तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 170, कुल 199 में से
संदर्भ में पढ़ेंसहिन्दीपदकृत्यसहितः १५३ अयथार्थानुभवस्य लक्षणं किम् ? — तदभाववति तत्प्रकारकोऽनुभवोऽयथार्थः । ( यथा-शुक्ताविदं रजतमिति ज्ञानम् ) सैवाप्रमेत्युच्यते । यथार्थानुभवभेदाः के ? — यथार्थानुभवश्चतुर्विधः—प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणं कतिविधम् ? — तत्करणमपि चतुर्विधं—प्रत्यक्षानुमानोपमानशब्दभेदात् । पदकृत्यम् तदभावेति । १तदभाववद्विशेष्यकतत्प्रकारकोऽनुभवोऽयथार्थानुभव इत्यर्थः । यथा-शुक्तौ 'इदं रजतम्' इति ज्ञानम् । स्मृतिवारणायानुभव इति । यथार्थानुभवेऽतिव्याप्तिनिरसनाय तदभाववतीति । निर्विकल्पकवारणाय तत्प्रकारक इति । यथार्थेति । यथार्थानुभवः प्रत्यक्षमेवेति चार्वाकाः । अनुमितिरपीति काणादबौद्धौ । उपमितिरपीति नैयायिकैकदेशिनः । शाब्दमपीति नैया- यिकाः । अर्थापत्तिरपीति प्राभाकराः । आनुपलब्धिकोऽपीति भाट्टवेदान्तिनौ । साम्भविकैतिह्यकावपीति पौराणिकाः । चेष्टिकोऽपीति तान्त्रिकाः । एतेषां मतेऽस्वरसं सम्भाव्य तस्य चातुर्विध्यं दर्शितम् । तदिति । यथार्थानुभवात्मकप्रमायाः करणमित्यर्थः । असाधारणमिति । कालादिवारणायासाधारणमिति । व्यापारेऽति- व्याप्तिवारणाय २व्यापारवदित्यपि देयम् । व्यापारश्च—द्रव्यान्यत्वे सति हिन्दी १. 'तदभाववति' इस पदमें भी सप्तमीका अर्थ पूर्ववत् विशेष्यत्व होनेसे तदभाववद्विशेष्यक तत्प्रकारक अनुभव अयथार्थानुभव हुआ । जैसे शुक्तिमें रजतका ज्ञान अयथार्थ अनुभव हुआ । क्योंकि यहां विशेष्यभूत शुक्तिके रजतत्वाभावसे युक्त होनेसे उक्तज्ञान रजतत्वाभाववद्विशेष्यक और रजतत्वप्रकारक हुआ, अतः अयथार्थ है । २. व्यापारवत्पद देनेसे "व्यापारवदसाधारणं कारणं करणम्" यह करणका लक्षण निष्पन्न हुआ । व्यापारका लक्षण है—जो द्रव्यसे अन्य हो तथा कारणसे उत्पन्न होते हुए कारणसे उत्पन्न होनेवाले घटादिका जनक हो, वह व्यापार कहाता है । जैसे—चक्रभ्रमि क्रियारूप होनेसे द्रव्यसे भिन्न है तथा दण्डसे उत्पन्न होती हुई दण्डजन्य घटकी जनिका भी है, अतः चक्रभ्रमिको व्यापार कहते हैं ।