तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 164, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १४७ कपिशचित्रभेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि । रसस्य किं लक्षणं, कतिविधश्च सः ? — रसनाग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्त- भेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव । गन्धस्य किं लक्षणं, कति च भेदाः ? — घ्राणग्राह्यो गुणो गन्धः । स द्विविधः—सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः । पदकृत्यम् रसनेति । रसत्वादिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय रसनेति । तत्रेति । पृथिवीजलयोरित्यर्थः । षड्विध इति । अत्र रस इत्यनुवर्तते । घ्राणग्राह्य इति । गन्धत्वादावतिव्याप्तिवारणाय गुण इति । रूपादावति- व्याप्तिवारणाय घ्राणग्राह्य इति । पृथिवीति । १पृथिवीसम्बन्धसत्त्वे गन्ध- प्रतीतिसत्त्वं पृथिवीसम्बन्धाभावे गन्धप्रतीत्यभाव इत्यन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या । एवं वायावपि । ननु देशान्तरस्थ- कस्तूरीकुसुमसम्बद्धपवनस्यैतद्देशे सत्त्वात्कुसुमादिसम्बन्धाभावाद्गन्धप्रतीत्य- नुपपत्तिः । न च वायुआनीतत्र्यणुकादिसम्बन्धोऽस्त्येवेति वाच्यम्, कस्तूर्या न्यूनतापत्तेः, कुसुमस्य च सच्छिद्रत्वापत्तेरिति चेन्न, भोक्तृदृष्टविशेषेण पूर्ववत् त्र्यणुकान्तराद्युत्पत्तेः, कर्पूरादौ तु तदभावान्न तथात्वमिति । हिन्दी अनावश्यक है । किन्तु चक्षुर्मात्रग्राह्यजातित्व त्र्यणुकमें भी है, अतः उसमें रूपलक्षण- का अतिप्रसङ्गवारणके लिये गुणपदका देना तो आवश्यक है । १. पृथिवीका सम्बन्ध रहनेपर गन्धकी प्रतीति होती है, पृथिवीसम्बन्धका अभाव होनेपर गन्धकी प्रतीति नहीं होती है—इस अन्वय-व्यतिरेकनियमसे जलमें प्रतीत होनेवाली गन्ध पृथिवीकी ही है, ऐसा जानना चाहिये । यद्यपि—देशान्तर में स्थित कस्तूरी या कुसुमसे सम्बद्ध वायुके कारण होनेवाली गन्धप्रतीति नहीं होनी चाहिये, क्योंकि कुसुमादिका सम्बन्ध गन्धप्रतीतिस्थानमें नहीं है। यदि कहे कि वायुद्वारा लाये कुसुमके त्र्यणुकका सम्बन्ध वहाँ भी है, तो ऐसा नहीं कह सकते, क्योंकि त्र्यणुकके निकल जानेपर कस्तूरीमें न्यूनता आ जानी चाहिये तथा कुसुममें छिद्र हो