भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 166, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 166

सहिन्दीपदकृत्यसहितः १४९ तच्चतुर्विधम्-अणु महद्दीर्घं ह्रस्वं चेति । पृथक्त्वस्य किं लक्षणम् ? - पृथग्व्यवहारासाधारणकारणं पृथक्त्वम् । सर्वद्रव्यवृत्ति । संयोगस्य किं लक्षणम् ? - संयुक्तव्यवहारहेतुः संयोगः । सर्वद्रव्यवृत्तिः । विभागस्य किं लक्षणम् ? - संयोगनाशको गुणो विभागः । सर्वद्रव्यवृत्तिः । पदकृत्यम् वारणायासाधारणेति । शब्दत्ववारणाय कारणमिति । नवद्रव्येति । १चतुर्विधमपि परमध्यभेदेन द्विविधम् । तत्र परमाणुह्रस्वत्वे परमाणुमनसोः । मध्यमाणुह्रस्वत्वे द्वयणके । परममहत्त्वदीर्घत्वे गगनादौ । मध्यममहत्त्व- दीर्घत्वे घटादौ । एतन्मौक्तिकमण्विति व्यवहारस्यावकृष्टमहत्त्वाश्रयत्वाद् गौणत्वं बोध्यम् । एवमेव केतनाद्गवजनं ह्रस्वमित्यत्रापि निकृष्टदीर्घत्वाद् गौणत्वम् । पृथगिति । अयमस्मात्पृथगिति यो व्यवहारस्तस्य कारणं पृथक्त्व- मित्यर्थः । दण्डादिवारणाय पृथगित्यादि । कालादिवारणायासाधारणेति । २पृथग्व्यवहारत्ववारणाय कारणमिति । संयुक्तेति । इमौ संयुक्ताविति यो व्यवहारस्तस्य हेतुः संयोग इत्यर्थः । दण्डादिवारणाय संयुक्तव्यवहारेति । कालादिवारणायासाधारणेत्यपि देयम् । संयुक्तव्यवहारत्वेऽतिप्रसक्तिवारणाय हेतुरिति । उपदर्शितलक्षण- चतुष्टयेऽसाधारणपदं देयम् । क्वचित्पुस्तके परिमाणपृथक्त्वलक्षणे ईश्वरे- च्छादिवारणायासाधारणेति दृश्यते, तत्तवाधुनिकैर्न्यस्तमिति बोध्यम् । संयोगेति । संयोगनाशजनक इत्यर्थः । कालेऽतिप्रसक्तिवारणाय गुण- पदम् । ईश्वरेच्छादिवारणायासाधारणेत्यपि बोध्यम् । ननु ३असाधारणपदो- पादाने गुणपदस्य वैयर्थ्यं स्यादिति चेत्, क्रियायामतिप्रसक्तिवारणाय तस्याप्यावश्यकत्वात् । हिन्दी १. परम अणुत्व, मध्यम अणुत्व, परममहत्त्व, मध्यममहत्त्व, परमदीर्घत्व, मध्यम- दीर्घत्व परमह्रस्वत्व, मध्यमह्रस्वत्व इस प्रकार परिमाणके आठ भेद हो जाते हैं । २. कारणपद न देनेपर पृथग्व्यवहारका असाधारणधर्म जो पृथग्व्यवहारत्व है, उसमें अतिप्रसङ्ग हो जायगा । ३. असाधारणपद देनेसे ही कालमें अतिव्याप्तिका निवारण हो जायगा, अतः गुणपद व्यर्थ है—ऐसा नहीं कहा जा सकता, क्योंकि संयोगनाशका असाधारणकारण क्रिया भी है, अतः उसमें अतिव्याप्तिवारणके लिये 'गुण' पद भी आवश्यक है ।