तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 178, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १६१ पक्षधर्मतायाः किं लक्षणम् ?— व्याप्यस्य पर्वतादिवृत्तित्वं पक्षधर्मता । अनुमानं कतिविधम् ?— अनुमानं द्विविधं—स्वार्थं परार्थं च । किं नाम स्वार्थानुमानम् ?— स्वार्थं स्वानुमितिहेतुः, तथाहि—स्वयमेव भूयोदर्शनेन यत्र यत्र धूमस्तत्र तत्राग्निरिति महानसादौ व्याप्तिं गृहीत्वा पर्वतसमीपं गतस्तद्गते चाग्नौ सन्दिहानः पर्वते धूमं पश्यन् व्याप्तिं स्मरति— पदकृत्यम् तच्च व्यभिचाराभावः । व्यभिचारश्च साध्याभाववद्वृत्तित्वम् । तथा च साध्याभाववदवृत्तित्वं व्याप्तिरिति पर्यवसन्नम् । महानसं वह्निमद् धूमादि- त्यादौ साध्यो वह्निस्तदभाववान् जलह्रदादिस्तद्वृत्तित्वं नौकादाववृत्तित्वं प्रकृते हेतुभूते धूमे इति कृत्वा १लक्षणसमन्वयः । धूमवान् वह्नेरित्यादौ साध्यो धूमस्तदभाववदयोगोलकं तद्वृत्तित्वमेव वह्न्यादाविति २नातिव्याप्तिः । ननु ज्ञातेयं व्याप्तिः, पक्षधर्मताज्ञानमित्यत्र का नाम पक्षधर्मता इत्य- पेक्षमाणं प्रति तत्स्वरूपं निरूपयति—व्याप्यस्येति । व्याप्यो नाम व्याप्या- श्रयः, स च धूमादिरेव, तस्य पर्वतादिवृत्तित्वं पक्षधर्मतेत्यर्थः । अथ कथमनुमानमनुमितिकरणं कथं वा तस्मादनुमितेर्जनिरिति जिज्ञास- मानं प्रति लाघवादनुमानविभागमुखेनैव बुबोधयिषुरनुमानं विभजते—अनु- मानमिति । द्वैविध्यं दर्शयति—स्वार्थं परार्थं चेति । ३स्वस्यार्थः प्रयोजनं यस्मात् तत् स्वार्थमिति समासः । स्वप्रयोजनं च स्वस्यानुमेयप्रतिपत्तिः । एवं परार्थमित्यस्यापि । अयमिति । व्याप्तिबलेन लीनमर्थं गमयतीति लिङ्गम्, तच्च धूमादि, तस्य परामर्शो ज्ञानविशेष इत्यर्थः । तस्मादिति । लिङ्गपरामर्शादित्यर्थः । स्वार्थानुमानमुपसंहरति—तदेतदिति । यस्मादिदं स्वप्रतिपत्तिहेतुस्तस्मादे- तत्स्वार्थानुमानमित्यर्थः । हिन्दी १. व्याप्तिलक्षणका समन्वय हुआ । २. व्याप्तिलक्षणकी अतिव्याप्ति नहीं हुई । ३. अनुमेय अर्थका ज्ञानरूप अपना प्रयोजन जिस अनुमानसे सिद्ध हो, वह स्वार्थानुमान है । तथा दूसरेको अनुमेयार्थज्ञानरूप प्रयोजन जिससे सिद्ध हो, वह परार्थानुमान है । ११