भारतकोश
संग्रह पर लौटें

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

सहिन्दीपदकृत्यसहितः १४७ कपिशचित्रभेदात्सप्तविधम् । पृथिवीजलतेजोवृत्ति । तत्र पृथिव्यां सप्तविधम् । अभास्वरशुक्लं जले । भास्वरशुक्लं तेजसि । रसस्य किं लक्षणं, कतिविधश्च सः ? — रसनाग्राह्यो गुणो रसः । स च मधुराम्ललवणकटुकषायतिक्त- भेदात् षड्विधः । पृथिवीजलवृत्तिः । तत्र पृथिव्यां षड्विधः । जले मधुर एव । गन्धस्य किं लक्षणं, कति च भेदाः ? — घ्राणग्राह्यो गुणो गन्धः । स द्विविधः—सुरभिरसुरभिश्च । पृथिवीमात्रवृत्तिः । पदकृत्यम् रसनेति । रसत्वादिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय रसनेति । तत्रेति । पृथिवीजलयोरित्यर्थः । षड्विध इति । अत्र रस इत्यनुवर्तते । घ्राणग्राह्य इति । गन्धत्वादावतिव्याप्तिवारणाय गुण इति । रूपादावति- व्याप्तिवारणाय घ्राणग्राह्य इति । पृथिवीति । १पृथिवीसम्बन्धसत्त्वे गन्ध- प्रतीतिसत्त्वं पृथिवीसम्बन्धाभावे गन्धप्रतीत्यभाव इत्यन्वयव्यतिरेकाभ्यां पृथिवीगन्धस्यैव जले प्रतीतिर्बोध्या । एवं वायावपि । ननु देशान्तरस्थ- कस्तूरीकुसुमसम्बद्धपवनस्यैतद्देशे सत्त्वात्कुसुमादिसम्बन्धाभावाद्गन्धप्रतीत्य- नुपपत्तिः । न च वायुआनीतत्र्यणुकादिसम्बन्धोऽस्त्येवेति वाच्यम्, कस्तूर्या न्यूनतापत्तेः, कुसुमस्य च सच्छिद्रत्वापत्तेरिति चेन्न, भोक्तृदृष्टविशेषेण पूर्ववत् त्र्यणुकान्तराद्युत्पत्तेः, कर्पूरादौ तु तदभावान्न तथात्वमिति । हिन्दी अनावश्यक है । किन्तु चक्षुर्मात्रग्राह्यजातित्व त्र्यणुकमें भी है, अतः उसमें रूपलक्षण- का अतिप्रसङ्गवारणके लिये गुणपदका देना तो आवश्यक है । १. पृथिवीका सम्बन्ध रहनेपर गन्धकी प्रतीति होती है, पृथिवीसम्बन्धका अभाव होनेपर गन्धकी प्रतीति नहीं होती है—इस अन्वय-व्यतिरेकनियमसे जलमें प्रतीत होनेवाली गन्ध पृथिवीकी ही है, ऐसा जानना चाहिये । यद्यपि—देशान्तर में स्थित कस्तूरी या कुसुमसे सम्बद्ध वायुके कारण होनेवाली गन्धप्रतीति नहीं होनी चाहिये, क्योंकि कुसुमादिका सम्बन्ध गन्धप्रतीतिस्थानमें नहीं है। यदि कहे कि वायुद्वारा लाये कुसुमके त्र्यणुकका सम्बन्ध वहाँ भी है, तो ऐसा नहीं कह सकते, क्योंकि त्र्यणुकके निकल जानेपर कस्तूरीमें न्यूनता आ जानी चाहिये तथा कुसुममें छिद्र हो

१४८ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः स्पर्शस्य किं लक्षणं, के च भेदाः ? — त्वगिन्द्रियमात्रग्राह्यो गुणः स्पर्शः । स च त्रिविधः-शीतोष्णा- नुष्णाशीतभेदात् । पृथिव्यप्तेजोवायुवृत्तिः । तत्र शीतो जले । उष्णस्तेजसि अनुष्णाशीतः पृथिवीवाय्वोः । रूपादिचतुष्टयं कुत्र पाकजमपाकजं वा कुत्र ? — रूपादिचतुष्टयं पृथिव्यां पाकजमनित्यं च । अन्यत्रापाकजं नित्यमनित्यं च । नित्यगतं नित्यम् । अनित्यगतमनित्यम् । सङ्ख्याया किं लक्षणम्, कुत्र च सा वर्तते ? — एकत्वादिव्यवहारहेतुः संख्या । सा नवद्रव्यवृत्तिः । एकत्वा- दिपरार्धपर्यन्ता । एकत्वं नित्यमनित्यं च । नित्यगतं मित्यम् । अनित्यगतमनित्यम् । द्वित्वादिकं तु सर्वत्रानित्यमेव । परिमाणस्य किं लक्षणं, के च तस्य भेदाः ?— मानव्यवहारासाधारणकारणं परिमाणम् । नवद्रव्यवृत्ति । पदकृत्यम् स्पर्शत्यादावतिव्याप्तिवारणाय गुण इति । रूपादावतिव्याप्तिवारणाय त्वगिन्द्रियेति । सङ्ख्यादिवारणाय मात्रपदम् । तत्रेति । पृथिव्यादिचतुष्टये । शीत इति शीतस्पर्शः । उष्ण इति उष्णस्पर्शः । एकत्वादीति । एकत्वमित्यादिर्यो व्यवहारः एको द्वावित्याद्यात्मकस्तस्य हेतुः संख्या इत्यर्थः । घटादिवारणाय एकत्वादीति । कालादिवारणाया- साधारणेत्यपि देयम् । ननु संख्याया अवधिरस्ति न वेत्यत आह-एकत्वा- दीति । तथाच—एकं दश शतं चैव सहस्रमयुतं तथा । लक्षं च नियुतं चैव कोटिरर्बुदमेव च ॥ वृन्दः खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः । अन्त्यं मध्यं परार्धं च दशवृद्ध्या यथाक्रमम् ॥ इति महदुक्तेः परार्धपर्यन्तैव संख्या इति भावः । मानेति । मानं परिमितिस्तस्या यो व्यवहारः-इदं महदिदमणु-इत्याद्या- त्मकः तस्य कारणं परिमाणमित्यर्थः । दण्डादिवारणाय मानेति । कालादि- हिन्दी जाना चाहिये—ऐसी आशङ्का हो सकती है, तथापि भोक्ताके अदृष्टविशेषसे कस्तूरी- आदिमें त्र्यणु कान्तरकी उत्पत्ति हो जानेसे न्यूनता या सच्छिद्रता नहीं आने पाती है । कपूर आदिमें तो वैसे अदृष्टका अभाव होनेसे त्र्यणुकान्तरकी उत्पत्ति नहीं होती है और उसमें न्यूनता आ जाती है ।

सहिन्दीपदकृत्यसहितः १४९ तच्चतुर्विधम्-अणु महद्दीर्घं ह्रस्वं चेति । पृथक्त्वस्य किं लक्षणम् ? - पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति । संयोगस्य किं लक्षणम् ? - संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः । विभागस्य किं लक्षणम् ? - संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः । पदकृत्यम् वारणायासाधारणेति । शब्दत्ववारणाय कारणमिति । नवद्रव्येति । १चतुर्विधमपि परमध्यभेदेन द्विविधम् । तत्र परमाणुह्रस्वत्वे परमाणुमनसोः । मध्यमाणुह्रस्वत्वे द्वयणके । परममहत्त्वदीर्घत्वे गगनादौ । मध्यममहत्त्व- दीर्घत्वे घटादौ । एतन्मौक्तिकमण्विति व्यवहारस्यावकृष्टमहत्त्वाश्रयत्वाद् गौणत्वं बोध्यम् । एवमेव केतनाद्गवजनं ह्रस्वमित्यत्रापि निकृष्टदीर्घत्वाद् गौणत्वम् । पृथगिति । अयमस्मात्पृथगिति यो व्यवहारस्तस्य कारणं पृथक्त्व- मित्यर्थः । दण्डादिवारणाय पृथगित्यादि । कालादिवारणायासाधारणेति । २पृथग्व्यवहारत्ववारणाय कारणमिति । संयुक्तेति । इमौ संयुक्ताविति यो व्यवहारस्तस्य हेतुः संयोग इत्यर्थः । दण्डादिवारणाय संयुक्तव्यवहारेति । कालादिवारणायासाधारणेत्यपि देयम् । संयुक्तव्यवहारत्वेऽतिप्रसक्तिवारणाय हेतुरिति । उपदर्शितलक्षण- चतुष्टयेऽसाधारणपदं देयम् । क्वचित्पुस्तके परिमाणपृथक्त्वलक्षणे ईश्वरे- च्छादिवारणायासाधारणेति दृश्यते, तत्तवाधुनिकैर्न्यस्तमिति बोध्यम् । संयोगेति । संयोगनाशजनक इत्यर्थः । कालेऽतिप्रसक्तिवारणाय गुण- पदम् । ईश्वरेच्छादिवारणायासाधारणेत्यपि बोध्यम् । ननु ३असाधारणपदो- पादाने गुणपदस्य वैयर्थ्यं स्यादिति चेत्, क्रियायामतिप्रसक्तिवारणाय तस्याप्यावश्यकत्वात् । हिन्दी १. परम अणुत्व, मध्यम अणुत्व, परममहत्त्व, मध्यममहत्त्व, परमदीर्घत्व, मध्यम- दीर्घत्व परमह्रस्वत्व, मध्यमह्रस्वत्व इस प्रकार परिमाणके आठ भेद हो जाते हैं । २. कारणपद न देनेपर पृथग्व्यवहारका असाधारणधर्म जो पृथग्व्यवहारत्व है, उसमें अतिप्रसङ्ग हो जायगा । ३. असाधारणपद देनेसे ही कालमें अतिव्याप्तिका निवारण हो जायगा, अतः गुणपद व्यर्थ है—ऐसा नहीं कहा जा सकता, क्योंकि संयोगनाशका असाधारणकारण क्रिया भी है, अतः उसमें अतिव्याप्तिवारणके लिये 'गुण' पद भी आवश्यक है ।

१५० तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः परत्वापरत्वयोः किं लक्षणं, के च भेदाः ?— परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादि- चतुष्टयमनोवृत्तिनी । ते च द्विविधे-दिक्कृते कालकृते चेति । दूरस्थे दिक्कृतं परत्वं, कनिष्ठे कालकृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतमपरत्वम् । गुरुत्वस्य किं लक्षणम् ?— आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति । द्रवत्वस्य किं लक्षणं, के च भेदाः ?— आद्यस्यन्दनासमवायिकारणं द्रवत्वम् पृथिव्यप्तेजोवृत्ति । तद्द्विविधम्-सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वं, तेजसि सुवर्णादौ । स्नेहस्य किं लक्षणम्, कुत्र च स. ?— चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः । पदकृत्यम् परेति । परव्यवहारासाधारणं कारणं परत्वम् । अपरव्यवहारासाधारणं कारणमपरत्वमित्यर्थः । दण्डादिवारणाय परव्यवहारेति । कालादिवारणा- यासाधारणेति । परव्यवहारत्ववारणाय कारणेति । एवमेव द्वितीयेऽपि बोध्यम् । आद्येति । दण्डादिवारणायासमवायीति । १रूपादिवारणाय पतनेति । २वेगेऽतिव्याप्तिवारणायाद्येति । आद्यस्यन्दनेति । दण्डादिवारणायासमवायीति । रसादिवारणाय स्यन्दनेति । चूर्णादीति । चूर्ण = पिष्टं, तदेवादिर्यस्य मृत्तिकादेः, स चूर्णादिस्तस्य पिण्डीभावः संयोगविशेषस्तस्य हेतुर्निमित्तकारणं स्नेह इत्यर्थः । कालादाव- तिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति । चूर्णपदं स्पष्टार्थम् । हिन्दी १. अवयविगत आद्य रूपादिको असमवायिकारण अवयवगतरूपादि भी होता है, अतः रूपादिमें गुरुत्वलक्षणके अतिव्याप्तिवारणके लिये पतनपद दिया । २. द्वितीयादिपतनका कारण वेग होता है, अतः उसमें अतिव्याप्तिवारणार्थ आद्यपद दिया ।

सहिन्दीपदकृत्यसहितः १५१ शब्दस्य किं लक्षणं, कतिधा च सः ?— श्रोत्रग्राह्यो गुणः शब्दः । आकाशमात्रवृत्तिः । स द्विविधः- ध्वन्यात्मको वर्णात्मकश्च । तत्र ध्वन्यात्मको भेर्यादौ । वर्णात्मकः संस्कृतभाषादिरूपः । बुद्धेः किं लक्षणं, कतिधा च सा ?— सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा—स्मृतिरनुभवश्च । स्मृतेः किं लक्षणम् ? संस्कारमात्रजन्यं ज्ञानं स्मृतिः । पदकृत्यम् श्रोत्रेति । शब्दत्वेऽतिव्याप्तिवारणाय गुण इति । रूपादिवारणाय श्रोत्रग्राह्य इति । १वस्तुतस्तु श्रोत्रोत्पन्नशब्दस्यैव श्रोत्रग्राह्यत्वेन तद्भिन्नेऽव्याप्तिवारणाय श्रोत्रग्राह्यजातिमत्त्वे तात्पर्याद् गुणपदमनुपादेयमेव । बुद्धिलक्षणमाह—सर्वेति । सर्वे ये व्यवहारा आहारविहारादयस्तेषां हेतुर्बुद्धिरित्यर्थः । २रूपादिवारणाय सर्वव्यवहारेति । कालादिवारणाया- साधारण्येत्यपि देयम् । संस्कारेति । ३संस्कारध्वंसेऽतिव्याप्तिवारणाय ज्ञानमिति । अनुभवेऽति- व्याप्तिवारणाय संस्कारजन्यमिति । तथापि प्रत्यभिज्ञायामतिव्याप्तिवारणाय हिन्दी १. वीचीतरङ्गन्यायसे श्रोत्रमें उत्पन्न हुआ शब्द ही श्रोत्रद्वारा गृहीत होता है । अतः अन्य शब्दोंमें अव्याप्तिवारणके लिये श्रोत्रग्राह्यजातिमत्त्वका उल्लेख करना पड़ेगा । ऐसी स्थितिमें गुणपद देनेकी आवश्यकता नहीं है; क्योंकि शब्दत्वमें श्रोत्र- ग्राह्य जातिमत्त्व नहीं होनेसे उसमें अतिव्याप्तिका प्रसङ्ग ही नहीं है । कारण, श्रोत्र- ग्राह्य जाति शब्दत्व है, वह शब्दत्वमें नहीं रहती, किन्तु शब्द ही में रहती है । इसलिये शब्दमें लक्षणका समन्वय होगा और शब्दत्वमें अतिव्याप्तिका प्रसङ्ग नहीं होगा । अतः गुणपद अनावश्यक है । २. "दण्डादि" ऐसा पाठ समुचित नहीं है, क्योंकि गुण पदसे ही दण्डका वारण हो जायगा अतः इसके लिये 'सर्वव्यवहार" इस विशेषणकी सार्थकता दिखाना असंगत होगा । इस लिये पूर्ववत् "रूपादिवारणाय" यही पाठ समुचित है । ३. यहाँ स्वध्वंसके प्रति वस्तु भी स्वयं कारण होती है । इस नियमके अनुसार संस्कारध्वंस भी संस्कारजन्य हुआ । अतः स्मृतिलक्षणमें ज्ञानपद न देनेपर संस्कार- ध्वंसमें अतिव्याप्ति हो जायगी । केवल "ज्ञानं स्मृतिः" लक्षण करने पर अनुभवात्मक

१५२ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः अनुभवस्य किं लक्षणम्, के च भेदाः ?— तद्भिन्नं ज्ञानमनुभवः । स द्विविधः—यथार्थोऽयथार्थश्च । यथार्थानुभवस्य किं लक्षणम् ?— तद्वति तत्प्रकारकोऽनुभवो यथार्थः । ( यथा रजते इदं रजत- मिति ज्ञानम् ) सैव प्रमेत्युच्यते । पदकृत्यम् संस्कारमात्रजन्यत्वं विवक्षणीयम् । क्वचित्तथैव पाठः । न चैवं सत्यसम्भवः, तस्य संस्कारजन्यत्वे सतीन्द्रियार्थसंनिकर्षजन्यार्थकत्वात् । तदिति । स्मृतित्वावच्छिन्नभिन्नमित्यर्थः । तेन यत्किञ्चित्स्मृतिभिन्नत्वस्य स्मृतौ सत्त्वेऽपि न क्षतिः । घटादावतिव्याप्तिवारणाय ज्ञानमिति । स्मृति- वारणाय तद्भिन्नमिति । तद्वतीति । 'तद्वति तत्प्रकारो यस्य स तथेत्यर्थः । तद्वद्विशेष्यकतत्प्रकारक इति यावत् । स्मृतिवारणायानुभव इति । अयथार्थानुभववारणाय तद्वतीति । निर्विकल्पकेऽतिव्याप्तिवारणाय तत्प्रकारक इति । हिन्दी ज्ञानमें अतिव्याप्ति होने लगेगी, अतः उसके निवारणके लिये संस्कारजन्यत्वविशेषण दिया । संस्कारजन्य प्रत्यभिज्ञाज्ञान ( "स एवायं श्यामः" ) भी होता है, अतः उसमें अतिव्याप्तिवारणार्थ मात्रपद देना चाहिये । क्योंकि प्रत्यभिज्ञाज्ञानमें संस्कारके साथ साथ इन्द्रियसन्निकर्षके भी कारण होनेसे संस्कारमात्रजन्यत्व नहीं है । कहीं तो मूलमें मात्रपदके सहित ही पाठ है । “किन्तु मात्रपदका सन्निवेश करनेपर असम्भवदोष हो जायगा, क्योंकि स्मृति भी संस्कारमात्रसे जन्य नहीं होती, किन्तु आत्मा और मन भी कारण होता है” ऐसी आशङ्का नहीं होगी । क्योंकि मात्रपदका अभिप्राय यह है कि संस्कारजन्य होते हुए इन्द्रियार्थसन्निकर्षसे अजन्य हो । ऐसा होनेसे प्रत्यभिज्ञामें अतिव्याप्ति भी नहीं हुई और स्मृतिमें आत्मा और मनके भी कारण होनेसे असंभव भी नहीं हुआ । १. 'तद्वति' यहां सप्तमीविभक्तिका अर्थ है विशेष्यत्व । इसलिये लक्षणका स्वरूप हुआ—तद्वद्विशेष्यक होते हुए तत्प्रकारक जो अनुभव, वह यथार्थ है । अर्थात् जिस अनुभवमें कोई विशेष्य हो ओर कोई प्रकार ( विशेषण ) हो तथा वह विशेष्य तद्वत् अर्थात् विशेषणसे युक्त हो, वह अनुभव यथार्थ होता है । अयथार्थ अनुभवमें विशेष्य और विशेषण दोनों होते हैं, किन्तु वहां विशेष्य विशेषणरहित होता है, अतः उसमें लक्षणकी अतिव्याप्ति नहीं हुई । निर्विकल्पकज्ञान निष्प्रकारक होता है, अतः तत्प्रकारकपदके देनेसे उसमें अतिव्याप्ति नहीं हुई ।

सहिन्दीपदकृत्यसहितः १५३ अयथार्थानुभवस्य लक्षणं किम् ? — तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । ( यथा-शुक्ताविदं रजतमिति ज्ञानम् ) सैवाप्रमेत्युच्यते । यथार्थानुभवभेदाः के ? — यथार्थानुभवश्चतुर्विधः—प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणं कतिविधम् ? — तत्करणमपि चतुर्विधं—प्रत्यक्षानुमानोपमानशब्दभेदात् । पदकृत्यम् तदभावेति । १तदभाववद्विशेष्यकतत्प्रकारकोऽनुभवोऽयथार्थानुभव इत्यर्थः । यथा-शुक्तौ 'इदं रजतम्' इति ज्ञानम् । स्मृतिवारणायानुभव इति । यथार्थानुभवेऽतिव्याप्तिनिरसनाय तदभाववतीति । निर्विकल्पकवारणाय तत्प्रकारक इति । यथार्थेति । यथार्थानुभवः प्रत्यक्षमेवेति चार्वाकाः । अनुमितिरपीति काणादबौद्धौ । उपमितिरपीति नैयायिकैकदेशिनः । शाब्दमपीति नैया- यिकाः । अर्थापत्तिरपीति प्राभाकराः । आनुपलब्धिकोऽपीति भाट्टवेदान्तिनौ । साम्भविकैतिह्यकावपीति पौराणिकाः । चेष्टिकोऽपीति तान्त्रिकाः । एतेषां मतेऽस्वरसं सम्भाव्य तस्य चातुर्विध्यं दर्शितम् । तदिति । यथार्थानुभवात्मकप्रमायाः करणमित्यर्थः । असाधारणमिति । कालादिवारणायासाधारणमिति । व्यापारेऽति- व्याप्तिवारणाय २व्यापारवदित्यपि देयम् । व्यापारश्च—द्रव्यान्यत्वे सति हिन्दी १. 'तदभाववति' इस पदमें भी सप्तमीका अर्थ पूर्ववत् विशेष्यत्व होनेसे तदभाववद्विशेष्यक तत्प्रकारक अनुभव अयथार्थानुभव हुआ । जैसे शुक्तिमें रजतका ज्ञान अयथार्थ अनुभव हुआ । क्योंकि यहां विशेष्यभूत शुक्तिके रजतत्वाभावसे युक्त होनेसे उक्तज्ञान रजतत्वाभाववद्विशेष्यक और रजतत्वप्रकारक हुआ, अतः अयथार्थ है । २. व्यापारवत्पद देनेसे "व्यापारवदसाधारणं कारणं करणम्" यह करणका लक्षण निष्पन्न हुआ । व्यापारका लक्षण है—जो द्रव्यसे अन्य हो तथा कारणसे उत्पन्न होते हुए कारणसे उत्पन्न होनेवाले घटादिका जनक हो, वह व्यापार कहाता है । जैसे—चक्रभ्रमि क्रियारूप होनेसे द्रव्यसे भिन्न है तथा दण्डसे उत्पन्न होती हुई दण्डजन्य घटकी जनिका भी है, अतः चक्रभ्रमिको व्यापार कहते हैं ।

१५४ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः करणस्य किं लक्षणम् ?— असाधारणं कारणं करणम् । कारणस्य किं लक्षणम् ?— कार्यनियतपूर्ववृत्ति कारणम् । कार्यस्य किं लक्षणम् ?— कार्यं प्रागभावप्रतियोगि । पदकृत्यम् तज्जन्यत्वे सति तज्जन्यजनकः । ईश्वरेच्छादिवारणाय तज्जन्यत्वे सतीति । कुलालजन्यत्वे सति कुलालजन्यघटजनकत्वं कुलालपुत्रस्याप्यस्त्यतस्तत्राति- व्याप्तिवारणाय प्रथमं सत्यन्तम् । दण्डरूपादिवारणाय तज्जन्यजनक इति । कार्येति । कार्य्यान्नियताऽवश्यम्भाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिर्यस्य तत्तथे- त्यर्थः । अनियतरासभादिवारणाय नियतेति । कार्यवारणाय पूर्वेति । १दण्ड- त्वादिवारणायानन्यथासिद्धत्वविशेषणस्यावश्यकत्वेन तत एव रासभादि- वारणसम्भवे नियतपदमनर्थकमेव । एवं चानन्यथासिद्धकार्यपूर्ववृत्ति कारण- मिति फलितम् । अनन्यथासिद्धत्वमन्यथासिद्धिशून्यत्वम् । अन्यथासिद्धिश्चाव- श्यकॢप्तनियतपूर्ववर्तिनैव कार्यसम्भवे तत्सहभूतत्वम् । यथाऽवश्यकॢप्त- नियतपूर्ववर्तिभिर्दण्डादिभिरेव घटरूपकार्यसम्भवे तत्सहभूतत्वं दण्डत्वादौ, तदन्यथासिद्धत्वम् । प्रागभावेति । २कालादिवारणाय प्रागिति । ३असम्भववारणाय प्रतियोगीति । हिन्दी १. दण्डत्व भी घटकार्यके नियत पूर्ववृत्ति है, अतः उसमें घटके प्रति कारणता- का वारण करनेके लिये 'अनन्यथासिद्धत्व' विशेषण लगाना आवश्यक है । ऐसी स्थितिमें रासभमें भी इसी विशेषणसे घटकारणताका वारण हो जायगा । अतः नियत- पद वस्तुतः व्यर्थ है । तब लक्षणका निष्कर्ष यह हुआ -- अनन्यथासिद्ध हो और कार्यके पूर्ववृत्ति हो, वह कारण है । २. 'प्राक्'पद न देनेपर 'अभाव'पदसे अन्योन्याभाव भी गृहीत हो जायगा । ऐसी स्थितिमें अन्योन्याभावका प्रतियोगी होनेसे काल आदिमें कार्यलक्षणकी अतिव्याप्ति हो जायगी । 'प्राक्'पद देनेपर तो कालका प्रागभाव नहीं होनेसे प्रागभावप्रतियोगित्व- लक्षणकी कालमें अतिप्रसक्ति नहीं हुई ३. 'प्रतियोगी' शब्दका अर्थ है विरोधी । 'प्रतियोगी' शब्द न देनेपर प्रागभावका जो अविरोधी हो वह कार्य है, ऐसा लक्षण हो जायगा, जो असंभवदोषसे ग्रस्त है । क्योंकि कोई भी कार्य प्रागभावका अविरोधी नहीं होता, किन्तु विरोधी ही होता है । इसीलिए कार्य उत्पन्न होते ही उसका प्रागभाव नष्ट हो जाता है । अतः प्रतियोगी पद देना आवश्यक है ।

सहिन्दीपदकृत्यसहितः १५५ कारणं कतिविधम् ? — कारणं त्रिविधम्—समवाय्यसमवायिनिमित्तभेदात् । समवायिकारणस्य किं लक्षणम् ? — यत्समवेतं कार्यमुत्पद्यते तत्समवायिकारणम् । यथा—तन्तवः पटस्य । पटश्च स्वगतरूपादेः । असमवायिकारणस्य किं लक्षणम् ? — कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतं सत् कारणमसम- वायिकारणम् । यथा—तन्तुसंयोगः पटस्य, तन्तुरूपं पटरूपस्य । पदकृत्यम् यदिति । यस्मिन्समवायसम्बन्धेन वर्तमानं कार्यमुत्पद्यते, तदित्यर्थः । १चक्रादिवारणाय समवेतमिति ॥ कार्येणेति । कार्येण कारणेन वा सहैकस्मिन्नर्थे समवेतत्वे सति २आत्म- विशेषगुणभिन्नत्वे सति यत् कारणं तदसमवायिकारणम् । ३तन्तुसंयोगादाव- व्याप्तिवारणाय कार्येणेति । ४तन्तुरूपादावव्याप्तिवारणाय कारणेनेति । आत्मविशेषगुणेऽतिव्याप्तिवारणायात्मविशेषगुणभिन्नत्वे सतीति । हिन्दी १. समवेतपद न देने पर चक्रादिमे संयोगेन वर्तमान होकर घटादिकार्य उत्पन्न होता है, अतः चक्रादिमें घटादिसमवायिकारणत्वकी अतिप्रसक्तिका वारण करनेके लिए समवेतपद दिया । २. "आत्मविशेषगुणानान्तु कुत्राप्यसमवायिकारणत्वं नास्ति" इस नियमके अनुसार "आत्मविशेषगुणभिन्नत्वे सति" यह भी असमवायिकरणके लक्षणमें देना चाहिए । ३. 'कार्येण' पद न दिया जाय तो तन्तुसंयोग पटका असमवायिकारण नहीं हो सकेगा । क्योंकि तन्तुसंयोग पटकारणीभूत तन्तुके साथ एक जगह समवायसम्बन्धसे नहीं रहता है । कार्यपद देनेपर तो पटात्मक कार्यके साथ वह तन्तुमे रहता है, अतः तन्तुसंयोगमें लक्षणकी अव्याप्ति नहीं हुई । ४. तन्तुका रूप पटरूपात्मक कार्यके प्रति असमवायिकारण होता है । किन्तु कार्यके साथ एक जगह नहीं रहता है, क्योंकि पटरूपात्मककार्य पटमें रहता है और तन्तुरूप तन्तुमें रहता है । अतः तन्तुरूपमें असमवायिकरणलक्षणकी अव्याप्ति हो गयी । कारणपद देनेसे उसका वारण हो गया । क्योंकि तन्तुरूप पटरूपके साथ भले ही एक जगह न रहे किन्तु पटरूपका कारण जो पट है, उसके साथ तो तन्तुमें तन्तुरूप भी रहता ही है । अतः अव्याप्ति नहीं हुई ।

१५६ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः निमित्तकारणस्य किं लक्षणम् ?— तदुभयभिन्नं कारणं निमित्तकारणम् । यथा—तुरीवेमादिकं पटस्य । करणस्य निष्कृष्टलक्षणं किम् ?— तदेतत्त्रिविधकारणमध्ये यदसाधारणं कारणं तदेव करणम् । प्रत्यक्षप्रमाणलक्षणं किम् ?— तत्र प्रत्यक्षज्ञानकरणं प्रत्यक्षम् । प्रत्यक्षप्रमाज्ञानलक्षणं किम्, कतिविधं च तत् ?— इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् । ( ज्ञानाकरणं पदकृत्यम् १. विशेषवारणाय कारणमिति । तदुभयभिन्नं कारणं निमित्तकारण- मिति । समवाय्यसमवायिकारणवारणाय तदुभयभिन्नमिति । (विशेषादाव- तिव्याप्तिवारणाय कारणमिति ।) तदेतदिति । यस्मात्करणत्वघटकं कारणमुपदर्शितं तस्मादेतत्त्रिविधसा- धकमध्ये यत्साधकतमं तदेव करणमिति भावः । इति करणप्रपञ्चः । तत्रेति । प्रमाणचतुष्टयमध्ये । ²दण्डादिवारणाय ज्ञानेति । अनुमानादि- वारणाय प्रत्यक्षेति । इन्द्रियार्थेति । इन्द्रियं चक्षुरादिकमर्थो घटादिस्तयोः सन्निकर्षः संयोगा- दिः, तज्जन्यं ज्ञानं प्रत्यक्षमित्यर्थः । ³सन्निकर्षध्वंसवारणाय ज्ञानमिति । अनु- मित्यादिवारणायेन्द्रियार्थसन्निकर्षेति । ननु सोपनेत्रचक्षुषा कथं पदार्थग्रह- णम् ? चक्षुष उपनेत्रनिरुद्धत्वेन पदार्थेन सह सन्निकर्षाभावात् । कथं वा स्व- च्छजाह्नवीसलिलावृतमत्स्यादेश्चाक्षुषा ग्रहणम्? इति चेन्न, स्वच्छद्रव्यस्य तेजो- हिन्दी १. द्व्यणुकरूपकार्य के साथ परमाणुमें विशेष भी समवायसम्बन्धसे रहता है, अतः विशेष भी द्व्यणुकके प्रति असमवायिकारण होने लगेगा, इस अतिव्याप्तिका वारण करनेके लिए कारणपद दिया । क्योंकि द्व्यणुकके प्रति विशेष कारण ही नहीं होता है । २. दण्डादि भी घटादिके प्रति करण होता है, अतः उसमें प्रत्यक्षलक्षणकी अति- व्याप्ति न हो, एतदर्थ ज्ञानपद दिया । दण्ड तो ज्ञानका करण नहीं है । ३. सन्निकर्षका ध्वंस भी इन्द्रियार्थसन्निकर्षसे जन्य है । अतः उसका वारण करनेके लिए ज्ञानपद दिया ।

सहिन्दीपदकृत्यसहितः १५७ ज्ञानं प्रत्यक्षम् ) तद् द्विविधम् — निर्विकल्पकं सविकल्पकं चेति । निर्विकल्पकलक्षणं किम् ?— ( तत्र ) निष्प्रकारकं ज्ञानं निर्विकल्पकम् । ( यथा—किञ्चि- दिदमिति । सविकल्पकलक्षणं किम् ?— सप्रकारकं ज्ञानं सविकल्पकम् । यथा—डित्थोऽयं, ब्राह्मणोऽयं, श्यामोऽयमिति । सन्निकर्षः कतिविधः, कश्च सः ?— प्रत्यक्षज्ञानहेतुरिन्द्रियार्थसन्निकर्षः षड्विधः—संयोगः, संयुक्त- पदकृत्यम् निरोधकत्वाभावेन तदन्तश्चक्षुःप्रवेशसम्भवात् । न १चेश्वरप्रत्यक्षेऽव्याप्ति- रिति वाच्यम्, अत्र जन्यप्रत्यक्षस्यैव लक्षितत्वात् । तत्र निष्प्रकारकमिति । सविकल्पकेऽतिव्याप्तिवारणाय निष्प्रकारक- मिति । २प्रकारवारणाय ज्ञानमिति । सप्रकारकमिति । ३घटादिवारणाय ज्ञानमिति । निर्विकल्पकवारणाय सप्रकारकमिति । प्रत्यक्षेति । तच्च प्रत्यक्षं षड्विधं—घ्राणजरासनचाक्षुषश्रोत्रत्वाचमा- नसभेदात् । ४ननु प्रत्यक्षकारणीभूतेन्द्रियनिष्ठप्रत्यक्षसामानाधिकरण्यघटकः सन्निकर्षः क इत्यपेक्षायां तं विभज्य दर्शयति-प्रत्यक्षेति । लौकिकप्रत्यक्षेत्यर्थः । हिन्दी १. ईश्वरको इन्द्रियाँ नहीं होतीं, इसलिए तथाकथित प्रत्यक्षलक्षणकी ईश्वर- प्रत्यक्षमें अव्याप्ति दिखायी गयी । तथा जन्यप्रत्यक्षको प्रकृतमें लक्ष्य मानकर उसका वारण किया गया । २. प्रकारमें प्रकार नहीं होनेसे प्रकार भी निष्प्रकारक हो गया । अतः उसमें निर्विकल्पकत्वकी अतिव्याप्ति न हो, इसके लिए ज्ञानपद दिया । ३. घट भी घटत्वरूप प्रकारवाला है, अतः उसमें वारण करनेके लिए ज्ञानपद दिया । ४. कार्य और कारणमें सामानाधिकरण्य होता है । अतः प्रत्यक्षरूप कार्य और इन्द्रियरूप कारणमें भी सामानाधिकरण्य होता है । अर्थात् विषयतासम्बन्धसे जहाँ प्रत्यक्ष रहता है, वहाँ पर संयोगादिसन्निकर्षसे इन्द्रिय भी रहती है । इस प्रकार संयोग आदि षड्विध सन्निकर्ष उक्त सामानाधिकरण्यके घटक हुए ।

१५८ तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः समवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायो, विशे- षणविशेष्यभावश्चेति । घट ( द्रव्य ) प्रत्यक्षे कः सन्निकर्षः ? — चक्षुषा घटप्रत्यक्षजनने संयोगः सन्निकर्षः । घटरूपप्रत्यक्षे क सन्निकर्षः ? -- घटरूपप्रत्यक्षजनने संयुक्तसमवायः सन्निकर्षः, चक्षुःसंयुक्ते घटे रूपस्य समवायात् । रूपत्वादि-गुणगतजातिप्रत्यक्षे कः सन्निकर्षः ? -- रूपत्वसामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः, चक्षुः- संयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् । शब्दप्रत्यक्षे कः सन्निकर्षः ?— श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः, कर्णविवरवर्त्या- काशस्य श्रोत्रत्वाच्छब्दस्याकाशगुणत्वाद् गुणगुणिनोश्च समवायात् । पदकृत्यम् संयोगमुदाहरति चक्षुषेति । तथाच द्रव्यचाक्षुषत्वाचमानसेषु संयोग एव सन्निकर्ष इति भावः । घटरूपेति । चक्षुषा इत्यनुषज्यते । तथा च द्रव्यसमवेतचाक्षुष त्वाच- मानस-रासन-घ्राणजेषु संयुक्तसमवाय एव सन्निकर्ष इत्यर्थः : रूपत्वेति । रूपत्वात्मकं यत्सामान्यं तत्प्रत्यक्ष इत्यर्थः । अत्रापि चक्षुषा इत्यनुषज्यते । तथाच द्रव्यसमवेतसमवेतचाक्षुष-रासन-घ्राणज स्पार्शन-मान- सेषु संयुक्तसमवेतसमवाय एव सन्निकर्ष इति भावः । 'अथ द्रव्यतत्समवेत- प्रत्यक्षेऽपि संयुक्तसमवेतसमवाय एव सन्निकर्षोऽस्त्विति चेत्, नैतत्— आत्मनोऽप्यनध्यक्षत्वप्रसङ्गात् । हिन्दी १. “द्रव्यके प्रत्यक्षमें संयोग और द्रव्यसमवेत रूपादिके प्रत्यक्षमें संयुक्तसमवायको सन्निकर्ष न मानकर संयुक्तसमवेतसमवायको ही सन्निकर्ष माना जाय । जैसे— घटप्रत्यक्षस्थलमें चक्षुःसंयुक्तकपालिका, तत्समवेत कपाल, और उसमें समवाय घटका है । ऐसे ही घटरूपके प्रत्यक्षस्थलमें चक्षुःसंयुक्त कपाल, तत्समवेत घट और उसमें समवाय घटरूपका है ।” ऐसा नहीं कह सकते । क्योंकि निरवयव आत्माका मानस- प्रत्यक्ष नहीं हो सकेगा । क्योंकि आत्मा मनसे सीधे संयुक्त है, न कि मनःसंयुक्तसम- वेतसमवेत है ।

सहिन्दीपदकृत्यसहितः १५९ शब्दत्वसाक्षात्कारे कः सन्निकर्ष ?— शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः, श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् । अभावप्रत्यक्षे कः सन्निकर्षः ?— अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः, घटाभाववद्- भूतलमित्यत्र चक्षुःसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् । प्रत्यक्षप्रमाणस्य निष्कृष्टं लक्षणं किम् — एवं सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, तत्करणमिन्द्रियम् । तस्मादिन्द्रियं प्रत्यक्षप्रमाणमिति सिद्धम् । । इति प्रत्यक्षपरिच्छेदः । पदकृत्यम् समवायसन्निकर्षमुदाहरति—श्रोत्रेणेति । जननीय इति शेषः । ननु श्रोत्र- शब्दयोः कथं समवाय इत्यपेक्षमाणं प्रति तमुपपाद्य दर्शयति—कर्णेति । १अथ समवायस्य नित्यत्वेन शब्दप्रत्यक्षे को व्यापार इति चेत्, शब्दः श्रोत्र- मनःसंयोगो वेति गृहाण । शब्दत्वेति । श्रोत्रेण जननीये इत्यनुकर्षशेषः । विशेषणेति । २विशेषणभावो विशेष्यभावश्चेति बोध्यम् । इन्द्रियसम्बद्ध- विशेषणत्वमिन्द्रियसम्बद्धविशेष्यत्वमिति यावत् । विशेषणभावसन्निकर्षमुप- पाद्य दर्शयति—घटाभाववदिति । 'इह भूतले घटो नास्ती'त्यादौ विशेष्यता- सन्निकर्षोऽवसेयः, सप्तम्यन्तस्य विशेषणत्वात् । प्रत्यक्षप्रमाणमुपसंहरति—एवमिति । उपदर्शितक्रमेणेत्यर्थः । ननु सिद्धान्ते प्रत्यक्षज्ञानकरणमिन्द्रियार्थसन्निकर्षः किं न स्यादिति चेन्नेत्याह- तत्करणमिति । प्रत्यक्षप्रमाणं निगमयति—तस्मादिति । प्रत्यक्षप्रमाकरण- त्वादित्यर्थः । सिद्धमिति । न्यायसिद्धान्ते सिद्धमित्यर्थः । । इति पदकृत्यके प्रत्यक्षपरिच्छेदः । हिन्दी १. समवायसन्निकर्षके नित्य होनेसे कदाचित् होनेवाले शब्दप्रत्यक्षमें क्या व्यापार है ? तो इसका उत्तर देते हैं कि—शब्दप्रत्यक्षमें शब्द ही व्यापार है, अथवा श्रोत्रमनका संयोग व्यापार है । २. अभावप्रत्यक्षमें विशेषणता और विशेष्यता दोनों ही सन्निकर्ष हैं। अर्थात् इन्द्रियसम्बद्धविशेषणता और इन्द्रियसम्बद्धविशेष्यता सन्निकर्ष हैं। प्रथमका उदा- हरण—“घटाभाववद्भूतलम्” प्रत्यक्ष है और दूसरेका उदाहरण “इह भूतले घटो नास्ति” यह प्रत्यक्ष है ।। । इति श्रीकेदारनाथत्रिपाठिकृतायां तर्कसंग्रहपदकृत्यहिन्दीटिप्पण्यां प्रत्यक्षपरिच्छेदः ।

अथानुमानपरिच्छेदः अनुमानस्य किं लक्षणम् ? — अनुमितिकरणमनुमानम् । अनुमितिः का ? — परामर्शजन्यं ज्ञानमनुमितिः । परामर्शस्य किं स्वरूपम् ? — व्याप्तिविशिष्टपक्षधर्मताज्ञानं परामर्शः यथा-वह्निव्याप्य- धूमवानयं पर्वत इति ज्ञानं परामर्शः । तज्जन्यं पर्वतो वह्निमानिति ज्ञानमनुमितिः । व्याप्तिः का ? — यत्र यत्र धूमस्तत्र तत्राग्निरिति साहचर्यनियमो व्याप्तिः । पदकृत्यम् प्रत्यक्षानुमानयोः कार्यकारणभावसङ्गतिसभिप्रेत्य प्रत्यक्षानन्तरमनुमानं निरूपयति—अनुमितीति । अनुमितेः करणमनुमानमित्यर्थः । तच्च लिङ्ग- परामर्श एवेति निवेदयिष्यते । कुठारादावतिव्याप्तिवारणाय अनुमितीति । प्रत्यक्षादावतिव्याप्तिवारणाय-अन्विति । नन्वनुमितेरेव दुर्निरूपत्वात्तद्घटितानुमानमपि दुर्निरूपमित्यत आह— परामर्शति । प्रत्यक्षादावतिव्याप्तिवारणाय परामर्शजन्यमिति । परामर्श- ध्वंसवारणाय ज्ञानमिति । ^१परामर्शप्रत्यक्षवारणाय हेत्वविषयकमित्यपि बोध्यम् । व्याप्तिविशिष्टेति । विषयितासम्बन्धेन व्याप्तिविशिष्टं पक्षधर्मताज्ञानं परामर्श इत्यर्थः । घटादिज्ञानवारणाय पक्षधर्मतेति । धूमवान्पर्वत इत्यादि- ज्ञानवारणाय व्याप्तिविशिष्टेति । तदिति । परामर्शजन्यमित्यर्थः । यत्र यत्रेति । 'यत्र यत्र धूमस्तत्र तत्राग्निरि'ति व्याप्तेरभिनयः । तत्र साह- चर्यनियम इति लक्षणम् । सहचरतीति सहचरस्तस्य भावः साहचर्यं सामाना- धिकरण्यमिति यावत् । तस्य नियमो व्याप्तिरित्यर्थः । स चाव्यभिचरितत्वम् । हिन्दी १. परामर्शका मानसप्रत्यक्ष भी परामर्शजन्य है, अतः उसमें अनुमितिलक्षणकी अतिव्याप्तिका वारण करनेके लिये "हेत्वविषयक" ऐसा विशेषण लगाना चाहिये ।

सहिन्दीपदकृत्यसहितः १६१ पक्षधर्मतायाः किं लक्षणम् ?— व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता । अनुमानं कतिविधम् ?— अनुमानं द्विविधं—स्वार्थं परार्थं च । किं नाम स्वार्थानुमानम् ?— स्वार्थं स्वानुमितिहेतुः, तथाहि—स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति— पदकृत्यम् तच्च व्यभिचाराभावः । व्यभिचारश्च साध्याभाववद्वृत्तित्वम् । तथा च साध्याभाववदवृत्तित्वं व्याप्तिरिति पर्यवसन्नम् । महानसं वह्निमद् धूमादि- त्यादौ साध्यो वह्निस्तदभाववान् जलह्रदादिस्तद्वृत्तित्वं नौकादाववृत्तित्वं प्रकृते हेतुभूते धूमे इति कृत्वा १लक्षणसमन्वयः । धूमवान् वह्नेरित्यादौ साध्यो धूमस्तदभाववदयोगोलकं तद्वृत्तित्वमेव वह्न्यादाविति २नातिव्याप्तिः । ननु ज्ञातेयं व्याप्तिः, पक्षधर्मताज्ञानमित्यत्र का नाम पक्षधर्मता इत्य- पेक्षमाणं प्रति तत्स्वरूपं निरूपयति—व्याप्यस्येति । व्याप्यो नाम व्याप्या- श्रयः, स च धूमादिरेव, तस्य पर्वतादिवृत्तित्वं पक्षधर्मतेत्यर्थः । अथ कथमनुमानमनुमितिकरणं कथं वा तस्मादनुमितेर्जनिरिति जिज्ञास- मानं प्रति लाघवादनुमानविभागमुखेनैव बुबोधयिषुरनुमानं विभजते—अनु- मानमिति । द्वैविध्यं दर्शयति—स्वार्थं परार्थं चेति । ३स्वस्यार्थः प्रयोजनं यस्मात् तत् स्वार्थमिति समासः । स्वप्रयोजनं च स्वस्यानुमेयप्रतिपत्तिः । एवं परार्थमित्यस्यापि । अयमिति । व्याप्तिबलेन लीनमर्थं गमयतीति लिङ्गम्, तच्च धूमादि, तस्य परामर्शो ज्ञानविशेष इत्यर्थः । तस्मादिति । लिङ्गपरामर्शादित्यर्थः । स्वार्थानुमानमुपसंहरति—तदेतदिति । यस्मादिदं स्वप्रतिपत्तिहेतुस्तस्मादे- तत्स्वार्थानुमानमित्यर्थः । हिन्दी १. व्याप्तिलक्षणका समन्वय हुआ । २. व्याप्तिलक्षणकी अतिव्याप्ति नहीं हुई । ३. अनुमेय अर्थका ज्ञानरूप अपना प्रयोजन जिस अनुमानसे सिद्ध हो, वह स्वार्थानुमान है । तथा दूसरेको अनुमेयार्थज्ञानरूप प्रयोजन जिससे सिद्ध हो, वह परार्थानुमान है । ११

१६२ तर्कसंग्रहः [ अनुमानपरिच्छेदः 'यत्र यत्र धूमस्तत्र तत्राग्निः' इति । तदनन्तरं वह्निव्याप्यधूमवानयं पर्वत इति ज्ञानमुत्पद्यते, अयमेव लिङ्गपरामर्श इत्युच्यते । तस्मात् पर्वतो वह्निमानिति ज्ञानमनुमितिरुत्पद्यते । तदेतत्स्वार्थानुमानम् । परार्थानुमानस्य किं स्वरूपम् ?— यत्तु स्वयं धूमादग्निमनुमाय परं प्रति बोधयितुं पञ्चावयव- वाक्यं प्रयुज्यते, तत्परार्थानुमानम् । यथा—पर्वतो वह्निमान्, धूम- वत्त्वात्, यो यो धूमवान् स वह्निमान्, यथा महानसम्, तथा चायम्, तस्मात्तथेति । अनेन प्रतिपादिताल्लिङ्गात्परोऽप्यग्निं प्रतिपद्यते । पञ्चावयवाः के ?— प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि पञ्चावयवाः । पर्वतो वह्निमानिति प्रतिज्ञा । धूमवत्त्वादिति हेतुः । यो यो धूमवान् स स वह्निमानित्युदाहरणम् । तथा चायमित्युपनयः । तस्मात्तथेति निगमनम् । पदकृत्यम् क्रमप्राप्तं परार्थानुमानमाह—यत्त्विति । यत्पञ्चावयववाक्यं प्रयुज्यते तत्परार्थानुमानमिति सम्बन्धः । पञ्चावयवेति । अथावयवत्वं नाम द्रव्यसम- वायिकारणत्वम्, प्रतिज्ञादिषु तदसम्भवात्कथमेतेऽवयवाः स्युरिति चेत्, अनु- मानवाक्यैकदेशत्वात्तु अवयवा इत्युपचर्यत इति गृहाण । नन्वेमपि पञ्चा- वयववाक्यस्यानुमानत्वमेव न विचारसहं तस्य लिङ्गपरामर्शत्वाभावादिति चेत्, मैवम्, लिङ्गपरामर्शप्रयोजकलिङ्गप्रतिपादकत्वेनानुमानमित्युपचार- मात्रत्वात् । तदुदाहरति—यथेति । तथा चायमिति । अयं च पर्वत:, तथा— वह्निव्याप्यधूमवानित्यर्थः । तस्मात्तथेति । वह्निव्याप्यधूमवत्त्वाद्वह्निमानि- त्यर्थः । अनेनेति । अनेन पञ्चावयववाक्येनेत्यर्थः । ननु पञ्चावयववाक्यमित्यत्र के ते पञ्चावयवा अतस्तान्दर्शयति—प्रति- ज्ञेति । प्रतिज्ञाद्यन्यतमत्वमवयवत्वम् । साध्यविशिष्टपक्षबोधकवचनं प्रतिज्ञा । पञ्चम्यन्तं तृतीयान्तं वा लिङ्गवचनं हेतुः । व्याप्तिप्रतिपादकदृष्टान्तवचन- मुदाहरणम् । उदाहृतव्याप्तिविशिष्टत्वेन हेतोः पक्षधर्मताप्रतिपादकवचन- मुपनयः । पक्षे साध्यस्याबाधितत्वप्रतिपादकवचनं निगमनम् । इदमेव लक्षणं हृदि निधाय प्रतिज्ञादीन्विशिष्य दर्शयति—पर्वतो वह्निमानित्यादिना ।

सहिन्दीपदकृत्यसहितः १६३ स्वार्थानुमितिपरार्थानुमित्योः किं करणम् ?— स्वार्थानुमितिपरार्थानुमित्योर्लिङ्गपरामर्श एव करण म् । तस्मा- ल्लिङ्गपरामर्शोऽनुमानम् । लिङ्गं कतिविधं किञ्चान्वयव्यतिरेकिलक्षणम् ?— लिङ्गं त्रिविधम्–अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति । अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि, यथा-वह्नौ साध्ये धूमवत्त्वम् । यत्र धूमस्तत्राग्निर्यथा महानसमित्यन्वयव्याप्तिः । यत्र वह्निर्नास्ति तत्र धूमोऽपि नास्ति यथा ह्रद इति व्यतिरेक- व्याप्तिः । पदकृत्यम् लिङ्गेति । १ज्ञायमानं लिङ्गमनुमितिकरणमिति वृद्धोक्तं न युक्तम्, इयं यज्ञशाला वह्निमती अतीतधूमादित्यादौ लिङ्गाभावेऽप्यनुमितिदर्शनादित्य- भिप्रायाल्लिङ्गपरामर्श एव करणमित्याचष्टे-लिङ्गपरामर्श एवेति । अनु- मानमुपसंहरति-तस्मादिति । अनुमितिकरणत्वादित्यर्थः । अयमेव तृतीयज्ञान- मित्युच्यते । तथाहि--महानसादौ धूमाग्न्योर्व्याप्तौ गृह्यमाणायां यद्धूमज्ञानं तदादिमम् । पक्षे यद्धूमज्ञानं तद्द्वितीयम् । अत्रैव वह्निव्याप्यत्वेन यद्धूम- ज्ञानं तत्तृतीयम् । इदमेव लिङ्गपरामर्श इत्युच्यते । अनुमानमिति । व्यापार- वत्कारणं करणमिति मते व्याप्तिज्ञानमेवानुमानं लिङ्गपरामर्शो व्यापार इत्यवसेयम् । अन्वयव्यतिरेकिणो लक्षणमाह--अन्वयेति । तृतीयायाः प्रयोज्यत्वमर्थः । साध्यसाधनयो साहचर्यमन्वयः । २तदभावयोः साहचर्यं व्यतिरेकः । तथा चान्वयप्रयोज्यव्याप्तिमद्व्यतिरेकप्रयोज्यव्याप्तिमदन्वयव्यतिरेकीत्यर्थः । केवलव्यतिरेकिण्यतिव्याप्तिवारणाय अन्वयेनेति । केवलान्वयिनि व्यभिचार- हिन्दी १. प्राचीनमतानुसार ज्ञायमानलिङ्ग अनुमितिका करण है । किन्तु नवीनोंको यह मान्य नहीं है, क्योंकि "इयं यज्ञशाला वह्निमती अतीतधूमात्" वहाँ पर धूमलिङ्गके वर्तमान न होनेपर भी अनुमिति होती है । अतः लिङ्गपरामर्श ही अनुमितिका करण है । प्रकृत अनुमितिमें धूम न होने पर भी उसका ज्ञान तो है ही ।

१६४ तर्कसंग्रहः [ अनुमानपरिच्छेदः केवलान्वयिनः किं लक्षणम्— अन्वयमात्रव्याप्तिकं केवलान्वयि । यथा-घटोऽभिधेयः प्रमेय- त्वात्पटवत् । अत्र प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिर्नास्ति, सर्वस्यापि प्रमेयत्वादभिधेयत्वाच्च । पदकृत्यम् वारणाय व्यतिरेकेणेति । तथा चान्वयव्याप्तिरुपदर्शिंतैव । व्यतिरेकव्याप्तिश्च १साध्याभावव्यापकीभूताभावप्रतियोगित्वमित्यर्थः । तदुक्तं— व्याप्यव्यापकभावो हि भावयोर्यादृगिष्यते । तयोरभावयोस्तस्माद्विपरीतःप्रतीयते ॥ २अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते । साध्याभावोऽन्यथा व्याप्यो व्यापकः साधनात्ययः ॥ इति । केवलान्वयिनो लक्षणमाह—अन्वयेति । अन्वयेनैव व्याप्तिर्यस्मिन् स तथा । प्रमेयत्वाभिधेयत्वयोर्व्यतिरेकव्याप्तिं निराकरोति - अत्रेति । अभिधे- यत्वसाध्यकानुमान इत्यर्थः । ननु कुतस्तन्निषेधोऽतस्तत्र हेतुमाह-सर्वस्येति । पदार्थमात्रस्येत्यर्थः । तथाच ३सकलपदाभिधेयत्वस्येश्वरप्रमाविषयत्वस्य चात्यन्ताभावाप्रतियोगित्वरूपकेवलान्वयित्वेन तदभावाप्रसिद्ध्या तद्घटित- व्यतिरेकव्याप्तिर्न सम्भवत्येवेति भावः । हिन्दी १. साध्य वह्नि, उसका अभाव वह्न्यभाव, उसका व्यापकीभूत अभाव धूमाभाव, उसकी प्रतियोगिता धूममें होनेसे धूममें वह्निकी व्यतिरेकव्याप्ति भी सिद्ध हो गयी । २. अन्वयव्याप्तिमें हेतु व्याप्य होता है और साध्य व्यापक होता है ! किन्तु व्यतिरेकव्याप्तिमें इसके विपरीत साध्याभाव व्याप्य होता है और हेत्वभाव व्यापक होता है । ३. घटपदाभिधेयत्व केवल घटमें है अन्यत्र नहीं है, ऐसे ही पटपदाभिधेयत्व केवल पटमें ही है, अन्यत्र उसका अत्यन्ताभाव है । किन्तु 'सर्व'पदका अभिधेयत्व सबमें होनेसे केवलान्वयी हुआ । इसी प्रकार हमारी प्रमाकी विषयता कुछ ही पदार्थोंमें है । किंतु ईश्वरीयप्रमाविषयता सर्वत्र होनेसे अत्यन्ताभावका अप्रतियोगी वह भी हुई । इसलिये प्रमेयत्व भी केवलान्वयी हुआ । इसलिये केवलान्वयी होनेसे अभिधेयत्व और प्रमेयत्वका अभाव अप्रसिद्ध होगा । अतः अभावघटित व्यतिरेकव्याप्ति प्रमेयत्व और अभिधेयत्व में नहीं हो सकती है । इसलिये इसे केवलान्वयी कहते हैं ।

सान्दपदकृत्यसहितः १६५ केवलव्यतिरेकिणः किं लक्षणम् ?— व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकि । यथा-पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्, यदितेरेभ्यो न भिद्यते न तद्गन्धवत् यथा जलम्, न चेयं तथा, तस्मान्न तथेति । अत्र यद्गन्धवत् तदितरभिन्न- मित्यन्वयदृष्टान्तो नास्ति, पृथिवीमात्रस्य पक्षत्वात् । पक्षस्य किं लक्षणम् ?— सन्दिग्धसाध्यवान् पक्षः । यथा-धूमवत्त्वे हेतौ पर्वतः । पदकृत्यम् केवलव्यतिरेकिणो लक्षणमाह-व्यतिरेकेति । व्यतिरेकेणैव व्याप्तिर्य- स्मिंस्तत्तथा । अन्वयव्यतिरेकिण्यतिव्याप्तिवारणाय मात्रेति । न चेयं तथेति । इयं पृथिवी, न तथा-न गन्धाभाववतीत्यर्थः । तस्मान्न तथेति । गन्धाभाव- वत्त्वाभावादितरभेदाभाववती नेत्यर्थः । नन्वत्र किमिति नान्वयव्याप्ति- रीत्याशङ्क्य परिहरति-अत्रेति । इतरभेदसाधकानुमान इत्यर्थः । इदमुपल- क्षणम् । जीवच्छरीरं सात्मकं, प्राणादिमत्त्वात्, यन्नैवं तन्नैवं यथा घटः । प्रत्य- क्षादिकं प्रमाणमिति व्यवहर्तव्यं, प्रमाकरणत्वात्, यन्नैवं तन्नैवं यथा प्रत्यक्षा- भासः । विवादास्पदम् आकाशमिति व्यवहर्तव्यं, शब्दवत्त्वादित्यादिकमपि केवलव्यतिरेकि द्रष्टव्यम् । अत्रेदं बोध्यम् — १अन्वयव्यतिरेकि तु पञ्चरूपोपपन्नं स्वसाध्यं साधयितुं क्षमते, तानि कानि ! इति चेच्छ्रूयताम्-पक्षधर्मत्वं सपक्षसत्त्वम् विपक्षाद्व्या- वृत्तिरबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति । अबाधितः साध्यरूपो विषयो यस्य तत्तथोक्तम्, तस्य भावस्तत्त्वम् । एवं साध्याभावसाधकं हेत्वन्तरं यस्य, स सत्प्रतिपक्ष इत्युच्यते स नास्ति यस्य सोऽसत्प्रतिपक्षः, तस्य भावस्तत्त्व- मिति बोध्यम् । केवलान्वयि तु चतूरूपोपपन्नमेव स्वसाध्यं साधयितुं क्षमते, तस्य विपक्षविपर्ययेण तद्व्यावृत्तिविपर्ययात् । केवलव्यतिरेक्यपि तथा तस्य सपक्षविपर्ययेण तत्सत्त्वविपर्ययादिति, उपदर्शितरूपाणां मध्ये कतिपयरूपो- पपन्नत्वात् । अथ पृथिवीमात्रस्य पक्षत्वादित्यत्र किं नाम पक्षतेत्यपेक्षायां तां निर्वक्ति - सन्दिग्धेति । सपक्षवारणाय सन्दिग्धेति । हिन्दी १. अन्वयव्यतिरेकी हेतु पक्षसत्त्व, सपक्षसत्त्व, विपक्षव्यावृत्तत्व, अबाधितविषयत्व और असत्प्रतिपक्षत्वरूप पञ्चरूप से युक्त होकर साध्यकी सिद्धि करता है। केवलान्वयी हेतु तो चाररूपोंसे ही युक्त होकर अपने साध्यकी सिद्धि करता है। क्योंकि विपक्ष नही होनेसे विपक्षव्यावृत्तत्व नहीं मिल सकेगा। एवं केवलव्यतिरेकी हेतु भी चाररूपोंसे

१६६ तर्कसंग्रहः [ अनुमानपरिच्छेदः सपक्षस्य किं लक्षणम् ? — निश्चितसाध्यवान् सपक्षः । यथा-तत्रैव महानसम् । विपक्षस्य किं लक्षणम् ? — निश्चितसाध्याभाववान् विपक्षः । यथा तत्रैव महाह्रदः । हेत्वाभासाः कतिविधाः ? — सव्यभिचारविरुद्धसत्प्रतिपक्षासिद्धबाधिताः पञ्च हेत्वाभासाः । सव्यभिचारस्य लक्षणं किं, कतिविधश्च सः— सव्यभिचारोऽनैकान्तिकः । स त्रिविधः—साधारणासाधार- णानुपसंहारिभेदात् । पदकृत्यम् निश्चितेति । पक्षेऽतिव्याप्तिवारणाय निश्चितेति । तत्रैवेति । धूमवत्त्व- हेतावेवेत्यर्थः । निश्चितेति । सपक्षेऽतिव्याप्तिवारणाय साध्येति । पक्षेऽतिव्याप्तिवार- णाय निश्चितेति । तत्रैव—धूमवत्त्व एव । हेतून्निरूप्य प्रसङ्गाद्धेत्वाभासानाह—सव्यभिचारेति । हेतुवदाभासन्ते इति हेत्वाभासाः । १तत्त्वं चानुमितितत्करणान्यतरप्रतिबन्धकयथार्थज्ञान- विषयत्वम् । बाधस्थले 'वह्निरनुष्ण' इत्यनुमितिप्रतिबन्धकं यज्ज्ञानमुष्णत्व- वद्वह्नावुष्णत्वसाधकं द्रव्यत्वमित्याकारकं, तद्विषयत्वस्य विषयतासम्बन्धेन द्रव्यत्वरूपहेत्वाभासे सत्त्वाल्लक्षणसमन्वयः । सद्धेतुवारणाय यथार्थेति । घटा- दिवारणाय अनुमितितत्करणान्यतरप्रतिबन्धकेति । व्यभिचारिणि अव्याप्ति- वारणाय तत्करणान्यतरेति । हिन्दी ही युक्त होकर साध्यकी सिद्धि करता है। क्योंकि सपक्ष नहीं होनेसे सपक्षसत्त्वका अभाव रहेगा । १. अनुमिति और उसका करण व्याप्तिज्ञान इन दोनोंमें किसी एकका प्रतिबन्धक जो यथार्थज्ञान, अर्थात् सव्यभिचारत्व, विरुद्धत्व, सत्प्रतिपक्षत्व, असिद्धत्व और बाधित- त्वका यथार्थज्ञान, इसका जो विषय सव्यभिचार आदि, वे ही हेत्वाभास हैं । जैसे, बाधस्थलमें “वह्निरनुष्णः” इस अनुमितिका प्रतिबन्धक ज्ञान होगा “उष्णे वह्नौ अनु- ष्णत्वसाधकं द्रव्यत्वम्” इत्याकारक, उसकी विषयता द्रव्यत्वमें है । इसलिये द्रव्यत्व हेतु नहीं है किन्तु हेत्वाभास है ।