तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 167, कुल 199 में से
संदर्भ में पढ़ें१५० तर्कसंग्रहः [ प्रत्यक्षपरिच्छेदः परत्वापरत्वयोः किं लक्षणं, के च भेदाः ?— परापरव्यवहारासाधारणकारणे परत्वापरत्वे । पृथिव्यादि- चतुष्टयमनोवृत्तिनी । ते च द्विविधे-दिक्कृते कालकृते चेति । दूरस्थे दिक्कृतं परत्वं, कनिष्ठे कालकृतमपरत्वम् । ज्येष्ठे कालकृतं परत्वं, कनिष्ठे कालकृतमपरत्वम् । गुरुत्वस्य किं लक्षणम् ?— आद्यपतनासमवायिकारणं गुरुत्वम् । पृथिवीजलवृत्ति । द्रवत्वस्य किं लक्षणं, के च भेदाः ?— आद्यस्यन्दनासमवायिकारणं द्रवत्वम् पृथिव्यप्तेजोवृत्ति । तद्द्विविधम्-सांसिद्धिकं नैमित्तिकं च । सांसिद्धिकं जले । नैमित्तिकं पृथिवीतेजसोः । पृथिव्यां घृतादावग्निसंयोगजं द्रवत्वं, तेजसि सुवर्णादौ । स्नेहस्य किं लक्षणम्, कुत्र च स. ?— चूर्णादिपिण्डीभावहेतुर्गुणः स्नेहः । जलमात्रवृत्तिः । पदकृत्यम् परेति । परव्यवहारासाधारणं कारणं परत्वम् । अपरव्यवहारासाधारणं कारणमपरत्वमित्यर्थः । दण्डादिवारणाय परव्यवहारेति । कालादिवारणा- यासाधारणेति । परव्यवहारत्ववारणाय कारणेति । एवमेव द्वितीयेऽपि बोध्यम् । आद्येति । दण्डादिवारणायासमवायीति । १रूपादिवारणाय पतनेति । २वेगेऽतिव्याप्तिवारणायाद्येति । आद्यस्यन्दनेति । दण्डादिवारणायासमवायीति । रसादिवारणाय स्यन्दनेति । चूर्णादीति । चूर्ण = पिष्टं, तदेवादिर्यस्य मृत्तिकादेः, स चूर्णादिस्तस्य पिण्डीभावः संयोगविशेषस्तस्य हेतुर्निमित्तकारणं स्नेह इत्यर्थः । कालादाव- तिव्याप्तिवारणाय गुणपदम् । रूपादावतिव्याप्तिवारणाय पिण्डीभावेति । चूर्णपदं स्पष्टार्थम् । हिन्दी १. अवयविगत आद्य रूपादिको असमवायिकारण अवयवगतरूपादि भी होता है, अतः रूपादिमें गुरुत्वलक्षणके अतिव्याप्तिवारणके लिये पतनपद दिया । २. द्वितीयादिपतनका कारण वेग होता है, अतः उसमें अतिव्याप्तिवारणार्थ आद्यपद दिया ।