक्षा । अत्रोद्देशस्य पक्षज्ञानं फलं, लक्षणस्ये- तरभेदज्ञानं, परीक्षाया लक्षणे दोषपरिहार इति मन्तव्यम् । १. तत्रेति । तत्र सप्तपदार्थमध्ये इत्यर्थः । द्रव्याणि नवैवेत्यन्वयः । एवं तत्रेति पदं चतुर्विंशतिर्गुणा इत्यादिनाऽप्यन्वेति । ᴮद्रव्यत्वजातिमत्त्वं, गुण- वत्त्व, समवायिकारणत्वं वा द्रव्यसामान्यलक्षणम् । हिन्दी A. “सुखबोधाय” का अर्थ है—बिना श्रमके द्रव्यादि-पदार्थोंका तत्त्वज्ञान करानेके लिये । प्रमाणके द्वारा अवगत किये जानेवाले द्रव्य आदि पदार्थ ही यहाँ “तर्क” हैं, उनका संग्रह अर्थात् संक्षेपसे उद्देश, लक्षण और परीक्षा होनेसे इस ग्रन्थका नाम तर्कसंग्रह है । केवल नाम द्वारा वस्तुके उल्लेखको उद्देश कहते हैं, जैसे-द्रव्य गुण कर्म इत्यादि । वस्तुमें रहनेवाले असाधारण धर्मको लक्षण कहते हैं, जैसे—केवल पृथिवीमें रहने वाला गन्धवत्त्वधर्म पृथिवीका असाधारण ( निज ) धर्म होनेसे पृथिवीका लक्षण है । पृथिवी आदि लक्षित पदार्थका गन्धवत्त्व आदि लक्षण हो सकता है या नहीं—इस प्रकारके विचारको परीक्षा कहते हैं । पदार्थोंके उद्देश अर्थात् नामनिर्देशका फल है— पक्षका ज्ञान होना । पक्षमें इतरभेदका ज्ञान कराना लक्षणका फल है । जैसे— गन्धवत्त्व-लक्षणसे पृथिवीमें जलादिसे भेदका ज्ञान हो सकता है । लक्षणमें दोषका निवारण करा देना परीक्षाका फल है । १. तत्र अर्थात् सात पदार्थोंके अन्तर्गत पृथिवी जल, तेज, वायु, आकाश, काल, दिशा आत्मा और मन ये नव ही द्रव्य हैं । इस प्रकार तत्रपदका सम्बन्ध आगे भी “चतुर्विंशतिर्गुणाः “पञ्च कर्माणि” इत्यादिके साथ है । अर्थात् उक्त सात पदार्थोंमें गुण रूप रस आदि चौबीस हैं, कर्म उत्क्षेपण आदि पाँच हैं, इत्यादि ।
सहिन्दीपदकृत्यसहितः १४१ कतिः गुणाः के च ते ? - रूपरसगन्धस्पर्शसङ्ख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वाप- रत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्का - राश्चतुर्विंशतिगुणाः । कियन्ति कर्माणि कानि च तानि ?— उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि पञ्च कर्माणि । सामान्यं कतिविधं ?— परम्परं चेति द्विविधं सामान्यम् । पदकृत्यम् परम्परं चेति । परसामान्यपरसामान्यमित्यर्थः । १परत्वं चाधिकदेश- वृत्तित्वम् । अपरत्वं न्यूनदेशवृत्तित्वम् । २. तदेव हि लक्षणं यदव्याप्त्यतिव्याप्त्यसम्भावरूपदोषत्रयशन्यम्, यथा गोः सास्नादिमत्त्वम् । अव्याप्तिश्च लक्ष्यैकदेशावृत्तित्वम्, अत एव गोर्न कपिलत्वं लक्षणं, तस्याव्याप्तिग्रस्तत्वात् ! अतिव्याप्तिश्च लक्ष्यवृत्तित्वे सत्यलक्ष्यवृत्तित्वम्, अत एव गोर्ण श्रृङ्गित्त्वं लक्षणं तस्यातिव्याप्तिग्रस्तत्वात् । हिन्दी B. द्रव्यत्वजातिसे युक्त होना, गुणवान् होना या कार्यके प्रति समवायिकारण होना ये द्रव्यके सामान्य लक्षण हैं । परसामान्य और अपरसामान्य ये दो प्रकारके सामान्य होते हैं । १. जो सामान्य किसीकी अपेक्षा अधिक देशमें रहे वह परसामान्य है और जो किसीकी अपेक्षा न्यून देशमें रहे वह अपरसामान्य है । जैसे—पृथिवीत्वादि की अपेक्षा द्रव्यत्व परसामान्य है तथा द्रव्यत्वकी अपेक्षा पृथिवीत्व आदि अपरसामान्य है । २. लक्षण वही होता है, जो अव्याप्ति, अतिव्याप्ति और असंभव रूप तीनों दोषोंसे रहित हो । जैसे गोका “सास्नावत्त्व” लक्षण है । लक्षणका लक्ष्यके किसी भागमें न रहना अव्याप्ति है । इसीलिये कपिलत्व गोका लक्षण नहीं है, क्योंकि श्वेत गोमें नहीं रहनेसे वह अव्याप्तिदोषसे ग्रस्त है । लक्ष्यमें रहते हुए अलक्ष्यमें भी रहना अतिव्याप्ति है । इसीलिये श्रृङ्गत्व गोका लक्षण नहीं है, क्योंकि महिषमें भी रहनेके कारण श्रृङ्गत्वलक्षण अतिव्याप्तिदोषसे ग्रस्त है । लक्ष्यमात्रमें न रहना असंभवदोष है । जैसे गोका एकशफवत्त्व ( एक खुर होना ) लक्षण नहीं है, क्योंकि किसी भी गोमें एक खुर नहीं होनेसे वह लक्षण असंभवदोषग्रस्त है ।
१४२ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः कियन्तो विशेषाः ? — नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव । समवायः कतिविधः ? — समवायस्त्वेक एव । अभावः कतिविधः ? — अभावश्चतुर्विधः — प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्यो- न्याभावश्चेति । पृथिव्याः किं लक्षणं, कति च भेदाः ? — तत्र गन्धवती पृथिवी । सा द्विविधा नित्याऽनित्या च । नित्या — परमाणुरूपा । अनित्या — कार्यरूपा । पुनस्त्रिविधा — शरीरे- न्द्रियविषयभेदात् । शरीरमस्मदादीनाम् । इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति । विषयो मृतपाषाणादिः । पदकृत्यम् असम्भवश्च लक्ष्यमात्रावृत्तित्वम् । यथा-गोरेकशफवत्त्वं न लक्षणं तस्या- सम्भवग्रस्तत्वात् । नित्येति । १ध्वंसभिन्नत्वे सति ध्वंसाप्रतियोगित्वं नित्य- त्वम् । ध्वंसेऽतिव्याप्तिवारणाय ध्वंसभिन्नेति विशेषणम् । घटादावति- व्याप्तिवारणाय विशेष्यदलम् । ध्वंसप्रतियोगित्वं प्रागभावप्रतियोगित्वं वाऽनित्यत्वम् । शरीरेति । यद्भोगायतनं तदेव शरीरं चेष्टाश्रयो वा । इन्द्रियमिति । चक्षुरादावतिव्याप्तिवारणाय गन्धग्राहकमिति । कालादावति- हिन्दी १. जो ध्वंससे भिन्न हो और ध्वंसका अप्रतियोगी हो, उसे नित्य कहते हैं । ध्वंसका अप्रतियोगी ध्वंस भी है, क्योंकि ध्वंसका ध्वंस नहीं होता है । अतः ध्वंसमे नित्यका लक्षण न चला जाय, इसलिये “ध्वंसभिन्न" यह विशेषण दिया । ध्वंससे भिन्न घटादिमें नित्यलक्षणकी अतिव्याप्तिके निवारणके लिये “ध्वंसाप्रतियोगित्व" यह विशेष्यदल दिया । क्योंकि घट तो ध्वंसका प्रतियोगी होता है । जिसका अभाव होता है, उसे प्रतियोगी कहते हैं । ध्वंस या प्रागभावका जो प्रतियोगी हो, वह अनित्य है । शरीरेति । जो सुखदुःखादिभोगका आधार हो अथवा जिसमें चेष्टा हो, वही शरीर है । इन्द्रियमिति । चक्षु आदिमें घ्राणलक्षणके अतिव्याप्तिवारणके लिये 'गन्धग्राहकम्' यह विशेषण दिया । जन्यमात्रका जनक होनेसे काल भी गन्धग्रहणका कारण है, अतः काल आदिमें घ्राणलक्षणके अतिव्याप्तिवारणके लिये 'इन्द्रियम्' यह कहा ।
सहिन्दीपदकृत्यसहितः १४३ जलस्य किं लक्षणं, कति च भेदाः ?— शीतस्पर्शवत्य आपः । ता द्विविधाः नित्या अनित्याश्च । नित्याः—परमाणुरूपाः । अनित्याः—कार्यरूपाः । पुनस्त्रिविधाः— शरीरेन्द्रियविषयभेदात् । शरीरं वरुणलोके । इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति । विषयः सरित्समुद्रादिः । तेजसः किं लक्षणं, कति च भेदाः ? — उष्णस्पर्शवत्तेजः । तच्च द्विविधम्—नित्यमनित्यं च । नित्यं परमाणुरूपम् । अनित्यं कार्यरूपम् । पुनस्त्रिविधं—शरीरेन्द्रिय- पदकृत्यम् प्रसक्तिवारणायेन्द्रियमिति । विषय इति । १ शरीरेन्द्रियभिन्नत्वे सत्युपभोग- साधनं विषयः । शरीरादावतिव्याप्तिनिरासाय सत्यन्तम् । परमाण्वा- दावतिव्याप्तिवारणाय विशेष्यदलम् । कालादिवारणाय जन्यत्वे सतीत्यपि बोध्यम् । २. शीतेति । तेजआदावतिव्याप्तिवारणाय शीतेति । आकाङ्क्षावार- णाय स्पर्शेति । कालादावतिप्रसक्तिवारणाय समवायसम्बन्धेनेति पदं देयम् । इन्द्रियमिति । त्वगादावतिव्याप्तिवारणाय रसग्राहकमिति । रसनेन्द्रियरस- सन्निकर्षादावतिव्याप्तिनिरासायेन्द्रियमिति । सरिदिति । आदिना तडा- गहिमकरकादीनां सङ्ग्रहः । उष्णेति । जलादावतिव्याप्तिनिरासायोष्णेति । कालादावतिप्रसङ्ग- वारणाय समवायसम्बन्धेनेति पदं प्रत्येकमभिसम्बध्यते । भौममिति । हिन्दी १. जो शरीर इन्द्रियसे भिन्न हो और उपभोगका साधन हो वह विषय है। उपभोगका साधन शरीरादि भी है, अतः उसमें विषयलक्षणके अतिव्याप्तिनिवारणके लिये ‘शरीरेन्द्रियभिन्नत्वे सति’ यह विशेषण दिया । शरीरेन्द्रियसे भिन्न परमाणु आदिमें अतिव्याप्तिवारणके लिये ‘उपभोगसाधनम्’ यह विशेष्यदल दिया। अतीन्द्रिय परमाणुका उपभोग नही होता है। काल भी शरीर इन्द्रियसे भिन्न होता हुआ उपभोगके प्रति कारण है, अतः उसमें विषयत्वका वारण करनेके लिये ‘जन्यत्वे सति’ यह भी विशेषण जोड़ देना चाहिये । काल तो नित्य है, जन्य नहीं । २. तेज आदिमें अतिव्याप्तिवारणके लिये ‘शीत’ विशेषण दिया । आकाश भी शीतद्रव्यका आश्रय है, अतः आकाशमें अतिव्याप्तिवारणके लिये स्पर्शपद दिया । कालिकसम्बन्धसे काल भी शीतस्पर्शका आश्रय है, अतः कालमें अतिव्याप्तिवारणके लिये समवायसम्बन्धका निवेश करना चाहिये ।
१४४ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः विषयभेदात् । शरीरमादित्यलोके प्रसिद्धम् । इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति । विषयश्चतुर्विधो-भौमदिव्योदर्या- करजभेदात् । भौमं वह्न्यादिकम् । अबिन्धनं दिव्यं विद्युदादि । भुक्तस्य परिणामहेतुरुदर्यम् । आकरजं सुवर्णादि । वायोः किं लक्षणं, कति च भेदा ?— रूपरहितस्पर्शवान्वायुः । स द्विविधः-नित्योऽनित्यश्च । नित्यः परमाणुरूपः । अनित्यः कार्यरूपः । पुनस्त्रिविधः—शरीरेन्द्रिय- विषयभेदात् । शरीरं वायुलोके । इन्द्रियं स्पर्शग्राहकं त्वक् सर्व- शरीरवर्ति । विषयो वृक्षादिकम्पनहेतुः । शरीरान्तःसञ्चारी वायुः प्राणः । स चैकोऽप्युपाधिभेदात्प्राणापानादिसंज्ञां लभते ॥ आकाशस्य किं लक्षणं, कतिविधं च तत् ? -- शब्दगुणकमाकाशम् । तच्चैकं विभु नित्यं च ॥ पदकृत्यम् भुक्तेति । भुक्तस्यान्नादेः पीतस्य जलस्य परिणामो जीर्णता तस्य हेतुरुदर्य- मित्यर्थः । सुवर्णेति । आदिना रजतादिपरिग्रहः । रूपेति । घटादिवारणाय विशेषणम् । आकाशादिवारणाय विशेष्यम् । इन्द्रियमिति । चक्षुरादिवारणाय स्पर्शग्राहकमिति । कालादावतिव्याप्ति- वारणायेन्द्रियमिति । वृक्षेति । आदिपदेन जलादिपरिग्रहः । शरीरान्तरिति । १महावाय्वादावतिव्याप्तिवारणाय विशेषणम् । मनआदिवारणाय विशेष्यम् । धनञ्जयवारणाय सञ्चारीति । उपाधीति । मुखनासिकाभ्यां निर्गमनप्रवेश- नात्प्राणः, जलादेरधोनयनादपानः, भुक्तपरिणामाय जाठरानलस्य समुन्नय- नात्समानः, अन्नादेरूर्ध्वनयनादुदानः, नाडीमुखेषु वितननाद् व्यानः इति क्रियारूपोपाधिभेदातथा व्यवह्रियत इत्यर्थः । शब्देति । २शब्दो गुणो यस्य तत्तथा । असम्भववारणाय शब्दगुणोभयम् । हिन्दी १. बाहर सञ्चरण करनेवाले महावायुमें प्राण लक्षणकी अतिव्याप्ति हो जायगी । अतः उसका वारण करनेके लिये "शरीरान्तः" पद दिया । शरीरके भीतर मन भी सञ्चरण करता है, अतः उसका वारण करनेके लिये वायुपद दिया । शरीरके भीतर रहनेवाले धनञ्जयवायुमें प्राणलक्षणकी अतिव्याप्ति न हो इसके लिये सञ्चारीपद दिया । २. 'शब्दगुणकम्' यहाँ "शब्द है गुण जिसका" ऐसा बहुब्रीहि समास है । असम्भव- दोषका वारण करनेके लिये शब्द और गुण दोनों पद दिये । अर्थात् यदि 'शब्दवत्त्वम्'
सहिन्दीपदकृत्यसहितः १४५ कालस्य किं लक्षणं, कति च-भेदाः ?— अतीतादिव्यवहारहेतुः कालः । स चैको विभुर्नित्यश्च । दिशः किं लक्षणं, कतिविधा च सा ?-- प्राच्यादिव्यवहारहेतुर्दिक् । सा चैका नित्या विभ्वी च । आत्मनः किं लक्षणं, कतिविधश्च सः ? - ज्ञानाधिकरणमात्मा । स द्विविधः-जीवात्मा परमात्मा चेति । पदकृत्यम् विभ्विति । सर्वमूर्तद्रव्यसंयोगीत्यर्थः । अतीतेति । अतीत इत्यादिर्यो व्यवहारोऽतीतो भविष्यन्वर्तमान इत्या- द्यात्मकस्तस्यासाधारणहेतुः काल इत्यर्थः । १नन्विदं लक्षणमाकाशेऽतिव्याप्तं व्यवहारस्य शब्दात्मकत्वादिति चेत्, न, अत्र हेतुपदेन निमित्तहेतोर्विवक्षि- तत्त्वात् । न चैवं कण्ठताल्वाद्यभिघातेऽतिव्याप्तिरिति वाच्यम् । विभुत्व- स्यापि निवेशात् । प्राचीति । इयं प्राचीयमर्वाचीयं प्रतीचीयमुदीचीत्यादिव्यवहारासाधारणं कारणं दिगित्यर्थः । हेतुर्दिगित्युच्यमाने परमाण्वादावतिव्याप्तिः स्यात्तद्वार- णाय प्राच्यादिव्यवहारहेतुरिति । २आकाशादिवारणायासाधारणेति । ज्ञानाधिकरणेति । भूतलादिवारणाय ज्ञानेति । कालादिवारणाय सम- वायेनेत्यपि देयम् । ईश्वर इति । समवायसम्बन्धेन नित्यज्ञानवानीश्वरः । जीव इति । सुखादिसमवायिकारणं जीव इत्यर्थः । हिन्दी आकाशका लक्षण किया जाय तो आकाशमें शब्दका नित्य योग नहीं होनेसे असम्भव हो जायगा । इसलिए शब्दका समवायमात्र सूचित करनेके लिए गुणपद दिया । यदि केवल गुणवत्त्वको आकाशका लक्षण माना जाय तो भी असम्भवदोष हो जायगा । क्योंकि शब्दातिरिक्त आकाशमें कोई भी ऐसा गुण प्रतीयमान नहीं है जो आकाशको लक्षित कर सके । १. “काललक्षणकी अतिव्याप्ति आकाशमें हो जायगी, क्योंकि अतीतादिव्यवहार शब्दरूप है और शब्दका हेतु आकाश होता है" ऐसा नहीं कह सकते । क्योंकि यहाँ हेतुपदसे निमित्तकारण विवक्षित है, आकाश तो शब्दका समवायिकारण होता है । यहाँ यह आशङ्का नहीं कर सकते हैं कि कण्ठताल्वादिका अभिघात शब्दरूप व्यवहारका निमित्तकारण है, अतः उसमें काललक्षणकी अतिव्याप्ति हो जायगी । क्योंकि कालके उक्त लक्षणमें विभुत्वका भी सन्निवेश कर देनेसे कण्ठताल्वाद्यभिघातमें अतिव्याप्ति नहीं होगी । २. आकाशादि साधारणकारणमें दिक्लक्षणकी अतिव्याप्तिवारणके लिए असाधारणकारणका निवेश किया गया । १०
१४६ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः तत्रेश्वरः सर्वज्ञः परमात्मा एक एव । जीवस्तु प्रतिशरीरं भिन्नो विभुनित्यश्च । मनसः किं लक्षणं, कतिविधं च च तत् ?— सुखाद्युपलब्धिसाधनमिन्द्रियं मनः । तच्च प्रत्यात्मनियतत्वा- दनन्तं परमाणुरूपं नित्यं च । रूपस्य किं लक्षणं, कतिविधं च तत् ?— चक्षुर्मात्रग्राह्यो गुणो रूपम् । तच्च शुक्लनीलपीतरक्तहरित- पदकृत्यम् सुखेति । आत्ममनःसंयोगादिवारणायेन्द्रियमिति । चक्षुरादिवारणाय सुखेति । चक्षुरिति । १रूपत्वादिवारणाय गुणपदम् । रसादिवारणाय चक्षुर्ग्राह्य इति । २संख्यादिवारणाय मात्रपदम् । यद्यपि प्रभाभित्तिसंयोगवारणाय गुणपदेन विशेषगुणस्य विवक्षणीयतया तत एव संख्यादिवारणं संभवतीति मात्रपदं व्यर्थम् । तथापि सांसिद्धिकद्रवत्ववारणाय तदावश्यकम् । वस्तुतस्तु परमाणुरूपेऽव्याप्तिवारणाय चक्षुर्मात्रग्राह्यजातिमत्त्वस्य विवक्षणीयतया विशेषपदं न देयम् । त्र्यणुकादिवारणाय गुणपदं तु देयम् । सप्तेति । रूपमित्यनुषज्यते । हिन्दी १. जो पदार्थ जिस इन्द्रियसे ग्राह्य है, उसमें रहनेवाली जाति भी उसी इन्द्रियसे ग्राह्य होती है—इस नियमके अनुसार रूपमें रहनेवाली रूपत्वजाति भी चक्षुर्मात्र- ग्राह्य है। अतः रूपत्वमें रूपलक्षणकी अतिव्याप्ति न हो, इसके लिए गुणपद दिया गया । २. एकत्वादि संख्या भी चक्षुद्वारा ग्राह्य गुण है, अतः उसमें रूपलक्षणकी अतिव्याप्ति न हो, एतदर्थ मात्रपद दिया गया । अर्थात् संख्या चक्षुर्मात्र ग्राह्य नहीं है क्योंकि त्वगिन्द्रिय द्वारा भी संख्याका ग्रहण होता है । अतः मात्रपद देनेसे लक्षणकी अतिव्याप्ति नहीं हुई । यद्यपि प्रभा और भित्तिका संयोग भी चक्षुर्मात्र ग्राह्य गुण है, अतः उसमें अतिव्याप्ति वारणके लिए गुणपदमे विशेषगुण विवक्षित करना होगा । ऐसी स्थितिमें उसीसे संख्यादिका भी वारण सुतरां हो जायगा । अतः मात्रपद देना व्यर्थ है । तथापि सांसिद्धिकद्रवत्वरूपविशेषगुणका वारण करनेके लिए मात्रपद देना आवश्यक है । वस्तुतः तो परमाणुरूपमें अव्याप्तिवारणके लिए चक्षुर्मात्रग्राह्यजाति (रूपत्व) मत्व विवक्षित करना होगा । ऐसी स्थितिमें प्रभाभित्तिके संयोगमें उक्तजाति (रूपत्व) मत्व नहीं होनेसे सुतरां अतिव्याप्ति नहीं होगी । अतः गुणमें विशेषपद देना तो
सहिन्दीपदकृत्यसहितः १४७ कपिशचित्रभेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि । रसस्य किं लक्षणं, कतिविधश्च सः ? — रसनाग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्त- भेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव । गन्धस्य किं लक्षणं, कति च भेदाः ? — घ्राणग्राह्यो गुणो गन्धः । स द्विविधः—सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः । पदकृत्यम् रसनेति । रसत्वादिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय रसनेति । तत्रेति । पृथिवीजलयोरित्यर्थः । षड्विध इति । अत्र रस इत्यनुवर्तते । घ्राणग्राह्य इति । गन्धत्वादावतिव्याप्तिवारणाय गुण इति । रूपादावति- व्याप्तिवारणाय घ्राणग्राह्य इति । पृथिवीति । १पृथिवीसम्बन्धसत्त्वे गन्ध- प्रतीतिसत्त्वं पृथिवीसम्बन्धाभावे गन्धप्रतीत्यभाव इत्यन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या । एवं वायावपि । ननु देशान्तरस्थ- कस्तूरीकुसुमसम्बद्धपवनस्यैतद्देशे सत्त्वात्कुसुमादिसम्बन्धाभावाद्गन्धप्रतीत्य- नुपपत्तिः । न च वायुआनीतत्र्यणुकादिसम्बन्धोऽस्त्येवेति वाच्यम्, कस्तूर्या न्यूनतापत्तेः, कुसुमस्य च सच्छिद्रत्वापत्तेरिति चेन्न, भोक्तृदृष्टविशेषेण पूर्ववत् त्र्यणुकान्तराद्युत्पत्तेः, कर्पूरादौ तु तदभावान्न तथात्वमिति । हिन्दी अनावश्यक है । किन्तु चक्षुर्मात्रग्राह्यजातित्व त्र्यणुकमें भी है, अतः उसमें रूपलक्षण- का अतिप्रसङ्गवारणके लिये गुणपदका देना तो आवश्यक है । १. पृथिवीका सम्बन्ध रहनेपर गन्धकी प्रतीति होती है, पृथिवीसम्बन्धका अभाव होनेपर गन्धकी प्रतीति नहीं होती है—इस अन्वय-व्यतिरेकनियमसे जलमें प्रतीत होनेवाली गन्ध पृथिवीकी ही है, ऐसा जानना चाहिये । यद्यपि—देशान्तर में स्थित कस्तूरी या कुसुमसे सम्बद्ध वायुके कारण होनेवाली गन्धप्रतीति नहीं होनी चाहिये, क्योंकि कुसुमादिका सम्बन्ध गन्धप्रतीतिस्थानमें नहीं है। यदि कहे कि वायुद्वारा लाये कुसुमके त्र्यणुकका सम्बन्ध वहाँ भी है, तो ऐसा नहीं कह सकते, क्योंकि त्र्यणुकके निकल जानेपर कस्तूरीमें न्यूनता आ जानी चाहिये तथा कुसुममें छिद्र हो
१४८ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः स्पर्शस्य किं लक्षणं, के च भेदाः ? — त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः-शीतोष्णा- नुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि अनुष्णाशीतः पृथिवीवाय्वोः । रूपादिचतुष्टयं कुत्र पाकजमपाकजं वा कुत्र ? — रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । सङ्ख्याया किं लक्षणम्, कुत्र च सा वर्तते ? — एकत्वादिव्यवहारहेतुः संख्या । सा नवद्रव्यवृत्तिः । एकत्वा- दिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं मित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव । परिमाणस्य किं लक्षणं, के च तस्य भेदाः ?— मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति । पदकृत्यम् स्पर्शत्यादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय त्वगिन्द्रियेति । सङ्ख्यादिवारणाय मात्रपदम् । तत्रेति । पृथिव्यादिचतुष्टये । शीत इति शीतस्पर्शः । उष्ण इति उष्णस्पर्शः । एकत्वादीति । एकत्वमित्यादिर्यो व्यवहारः एको द्वावित्याद्यात्मकस्तस्य हेतुः संख्या इत्यर्थः । घटादिवारणाय एकत्वादीति । कालादिवारणाया- साधारणेत्यपि देयम् । ननु संख्याया अवधिरस्ति न वेत्यत आह-एकत्वा- दीति । तथाच—एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुदमेव च ॥ वृन्दः खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः । अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम् ॥ इति महदुक्तेः परार्धपर्यन्तैव संख्या इति भावः । मानेति । मानं परिमितिस्तस्या यो व्यवहारः-इदं महदिदमणु-इत्याद्या- त्मकः तस्य कारणं परिमाणमित्यर्थः । दण्डादिवारणाय मानेति । कालादि- हिन्दी जाना चाहिये—ऐसी आशङ्का हो सकती है, तथापि भोक्ताके अदृष्टविशेषसे कस्तूरी- आदिमें त्र्यणु कान्तरकी उत्पत्ति हो जानेसे न्यूनता या सच्छिद्रता नहीं आने पाती है । कपूर आदिमें तो वैसे अदृष्टका अभाव होनेसे त्र्यणुकान्तरकी उत्पत्ति नहीं होती है और उसमें न्यूनता आ जाती है ।
सहिन्दीपदकृत्यसहितः १४९ तच्चतुर्विधम्-अणु महद्दीर्घं ह्रस्वं चेति । पृथक्त्वस्य किं लक्षणम् ? - पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति । संयोगस्य किं लक्षणम् ? - संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः । विभागस्य किं लक्षणम् ? - संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः । पदकृत्यम् वारणायासाधारणेति । शब्दत्ववारणाय कारणमिति । नवद्रव्येति । १चतुर्विधमपि परमध्यभेदेन द्विविधम् । तत्र परमाणुह्रस्वत्वे परमाणुमनसोः । मध्यमाणुह्रस्वत्वे द्वयणके । परममहत्त्वदीर्घत्वे गगनादौ । मध्यममहत्त्व- दीर्घत्वे घटादौ । एतन्मौक्तिकमण्विति व्यवहारस्यावकृष्टमहत्त्वाश्रयत्वाद् गौणत्वं बोध्यम् । एवमेव केतनाद्गवजनं ह्रस्वमित्यत्रापि निकृष्टदीर्घत्वाद् गौणत्वम् । पृथगिति । अयमस्मात्पृथगिति यो व्यवहारस्तस्य कारणं पृथक्त्व- मित्यर्थः । दण्डादिवारणाय पृथगित्यादि । कालादिवारणायासाधारणेति । २पृथग्व्यवहारत्ववारणाय कारणमिति । संयुक्तेति । इमौ संयुक्ताविति यो व्यवहारस्तस्य हेतुः संयोग इत्यर्थः । दण्डादिवारणाय संयुक्तव्यवहारेति । कालादिवारणायासाधारणेत्यपि देयम् । संयुक्तव्यवहारत्वेऽतिप्रसक्तिवारणाय हेतुरिति । उपदर्शितलक्षण- चतुष्टयेऽसाधारणपदं देयम् । क्वचित्पुस्तके परिमाणपृथक्त्वलक्षणे ईश्वरे- च्छादिवारणायासाधारणेति दृश्यते, तत्तवाधुनिकैर्न्यस्तमिति बोध्यम् । संयोगेति । संयोगनाशजनक इत्यर्थः । कालेऽतिप्रसक्तिवारणाय गुण- पदम् । ईश्वरेच्छादिवारणायासाधारणेत्यपि बोध्यम् । ननु ३असाधारणपदो- पादाने गुणपदस्य वैयर्थ्यं स्यादिति चेत्, क्रियायामतिप्रसक्तिवारणाय तस्याप्यावश्यकत्वात् । हिन्दी १. परम अणुत्व, मध्यम अणुत्व, परममहत्त्व, मध्यममहत्त्व, परमदीर्घत्व, मध्यम- दीर्घत्व परमह्रस्वत्व, मध्यमह्रस्वत्व इस प्रकार परिमाणके आठ भेद हो जाते हैं । २. कारणपद न देनेपर पृथग्व्यवहारका असाधारणधर्म जो पृथग्व्यवहारत्व है, उसमें अतिप्रसङ्ग हो जायगा । ३. असाधारणपद देनेसे ही कालमें अतिव्याप्तिका निवारण हो जायगा, अतः गुणपद व्यर्थ है—ऐसा नहीं कहा जा सकता, क्योंकि संयोगनाशका असाधारणकारण क्रिया भी है, अतः उसमें अतिव्याप्तिवारणके लिये 'गुण' पद भी आवश्यक है ।
१५० तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः परत्वापरत्वयोः किं लक्षणं, के च भेदाः ?— परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादि- चतुष्टयमनोवृत्तिनी । ते च द्विविधे-दिक्कृते कालकृते चेति । दूरस्थे दिक्कृतं परत्वं, कनिष्ठे कालकृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतमपरत्वम् । गुरुत्वस्य किं लक्षणम् ?— आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति । द्रवत्वस्य किं लक्षणं, के च भेदाः ?— आद्यस्यन्दनासमवायिकारणं द्रवत्वम् पृथिव्यप्तेजोवृत्ति । तद्द्विविधम्-सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वं, तेजसि सुवर्णादौ । स्नेहस्य किं लक्षणम्, कुत्र च स. ?— चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः । पदकृत्यम् परेति । परव्यवहारासाधारणं कारणं परत्वम् । अपरव्यवहारासाधारणं कारणमपरत्वमित्यर्थः । दण्डादिवारणाय परव्यवहारेति । कालादिवारणा- यासाधारणेति । परव्यवहारत्ववारणाय कारणेति । एवमेव द्वितीयेऽपि बोध्यम् । आद्येति । दण्डादिवारणायासमवायीति । १रूपादिवारणाय पतनेति । २वेगेऽतिव्याप्तिवारणायाद्येति । आद्यस्यन्दनेति । दण्डादिवारणायासमवायीति । रसादिवारणाय स्यन्दनेति । चूर्णादीति । चूर्ण = पिष्टं, तदेवादिर्यस्य मृत्तिकादेः, स चूर्णादिस्तस्य पिण्डीभावः संयोगविशेषस्तस्य हेतुर्निमित्तकारणं स्नेह इत्यर्थः । कालादाव- तिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति । चूर्णपदं स्पष्टार्थम् । हिन्दी १. अवयविगत आद्य रूपादिको असमवायिकारण अवयवगतरूपादि भी होता है, अतः रूपादिमें गुरुत्वलक्षणके अतिव्याप्तिवारणके लिये पतनपद दिया । २. द्वितीयादिपतनका कारण वेग होता है, अतः उसमें अतिव्याप्तिवारणार्थ आद्यपद दिया ।
सहिन्दीपदकृत्यसहितः १५१ शब्दस्य किं लक्षणं, कतिधा च सः ?— श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः- ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः । बुद्धेः किं लक्षणं, कतिधा च सा ?— सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा—स्मृतिरनुभवश्च । स्मृतेः किं लक्षणम् ? संस्कारमात्रजन्यं ज्ञानं स्मृतिः । पदकृत्यम् श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुण इति । रूपादिवारणाय श्रोत्रग्राह्य इति । १वस्तुतस्तु श्रोत्रोत्पन्नशब्दस्यैव श्रोत्रग्राह्यत्वेन तद्भिन्नेऽव्याप्तिवारणाय श्रोत्रग्राह्यजातिमत्त्वे तात्पर्याद् गुणपदमनुपादेयमेव । बुद्धिलक्षणमाह—सर्वेति । सर्वे ये व्यवहारा आहारविहारादयस्तेषां हेतुर्बुद्धिरित्यर्थः । २रूपादिवारणाय सर्वव्यवहारेति । कालादिवारणाया- साधारण्येत्यपि देयम् । संस्कारेति । ३संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति । अनुभवेऽति- व्याप्तिवारणाय संस्कारजन्यमिति । तथापि प्रत्यभिज्ञायामतिव्याप्तिवारणाय हिन्दी १. वीचीतरङ्गन्यायसे श्रोत्रमें उत्पन्न हुआ शब्द ही श्रोत्रद्वारा गृहीत होता है । अतः अन्य शब्दोंमें अव्याप्तिवारणके लिये श्रोत्रग्राह्यजातिमत्त्वका उल्लेख करना पड़ेगा । ऐसी स्थितिमें गुणपद देनेकी आवश्यकता नहीं है; क्योंकि शब्दत्वमें श्रोत्र- ग्राह्य जातिमत्त्व नहीं होनेसे उसमें अतिव्याप्तिका प्रसङ्ग ही नहीं है । कारण, श्रोत्र- ग्राह्य जाति शब्दत्व है, वह शब्दत्वमें नहीं रहती, किन्तु शब्द ही में रहती है । इसलिये शब्दमें लक्षणका समन्वय होगा और शब्दत्वमें अतिव्याप्तिका प्रसङ्ग नहीं होगा । अतः गुणपद अनावश्यक है । २. "दण्डादि" ऐसा पाठ समुचित नहीं है, क्योंकि गुण पदसे ही दण्डका वारण हो जायगा अतः इसके लिये 'सर्वव्यवहार" इस विशेषणकी सार्थकता दिखाना असंगत होगा । इस लिये पूर्ववत् "रूपादिवारणाय" यही पाठ समुचित है । ३. यहाँ स्वध्वंसके प्रति वस्तु भी स्वयं कारण होती है । इस नियमके अनुसार संस्कारध्वंस भी संस्कारजन्य हुआ । अतः स्मृतिलक्षणमें ज्ञानपद न देनेपर संस्कार- ध्वंसमें अतिव्याप्ति हो जायगी । केवल "ज्ञानं स्मृतिः" लक्षण करने पर अनुभवात्मक
१५२ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः अनुभवस्य किं लक्षणम्, के च भेदाः ?— तद्भिन्नं ज्ञानमनुभवः । स द्विविधः—यथार्थोऽयथार्थश्च । यथार्थानुभवस्य किं लक्षणम् ?— तद्वति तत्प्रकारकोऽनुभवो यथार्थः । ( यथा रजते इदं रजत- मिति ज्ञानम् ) सैव प्रमेत्युच्यते । पदकृत्यम् संस्कारमात्रजन्यत्वं विवक्षणीयम् । क्वचित्तथैव पाठः । न चैवं सत्यसम्भवः, तस्य संस्कारजन्यत्वे सतीन्द्रियार्थसंनिकर्षजन्यार्थकत्वात् । तदिति । स्मृतित्वावच्छिन्नभिन्नमित्यर्थः । तेन यत्किञ्चित्स्मृतिभिन्नत्वस्य स्मृतौ सत्त्वेऽपि न क्षतिः । घटादावतिव्याप्तिवारणाय ज्ञानमिति । स्मृति- वारणाय तद्भिन्नमिति । तद्वतीति । 'तद्वति तत्प्रकारो यस्य स तथेत्यर्थः । तद्वद्विशेष्यकतत्प्रकारक इति यावत् । स्मृतिवारणायानुभव इति । अयथार्थानुभववारणाय तद्वतीति । निर्विकल्पकेऽतिव्याप्तिवारणाय तत्प्रकारक इति । हिन्दी ज्ञानमें अतिव्याप्ति होने लगेगी, अतः उसके निवारणके लिये संस्कारजन्यत्वविशेषण दिया । संस्कारजन्य प्रत्यभिज्ञाज्ञान ( "स एवायं श्यामः" ) भी होता है, अतः उसमें अतिव्याप्तिवारणार्थ मात्रपद देना चाहिये । क्योंकि प्रत्यभिज्ञाज्ञानमें संस्कारके साथ साथ इन्द्रियसन्निकर्षके भी कारण होनेसे संस्कारमात्रजन्यत्व नहीं है । कहीं तो मूलमें मात्रपदके सहित ही पाठ है । “किन्तु मात्रपदका सन्निवेश करनेपर असम्भवदोष हो जायगा, क्योंकि स्मृति भी संस्कारमात्रसे जन्य नहीं होती, किन्तु आत्मा और मन भी कारण होता है” ऐसी आशङ्का नहीं होगी । क्योंकि मात्रपदका अभिप्राय यह है कि संस्कारजन्य होते हुए इन्द्रियार्थसन्निकर्षसे अजन्य हो । ऐसा होनेसे प्रत्यभिज्ञामें अतिव्याप्ति भी नहीं हुई और स्मृतिमें आत्मा और मनके भी कारण होनेसे असंभव भी नहीं हुआ । १. 'तद्वति' यहां सप्तमीविभक्तिका अर्थ है विशेष्यत्व । इसलिये लक्षणका स्वरूप हुआ—तद्वद्विशेष्यक होते हुए तत्प्रकारक जो अनुभव, वह यथार्थ है । अर्थात् जिस अनुभवमें कोई विशेष्य हो ओर कोई प्रकार ( विशेषण ) हो तथा वह विशेष्य तद्वत् अर्थात् विशेषणसे युक्त हो, वह अनुभव यथार्थ होता है । अयथार्थ अनुभवमें विशेष्य और विशेषण दोनों होते हैं, किन्तु वहां विशेष्य विशेषणरहित होता है, अतः उसमें लक्षणकी अतिव्याप्ति नहीं हुई । निर्विकल्पकज्ञान निष्प्रकारक होता है, अतः तत्प्रकारकपदके देनेसे उसमें अतिव्याप्ति नहीं हुई ।
सहिन्दीपदकृत्यसहितः १५३ अयथार्थानुभवस्य लक्षणं किम् ? — तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । ( यथा-शुक्ताविदं रजतमिति ज्ञानम् ) सैवाप्रमेत्युच्यते । यथार्थानुभवभेदाः के ? — यथार्थानुभवश्चतुर्विधः—प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणं कतिविधम् ? — तत्करणमपि चतुर्विधं—प्रत्यक्षानुमानोपमानशब्दभेदात् । पदकृत्यम् तदभावेति । १तदभाववद्विशेष्यकतत्प्रकारकोऽनुभवोऽयथार्थानुभव इत्यर्थः । यथा-शुक्तौ 'इदं रजतम्' इति ज्ञानम् । स्मृतिवारणायानुभव इति । यथार्थानुभवेऽतिव्याप्तिनिरसनाय तदभाववतीति । निर्विकल्पकवारणाय तत्प्रकारक इति । यथार्थेति । यथार्थानुभवः प्रत्यक्षमेवेति चार्वाकाः । अनुमितिरपीति काणादबौद्धौ । उपमितिरपीति नैयायिकैकदेशिनः । शाब्दमपीति नैया- यिकाः । अर्थापत्तिरपीति प्राभाकराः । आनुपलब्धिकोऽपीति भाट्टवेदान्तिनौ । साम्भविकैतिह्यकावपीति पौराणिकाः । चेष्टिकोऽपीति तान्त्रिकाः । एतेषां मतेऽस्वरसं सम्भाव्य तस्य चातुर्विध्यं दर्शितम् । तदिति । यथार्थानुभवात्मकप्रमायाः करणमित्यर्थः । असाधारणमिति । कालादिवारणायासाधारणमिति । व्यापारेऽति- व्याप्तिवारणाय २व्यापारवदित्यपि देयम् । व्यापारश्च—द्रव्यान्यत्वे सति हिन्दी १. 'तदभाववति' इस पदमें भी सप्तमीका अर्थ पूर्ववत् विशेष्यत्व होनेसे तदभाववद्विशेष्यक तत्प्रकारक अनुभव अयथार्थानुभव हुआ । जैसे शुक्तिमें रजतका ज्ञान अयथार्थ अनुभव हुआ । क्योंकि यहां विशेष्यभूत शुक्तिके रजतत्वाभावसे युक्त होनेसे उक्तज्ञान रजतत्वाभाववद्विशेष्यक और रजतत्वप्रकारक हुआ, अतः अयथार्थ है । २. व्यापारवत्पद देनेसे "व्यापारवदसाधारणं कारणं करणम्" यह करणका लक्षण निष्पन्न हुआ । व्यापारका लक्षण है—जो द्रव्यसे अन्य हो तथा कारणसे उत्पन्न होते हुए कारणसे उत्पन्न होनेवाले घटादिका जनक हो, वह व्यापार कहाता है । जैसे—चक्रभ्रमि क्रियारूप होनेसे द्रव्यसे भिन्न है तथा दण्डसे उत्पन्न होती हुई दण्डजन्य घटकी जनिका भी है, अतः चक्रभ्रमिको व्यापार कहते हैं ।
१५४ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः करणस्य किं लक्षणम् ?— असाधारणं कारणं करणम् । कारणस्य किं लक्षणम् ?— कार्यनियतपूर्ववृत्ति कारणम् । कार्यस्य किं लक्षणम् ?— कार्यं प्रागभावप्रतियोगि । पदकृत्यम् तज्जन्यत्वे सति तज्जन्यजनकः । ईश्वरेच्छादिवारणाय तज्जन्यत्वे सतीति । कुलालजन्यत्वे सति कुलालजन्यघटजनकत्वं कुलालपुत्रस्याप्यस्त्यतस्तत्राति- व्याप्तिवारणाय प्रथमं सत्यन्तम् । दण्डरूपादिवारणाय तज्जन्यजनक इति । कार्येति । कार्य्यान्नियताऽवश्यम्भाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिर्यस्य तत्तथे- त्यर्थः । अनियतरासभादिवारणाय नियतेति । कार्यवारणाय पूर्वेति । १दण्ड- त्वादिवारणायानन्यथासिद्धत्वविशेषणस्यावश्यकत्वेन तत एव रासभादि- वारणसम्भवे नियतपदमनर्थकमेव । एवं चानन्यथासिद्धकार्यपूर्ववृत्ति कारण- मिति फलितम् । अनन्यथासिद्धत्वमन्यथासिद्धिशून्यत्वम् । अन्यथासिद्धिश्चाव- श्यकॢप्तनियतपूर्ववर्तिनैव कार्यसम्भवे तत्सहभूतत्वम् । यथाऽवश्यकॢप्त- नियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसम्भवे तत्सहभूतत्वं दण्डत्वादौ, तदन्यथासिद्धत्वम् । प्रागभावेति । २कालादिवारणाय प्रागिति । ३असम्भववारणाय प्रतियोगीति । हिन्दी १. दण्डत्व भी घटकार्यके नियत पूर्ववृत्ति है, अतः उसमें घटके प्रति कारणता- का वारण करनेके लिये 'अनन्यथासिद्धत्व' विशेषण लगाना आवश्यक है । ऐसी स्थितिमें रासभमें भी इसी विशेषणसे घटकारणताका वारण हो जायगा । अतः नियत- पद वस्तुतः व्यर्थ है । तब लक्षणका निष्कर्ष यह हुआ -- अनन्यथासिद्ध हो और कार्यके पूर्ववृत्ति हो, वह कारण है । २. 'प्राक्'पद न देनेपर 'अभाव'पदसे अन्योन्याभाव भी गृहीत हो जायगा । ऐसी स्थितिमें अन्योन्याभावका प्रतियोगी होनेसे काल आदिमें कार्यलक्षणकी अतिव्याप्ति हो जायगी । 'प्राक्'पद देनेपर तो कालका प्रागभाव नहीं होनेसे प्रागभावप्रतियोगित्व- लक्षणकी कालमें अतिप्रसक्ति नहीं हुई ३. 'प्रतियोगी' शब्दका अर्थ है विरोधी । 'प्रतियोगी' शब्द न देनेपर प्रागभावका जो अविरोधी हो वह कार्य है, ऐसा लक्षण हो जायगा, जो असंभवदोषसे ग्रस्त है । क्योंकि कोई भी कार्य प्रागभावका अविरोधी नहीं होता, किन्तु विरोधी ही होता है । इसीलिए कार्य उत्पन्न होते ही उसका प्रागभाव नष्ट हो जाता है । अतः प्रतियोगी पद देना आवश्यक है ।
सहिन्दीपदकृत्यसहितः १५५ कारणं कतिविधम् ? — कारणं त्रिविधम्—समवाय्यसमवायिनिमित्तभेदात् । समवायिकारणस्य किं लक्षणम् ? — यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा—तन्तवः पटस्य । पटश्च स्वगतरूपादेः । असमवायिकारणस्य किं लक्षणम् ? — कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसम- वायिकारणम् । यथा—तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य । पदकृत्यम् यदिति । यस्मिन्समवायसम्बन्धेन वर्तमानं कार्यमुत्पद्यते, तदित्यर्थः । १चक्रादिवारणाय समवेतमिति ॥ कार्येणेति । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति २आत्म- विशेषगुणभिन्नत्वे सति यत् कारणं तदसमवायिकारणम् । ३तन्तुसंयोगादाव- व्याप्तिवारणाय कार्येणेति । ४तन्तुरूपादावव्याप्तिवारणाय कारणेनेति । आत्मविशेषगुणेऽतिव्याप्तिवारणायात्मविशेषगुणभिन्नत्वे सतीति । हिन्दी १. समवेतपद न देने पर चक्रादिमे संयोगेन वर्तमान होकर घटादिकार्य उत्पन्न होता है, अतः चक्रादिमें घटादिसमवायिकारणत्वकी अतिप्रसक्तिका वारण करनेके लिए समवेतपद दिया । २. "आत्मविशेषगुणानान्तु कुत्राप्यसमवायिकारणत्वं नास्ति" इस नियमके अनुसार "आत्मविशेषगुणभिन्नत्वे सति" यह भी असमवायिकरणके लक्षणमें देना चाहिए । ३. 'कार्येण' पद न दिया जाय तो तन्तुसंयोग पटका असमवायिकारण नहीं हो सकेगा । क्योंकि तन्तुसंयोग पटकारणीभूत तन्तुके साथ एक जगह समवायसम्बन्धसे नहीं रहता है । कार्यपद देनेपर तो पटात्मक कार्यके साथ वह तन्तुमे रहता है, अतः तन्तुसंयोगमें लक्षणकी अव्याप्ति नहीं हुई । ४. तन्तुका रूप पटरूपात्मक कार्यके प्रति असमवायिकारण होता है । किन्तु कार्यके साथ एक जगह नहीं रहता है, क्योंकि पटरूपात्मककार्य पटमें रहता है और तन्तुरूप तन्तुमें रहता है । अतः तन्तुरूपमें असमवायिकरणलक्षणकी अव्याप्ति हो गयी । कारणपद देनेसे उसका वारण हो गया । क्योंकि तन्तुरूप पटरूपके साथ भले ही एक जगह न रहे किन्तु पटरूपका कारण जो पट है, उसके साथ तो तन्तुमें तन्तुरूप भी रहता ही है । अतः अव्याप्ति नहीं हुई ।
१५६ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः निमित्तकारणस्य किं लक्षणम् ?— तदुभयभिन्नं कारणं निमित्तकारणम् । यथा—तुरीवेमादिकं पटस्य । करणस्य निष्कृष्टलक्षणं किम् ?— तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् । प्रत्यक्षप्रमाणलक्षणं किम् ?— तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । प्रत्यक्षप्रमाज्ञानलक्षणं किम्, कतिविधं च तत् ?— इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । ( ज्ञानाकरणं पदकृत्यम् १. विशेषवारणाय कारणमिति । तदुभयभिन्नं कारणं निमित्तकारण- मिति । समवाय्यसमवायिकारणवारणाय तदुभयभिन्नमिति । (विशेषादाव- तिव्याप्तिवारणाय कारणमिति ।) तदेतदिति । यस्मात्करणत्वघटकं कारणमुपदर्शितं तस्मादेतत्त्रिविधसा- धकमध्ये यत्साधकतमं तदेव करणमिति भावः । इति करणप्रपञ्चः । तत्रेति । प्रमाणचतुष्टयमध्ये । ²दण्डादिवारणाय ज्ञानेति । अनुमानादि- वारणाय प्रत्यक्षेति । इन्द्रियार्थेति । इन्द्रियं चक्षुरादिकमर्थो घटादिस्तयोः सन्निकर्षः संयोगा- दिः, तज्जन्यं ज्ञानं प्रत्यक्षमित्यर्थः । ³सन्निकर्षध्वंसवारणाय ज्ञानमिति । अनु- मित्यादिवारणायेन्द्रियार्थसन्निकर्षेति । ननु सोपनेत्रचक्षुषा कथं पदार्थग्रह- णम् ? चक्षुष उपनेत्रनिरुद्धत्वेन पदार्थेन सह सन्निकर्षाभावात् । कथं वा स्व- च्छजाह्नवीसलिलावृतमत्स्यादेश्चाक्षुषा ग्रहणम्? इति चेन्न, स्वच्छद्रव्यस्य तेजो- हिन्दी १. द्व्यणुकरूपकार्य के साथ परमाणुमें विशेष भी समवायसम्बन्धसे रहता है, अतः विशेष भी द्व्यणुकके प्रति असमवायिकारण होने लगेगा, इस अतिव्याप्तिका वारण करनेके लिए कारणपद दिया । क्योंकि द्व्यणुकके प्रति विशेष कारण ही नहीं होता है । २. दण्डादि भी घटादिके प्रति करण होता है, अतः उसमें प्रत्यक्षलक्षणकी अति- व्याप्ति न हो, एतदर्थ ज्ञानपद दिया । दण्ड तो ज्ञानका करण नहीं है । ३. सन्निकर्षका ध्वंस भी इन्द्रियार्थसन्निकर्षसे जन्य है । अतः उसका वारण करनेके लिए ज्ञानपद दिया ।
सहिन्दीपदकृत्यसहितः १५७ ज्ञानं प्रत्यक्षम् ) तद् द्विविधम् — निर्विकल्पकं सविकल्पकं चेति । निर्विकल्पकलक्षणं किम् ?— ( तत्र ) निष्प्रकारकं ज्ञानं निर्विकल्पकम् । ( यथा—किञ्चि- दिदमिति । सविकल्पकलक्षणं किम् ?— सप्रकारकं ज्ञानं सविकल्पकम् । यथा—डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयमिति । सन्निकर्षः कतिविधः, कश्च सः ?— प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः—संयोगः, संयुक्त- पदकृत्यम् निरोधकत्वाभावेन तदन्तश्चक्षुःप्रवेशसम्भवात् । न १चेश्वरप्रत्यक्षेऽव्याप्ति- रिति वाच्यम्, अत्र जन्यप्रत्यक्षस्यैव लक्षितत्वात् । तत्र निष्प्रकारकमिति । सविकल्पकेऽतिव्याप्तिवारणाय निष्प्रकारक- मिति । २प्रकारवारणाय ज्ञानमिति । सप्रकारकमिति । ३घटादिवारणाय ज्ञानमिति । निर्विकल्पकवारणाय सप्रकारकमिति । प्रत्यक्षेति । तच्च प्रत्यक्षं षड्विधं—घ्राणजरासनचाक्षुषश्रोत्रत्वाचमा- नसभेदात् । ४ननु प्रत्यक्षकारणीभूतेन्द्रियनिष्ठप्रत्यक्षसामानाधिकरण्यघटकः सन्निकर्षः क इत्यपेक्षायां तं विभज्य दर्शयति-प्रत्यक्षेति । लौकिकप्रत्यक्षेत्यर्थः । हिन्दी १. ईश्वरको इन्द्रियाँ नहीं होतीं, इसलिए तथाकथित प्रत्यक्षलक्षणकी ईश्वर- प्रत्यक्षमें अव्याप्ति दिखायी गयी । तथा जन्यप्रत्यक्षको प्रकृतमें लक्ष्य मानकर उसका वारण किया गया । २. प्रकारमें प्रकार नहीं होनेसे प्रकार भी निष्प्रकारक हो गया । अतः उसमें निर्विकल्पकत्वकी अतिव्याप्ति न हो, इसके लिए ज्ञानपद दिया । ३. घट भी घटत्वरूप प्रकारवाला है, अतः उसमें वारण करनेके लिए ज्ञानपद दिया । ४. कार्य और कारणमें सामानाधिकरण्य होता है । अतः प्रत्यक्षरूप कार्य और इन्द्रियरूप कारणमें भी सामानाधिकरण्य होता है । अर्थात् विषयतासम्बन्धसे जहाँ प्रत्यक्ष रहता है, वहाँ पर संयोगादिसन्निकर्षसे इन्द्रिय भी रहती है । इस प्रकार संयोग आदि षड्विध सन्निकर्ष उक्त सामानाधिकरण्यके घटक हुए ।
१५८ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः समवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो, विशे- षणविशेष्यभावश्चेति । घट ( द्रव्य ) प्रत्यक्षे कः सन्निकर्षः ? — चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षे क सन्निकर्षः ? -- घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः, चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वादि-गुणगतजातिप्रत्यक्षे कः सन्निकर्षः ? -- रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुः- संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । शब्दप्रत्यक्षे कः सन्निकर्षः ?— श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्णविवरवर्त्या- काशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वाद् गुणगुणिनोश्च समवायात् । पदकृत्यम् संयोगमुदाहरति चक्षुषेति । तथाच द्रव्यचाक्षुषत्वाचमानसेषु संयोग एव सन्निकर्ष इति भावः । घटरूपेति । चक्षुषा इत्यनुषज्यते । तथा च द्रव्यसमवेतचाक्षुष त्वाच- मानस-रासन-घ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इत्यर्थः : रूपत्वेति । रूपत्वात्मकं यत्सामान्यं तत्प्रत्यक्ष इत्यर्थः । अत्रापि चक्षुषा इत्यनुषज्यते । तथाच द्रव्यसमवेतसमवेतचाक्षुष-रासन-घ्राणज स्पार्शन-मान- सेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः । 'अथ द्रव्यतत्समवेत- प्रत्यक्षेऽपि संयुक्तसमवेतसमवाय एव सन्निकर्षोऽस्त्विति चेत्, नैतत्— आत्मनोऽप्यनध्यक्षत्वप्रसङ्गात् । हिन्दी १. “द्रव्यके प्रत्यक्षमें संयोग और द्रव्यसमवेत रूपादिके प्रत्यक्षमें संयुक्तसमवायको सन्निकर्ष न मानकर संयुक्तसमवेतसमवायको ही सन्निकर्ष माना जाय । जैसे— घटप्रत्यक्षस्थलमें चक्षुःसंयुक्तकपालिका, तत्समवेत कपाल, और उसमें समवाय घटका है । ऐसे ही घटरूपके प्रत्यक्षस्थलमें चक्षुःसंयुक्त कपाल, तत्समवेत घट और उसमें समवाय घटरूपका है ।” ऐसा नहीं कह सकते । क्योंकि निरवयव आत्माका मानस- प्रत्यक्ष नहीं हो सकेगा । क्योंकि आत्मा मनसे सीधे संयुक्त है, न कि मनःसंयुक्तसम- वेतसमवेत है ।