तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
११८ तर्कसंग्रहे [ अनुमानपरिच्छेदः भवन्ति । वैयधिकरण्यञ्च तदधिकरणेऽविद्यमानत्वम् । साध्याभाववद्वृत्तित्वमिति लघुलक्षणे यद्वृत्तित्वमस्ति, तस्यैव वृत्तित्वाभावः अर्थात् वृत्तित्वत्वावच्छिन्नवृत्ति- त्वनिष्ठप्रतियोगितानिरूपकाभाव इत्यर्थः । पर्वतो वह्निमान् धूमादित्यास्य लक्षणस्य समन्वयस्त्वित्थम्—साध्यता- वच्छेदकसंयोगसम्बन्धावच्छिन्ना, साध्यतावच्छेदकवह्नित्वधर्मावच्छिन्ना च या वह्निष्ठा प्रतियोगिता तादृशप्रतियोगिताकोऽभावो वह्न्यभावः, स चाभावः प्रतियोगितावच्छेदकसंयोगसम्बन्धावच्छिन्नप्रतियोगितावच्छेदकवह्नित्वधर्मावच्छिन्न- वैयधिकरण्यावच्छिन्नोऽप्यस्ति, वह्न्यधिकरणे पर्वते वह्न्यभावस्याविद्यमानत्वात् । तादृशवह्न्यभाववान् ह्रदादिः, तन्निरूपितं यत् हेतुतावच्छेदकीभूतसंयोगसम्बन्धा- वच्छिन्नं वृत्तित्वं, तत् मत्स्यादौ शैवालादौ च वर्तते, तादृशवृत्तित्वनिष्ठं यद् वृत्तित्वत्वं, तदवच्छिन्ना या वृत्तित्वनिष्ठा प्रतियोगिता, तन्निरूपकाभावोऽर्थात् वृत्तित्वाभाव धूमे हेतौ वर्तते इति तत्र व्याप्तिलक्षणसमन्वयः । एवविधाया व्या.बो. व्याप्तेः पूर्वपक्षरूपत्वात् पूर्वोक्तायाः सिद्धान्तव्याप्तेरेव युक्तत्वात् पूर्वपक्षव्याप्तौ पृ.४४. दूषणमाह तच्चेति । केवलान्वयिनि—केवलान्वयिसाध्यके 'इदं वाच्यं ज्ञेयत्वा- दि'त्यादिस्थले इत्यर्थः । अव्याप्तमिति । संसारे कोऽपि पदार्थो नास्ति यो वाच्यो न भवेत्, तथा च वाच्यत्वाभावो न कुत्राप्यायास्यतीति वाच्यत्वाभावाधिकरणा- प्रसिद्ध्या तद्वृत्तित्वादिकं सर्वमेवाप्रसिद्धमिति अप्रसिद्धिगिबन्धनाऽव्याप्तिरिति भावः । स्वार्थानुमानपरार्थानुमानभेदेनानुमानं द्विविधमित्युक्तं मूले, तत्र स्वार्थानुमा- नस्यार्थमाह—स्वार्थानुमानं नामेति । न्यायेन = प्रतिज्ञाहेतूदाहरणोपनयनिग- मनसमुदायेनाप्रयोज्यमनुमानं स्वार्थमित्यर्थः । परार्थानुमानमाह — न्यायेति । न्यायेन = उक्तसमुदायेन प्रयोज्यमनुमानं परार्थमित्यर्थः । स्वार्थानुमाने प्रतिज्ञादीनां नावश्यकता, परार्थानुमाने तु प्रतिज्ञादिकमावश्यकमिति भावः । कथमित्यस्य तु न्या.बो. मूले एवास्त्युत्तरम् । न्यायत्व किमिति प्रश्ने आह — न्यायत्वञ्चेति । अवयवत्वं पृ.४५. किमित्याह- अवयवत्वञ्चेति । प्रतिज्ञान्यतमत्वन्तु प्रतिज्ञाभिन्नत्वे सति हेतुभिन्नत्वे सति उदाहरणभिन्नत्वे सति उपनयभिन्नत्वे सति निगमनभेदवान् यस्तत्प्रतियोगिकभेदवत्त्वम् । न्या.बो. अन्वयव्यतिरेकि, केवलान्वयि, केवलव्यतिरेकि चेति लिङ्गं त्रिविधम् । पृ.४६. 'हेतुरपदेशो लिङ्गं करणमित्यनर्थान्तरमिति' कणादसूत्रानुसारं लिङ्गपदेन हेतुर्गृह्यते । तत्रान्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकीति मूलोक्तं प्रथम- लिङ्गस्वरूपं व्याख्यातुमाह—अन्वयेनेतीति । अन्वयेन व्याप्तिमदित्यस्यार्थमाह- व्यापकेति । सिद्धान्तिनां पूर्वोक्तहेतुव्यापकसाध्यसामानाधिकरण्यरूपाऽन्वयव्याप्ति-
मानिति तात्पर्यम् । व्यतिरेकेण व्याप्तिमदित्यस्यार्थमाह — व्यतिरेकेणेतीति । व्यतिरेकशब्दस्य वाच्यार्थमाह — व्यतिरेको नामाभाव इति । भावार्थमाह — तथाचेति । अन्वयव्याप्तिर्हि साध्यहेत्वोर्भवति, व्यतिरेकव्याप्तिस्तु साध्याभाव- हेत्वभावयोर्भवतीत्याशयः । इयमपि व्याप्तिः साहचर्यरूपैव, किन्तु अन्वयव्याप्तौ हेतुसाध्ययोः साहचर्यम्, अत्र तु साध्याभावहेत्वभावयोः साहचर्यमिति विशेष इत्याह -- इयञ्चेति । यथा यत्र यत्र धूमस्तत्र तत्र वह्निरिति साहचर्यमन्वय- व्याप्तिर्भवति तथैव यत्र यत्र वह्नयभावस्तत्र तत्र धूमाभाव इति साहचर्यं व्यतिरेक- न्या.बो.व्याप्तिर्भवतीत्यर्थः । यथान्वयव्याप्तौ 'यत्र' पदवीप्सया वह्नौ धूमव्यापकत्वं लभ्यते, पृ.४७.तथात्रापि यत्रपदवीप्सया धूमाभावे वह्नयभावव्यापकत्वं लभ्यत इत्याह — यत्रपदवीप्सेयेति । ननु वह्निधूमयोः साहचर्यात् यथान्वयव्याप्तिः धूमनिष्ठा भवति तथात्रापि यत्र यत्रेति साहचर्यनियमात् व्यतिरेकव्याप्तिर्वह्नयभावनिष्ठा भवति । तथा च धूमः अन्वयव्याप्तिमान् भवन्नपि व्यतिरेकव्याप्तिमान्न भवति, तर्हि कथं धूमहेतु- रन्वयव्यतिरेकित्वेन गीयते इत्यत आह — एवञ्चेति । अयं भावः — व्यतिरेक- व्याप्तिर्यद्यपि वह्नयभावनिष्ठा भवति तथापि स्वाश्रयीभूतवह्नयभावव्यापकी- भूताभावप्रतियोगित्वरूपलम्बायमानसम्वन्धेन धूमनिष्ठैवास्ति । तत्र स्वं व्यतिरेक- व्याप्तिः, तदाश्रयीभूतो वह्नयभावः, तद्व्यापकीभूतोऽभावः धूमाभावः, तत्प्रति- योगित्वं धूमेऽस्तीत्येतेन सम्बन्धेन व्यतिरेकव्याप्तेः धूमनिष्ठतया धूमो व्यतिरेक- व्याप्तिमान् भवति, एवं पूर्वोक्तधूमव्यापकवह्निसमानाधिकरण्यरूपान्वयव्याप्ति- मांश्च भवतीति तस्यान्वयव्यतिरेकिलिङ्गत्वेन गीयमानता युक्तैवेति । व्यतिरेक- परामर्शस्य स्वरूपमाह — व्यतिकेरेति । न्या बो. द्वितीयलिङ्गस्वरूपं व्याख्यातुमाह -- केवलान्वयिन इति । केवलान्वयिनो पृ.४८. मूलोक्तलक्षणे मात्रपदस्यार्थकथनपुरःसरं तत्स्वरूपमाह — व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्त्वं केवलान्वयित्वमिति । यथा-घटोऽभिधेयः प्रमेयत्वादित्यत्र केवलमन्वयव्याप्तिरेवास्ति 'यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्व'मिति, न तु व्यतिरेकव्याप्तिरस्ति, प्रमेयत्वाभिधेयत्वयोरखिले जगति सत्त्वेन तदभावस्यैवा- प्रसिद्धेः । अतः प्रमेयत्वं लिङ्गं केवलान्वयि । लक्षणान्तरमाह -- अथवेति । केवलान्वयि साध्यं यस्य तत् केवलान्वयि लिङ्गं भवतीत्यर्थः । अथवेति लक्षणान्तरकरणे निमित्तमाह — एतच्चेति । तदेवोपपादयति -- साध्यस्येति । अयं भावः — यद्यपि 'इदमभिधेयं द्रव्यत्वात्' इत्यत्रत्यो द्रव्यत्वहेतुः व्यतिरेकी अस्ति, तथापि साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तिर्न भविष्यति । यतो हि यत्र यत्र द्रव्यत्वाभावः इति तु वक्तुं
१२० तर्कसंग्रहे [ अनुमानपरिच्छेदः शक्यते, किन्तु तत्र तत्र अभिधेयत्वाभाव इति न शक्यते वक्तुं, तथा चैतावतेवात्र व्यतिरेकव्याप्तिर्नैव सम्भविनीति अन्वयमात्रव्याप्तिकं केवलान्वयीति मूलोक्तं लक्षणमुपपद्यत इत्याशयः । ननु साध्ये कीदृशं केवलान्वयित्वमुच्यते इत्यत आह - अत्यन्तेति । अत्यन्ताभावस्य न प्रतियोगी यत् साध्यं, तत् केवलान्वयि भवतीत्यर्थः । संसारे कुत्रापि अभिधेयत्वाभावो नास्तीति तस्मादभिधेयत्वे प्रतियो- गित्वमपि नास्ति । अतोऽभिधेयत्वं साध्यं केवलान्वयि, केवलान्वयिसाध्यकत्वाच्च द्रव्यत्वं लिङ्गं केवलान्वयि भवतीति भावः । ननु निरुक्तं केवलान्वयित्वं गगनाभावे संयोगाभावे चाव्याप्तम्, गगनाभावस्य, गगनस्वरूपो योऽभावो गगनाभावाभावः तत्प्रतियोगित्वात्, एवं संयोगाभावस्यापि संयोगस्वरूपसंयोगाभावाभावप्रतियोगित्वादिति शङ्कते - नचेति । उत्तरयति - न्या.बो. स्वविरोधीति । स्वविरोधी, वृत्तिमांश्च योऽभावः, तदप्रतियोगित्वं केवलान्व- पृ.४८. यित्वम् । स्वपदेन प्रतियोगी ग्राह्यः । तथा च गगनाभावः गगनाभावाभावस्य प्रतियोगी वर्तते किन्तु स गगनाभावाभावः वृत्तिमान्नास्ति, गगनाभावाभावस्य गगनस्वरूपतया गगनस्य वृत्तिमत्त्वानभ्युपगमात् । एवं संयोगाभावोऽपि यद्यपि संयोगाभावाभावस्य प्रतियोगी वर्तते तथापि स संयोगाभावाभावः संयोगस्वरूप- तया वृत्तिमानस्ति किन्तु स्वपदग्राह्यस्य संयोगाभावरूपप्रतियोगिनः विरोधी नास्ति, यत्र वृक्षे मूलावच्छेदेन कपिसंयोगाभावो विद्यते तत्रैव वृक्षे शाखावच्छेदेन कपिसंयोगस्यापि सत्त्वात् । वृक्षे देशभेदेन संयोगोऽपि विद्यते संयोगाभावोऽपि विद्यत इत्याशयः । तथा च गगनाभावे संयोगाभावे च स्वविरोधिद्वृत्तिमदभावप्रति- योगित्वाभावात् तयोः केवलान्वयित्वमक्षतम् । नव्यरीत्या केवलान्वयित्वमाह - एकेति । एकजातीयसम्बन्धेन-स्वरूपेण गगनाभावसंयोगाभावयोः सर्वत्र विद्यमान- त्वेन तयोः केवलान्वयित्वमिति भावः । केवलव्यतिरेकत्वं व्याकर्तु मारभते - केवलव्यतिरेकिण इति । निश्चि- तेति । अन्वयव्यतिरेकव्याप्त्योः स्वरूपं तु प्रदर्शितमेव । केवलव्यतिरेकि लिङ्ग- मुदाहरति - यथेति । पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यत्र गन्धवत्त्वं लिङ्गं केवलव्यतिरेकि, यत्र यत्र गन्धवत्त्वं तत्र तत्र इतरभेदवत्त्वमित्यन्वयव्याप्तेः, सकलाया गन्धवत्पृथिव्याः पक्षत्वेन, ग्रहासम्भवात् । किन्तु यत्रेतरभेदो नास्ति, तत्र गन्धवत्त्वमपि नास्तीति व्यतिरेकव्याप्तेरेवात्र संभवात् इति भावः । न्या.बो. एतदेवोपपादयति - अत्रेत्यादिना प्रदर्शितवानित्यन्तेन ग्रन्थेन । गन्ध- पृ.५०. व्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्याप्तिग्रहाभावे हेतुरुक्तः - अत्र यद्गन्ध- वदिति । ‘पृथिवी इतरेभ्यो भिद्यते’ इत्यनुमितौ हेतुभूतं व्यतिरेकव्याप्तिघटितं परामर्श- स्वरूपमाह - एवम्प्रकारेणेति । इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती
न्यायबोधिनी-संस्कृत-कला १२१ पृथिवीति परामर्शकारः । यत्र यत्र इतरभेदाभावोऽस्ति यथा जले, तत्र गन्धा- भावो विद्यतेऽत इतरभेदाभावव्यापकीभूताभावः गन्धाभावः, तत्प्रतियोगी गन्धः, तद्वती पृथिवीति परामर्शवाक्यार्थः । पृथिवीत्वावच्छिन्नोद्देश्यता निरूपितेतरभेद- त्वावच्छिन्नविधेयताकः इत्यनेन 'पृथिवी इतरेभ्यो भिन्ना' इत्यस्यार्थः उक्तः । यथा जलमित्यादेर्मूलस्य यथाश्रुतमर्थमाह-यथाश्रुतमूलार्थस्त्विति । मूलोक्तस्य यदिति पदस्य जलमित्यर्थः । 'इतरेभ्यो न भिद्यते' इति मूलस्य इतरभेदाभाव- वदित्यर्थः । न तद् गन्धवदित्यस्यार्थः 'जलमितरभेदाभावव्यापकगन्धाभावव' दिति । एव सति मूलकारस्य कोऽभिप्रायो निःसृत इत्याह - इत्येवं प्रकारेणेति । अनेन व्यतिरेकयोः साध्याभावहेत्वभावयोः व्याप्तिः प्रदर्शिता । 'न चेयं तथे' त्यत्रेयंपदार्थमाह- इयं पृथिवीति । “न तथा" इत्यस्यार्थः - इतरभेदाभाव- व्यापकगन्धाभाववती न किन्तु तदभावात्मकगन्धवतीति । तस्मान्न तथेति मूले 'तस्मात्' पदस्यार्थः - गन्धाभावाभाववत्त्वादिति । 'न तथे' त्यस्यार्थमाह- इतरभेदाभाववती न किन्तु इतरभेदाभावाभाववती अर्थात् इतरभेदवतीत्यर्थ इति । न्या.बो. पक्षलक्षणव्याख्यानायावतारयति - सन्दिग्धेतीति । मूललक्षणार्थमाह - पृ.५१. साध्यप्रकारकेति । साध्यं प्रकारो यस्य स साध्यप्रकारकः सन्देहः, तत्र यो विशेष्यः सः पक्ष इत्यर्थः । साध्यप्रकारकः संदेहः कीदृशो भवतीत्याह-सन्देह- श्चेति । तथा च पर्वत वह्निमान्नवेति संदेहे पर्वतस्य विशेष्यतया पर्वत एव पक्ष इति भावः । इदं च प्राचां लक्षणम्, तेषां मतेऽनुमितिपूर्वं पक्षे साध्यसन्देहस्याव- श्यमुत्पत्तेः स्वीकारात् । किन्तु नव्यानां नैष पन्थाः । ते हि गगनं मेघवन्नवेति संदे- हाभावेऽपि गगनस्य पक्षत्वसत्त्वेन घनगर्जितश्रवणेन 'गगनं मेघवदिति' गृहान्तर्वर्ति- पुरुषस्यानुमितिर्भवतीति दृष्ट्वा साध्यप्रकारक सन्देह विशेष्यत्वं पक्षत्वमिति नानु- मन्यन्ते, किन्तु अनुमित्युद्देश्यत्वं पक्षत्वम् । तथा च मेघानुमितौ साध्यसन्देहा- भावेऽपि अनुमित्युद्देश्यतया गगनस्य पक्षत्वं नव्यमते उपपन्नम् । इति सर्वमाह- इदञ्चेत्यादिना स्थिरीकृतमित्यन्तेन । न्या.बो. सपक्षलक्षणं व्याख्यातुमवतारयति - निश्चितेतीति । साध्यप्रकारको यो पृ.५२. निश्चयः तद्विशेष्यत्वं सपक्षत्वमिति भावः । साध्यप्रकारकं निश्चयमाह - निश्चयश्चेति । तथा चानुमितेः पूर्वं महानसे साध्यस्य निश्चयसत्त्वात् महानसं सपक्षो भवति । विपक्षतं व्याचष्टे - साध्याभावेति । साध्याभावप्रकारको यो निश्चयः तद्विशेष्यत्वं विपक्षत्वमित्यर्थः । निश्चयप्रकारमाह - निश्चय- श्चेति । तथा चात्र वह्न्यभावप्रकारके निश्चये ह्रदस्य विशेष्यत्वेन ह्रदो विपक्षः कथ्यते । पर्वतो वह्निमानित्यनुमितौ पर्वतः पक्षः, महानसं सपक्षः, ह्रदो विपक्ष इति तात्पर्यम् ।
१२२ तर्कसंग्रहे [ अनुमानपरिच्छेदः इदमपर्यन्तं सद्धेतवो व्याख्याताः, इतो हेत्वाभासान् ( असद्धेतून् ) व्याख्या- तुमारभते—एवमिति । हेत्वाभासपदार्थमाह— हेतुवदिति । हेतुवद् ये आभा- सन्तेमात्रं, न तु वस्तुतो हेतवस्ते हेत्वाभासा इत्यर्थः । दुष्टहेतव इति यावत् । ते च हेत्वाभासाः पञ्च । तथा च गौतमसूत्रम्— "सव्यभिचार-विरुद्ध प्रकरणसम- साध्यसम-कालातीता हेत्वाभासा।" (१।२।४) । ननु के दोषाः यैर्दोषैर्हेतवो न्या.बो. दुष्टहेतव इति कथ्यन्ते ? तत्राह—दोषाश्चेति । ननु व्यभिचारादिदोषः साक्षात्- पृ.५३. सम्बन्धेन हेतौ तिष्ठतीति सव्यभिचारो हेतुः दुष्टः प्रतिपाद्यतान्नाम किन्तु ये बाधादिदोषाः हेतौ न तिष्ठन्ति । किन्तु पक्षादौ एव तिष्ठन्ति, तत्रत्यहेतवः कथ दुष्टाः कथ्येरन्निति शङ्कामपाकर्त्तुमाह— एकज्ञानेति । तथा च एकज्ञानविषय- प्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन सर्वे एव हेतवो दोषवन्तो भविष्यन्तीति न कापि क्षतिः । पृथक् पृथक् दोषलक्षणानि त्वग्रे वक्ष्यन्ते, इह पञ्चविधदोषसाधारणं लक्षणं तावदाह— यद्विषयकत्वेनेति । अत्र तृतीयाया अवच्छिन्नत्वमर्थः । ज्ञानस्येति षष्ठ्या निष्ठत्वमर्थः । तथा च यद्विषयकत्वावच्छिन्न ज्ञाननिष्ठमनुमितितत्करणा- न्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यलक्षणम् । यद्विषयकं ज्ञानम् अनुमितितत्क- रणान्यतरप्रतिबन्धकं स दोष इति तात्पर्यम् । अयं भावः—दोषा हि अनुमिति तत्करणीभूतं व्याप्तिज्ञानञ्च प्रतिबध्नन्ति । तत्र प्रतिबन्धकता दोषज्ञानेऽस्ति, प्रतिबध्यता चानुमितितत्करणीभूतव्याप्तिज्ञान- योरस्ति । एवं सति लक्ष्यतालक्ष्योक्तनियमानुसारं दोषज्ञाननिष्ठाया अनुमिति- तत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताया अवच्छेदकं दोषविषयक- ज्ञानत्वम् । एवं दोषज्ञाननिष्ठोक्तप्रतिबन्धकता दोषविषयकज्ञानत्वावच्छिन्ना (दोषविषयकत्वावच्छिन्ना ) भवति । तथा च यद्विषयकत्वावच्छिन्ना दोषज्ञान- निष्ठा अनुमितितत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकता तत्त्वं दोषत्व- मिति पर्यवसितम् । यथा ह्रदो वह्निमानित्यनुमितौ वह्न्यभाववद्ध्रद इत्याका- रकबाधो दोषः । तत्र वह्न्यभाववद्ध्रदविषयकं ह्रदो वह्न्यभाववानिति ज्ञाने सति ह्रदो वह्निमानित्यनुमितिर्न जायते, तथा च ह्रदो वह्निमानित्यनुमितिनिष्ठ- प्रतिबध्यतानिरूपितप्रतिबन्धकताया वह्न्यभाववद्ध्रदविषयके ज्ञाने सत्त्वेन एतत्स्थले वह्न्यभाववद्ध्रदरूपबाधदोषः । एवं धूमवान् वह्नेरित्यनुमितिस्थले धूमाभाववद्वृत्तित्वं वह्निगतं व्यभिचारनामकदोषः । तत्र धूमाभाववद्वृत्तिर्वह्नि- रिति व्यभिचारज्ञाने सति धूमाभाववद्वृत्तिर्वह्निरिति व्याप्तिज्ञानं न जायते । तथा च धूमाभाववद्वृत्तिर्वह्निरिति व्याप्तिज्ञानरूपानुमितिकरणनिष्ठप्रतिबध्यता- निरूपितप्रतिबन्धकताया धूमाभाववद्वृत्तित्वरूपव्यभिचारज्ञाने सत्त्वेन एतत्स्थले
न्यायबोधिनी-संस्कृत-कला १२३ धूमाभाववद्वृत्तित्वरूपो व्यभिचारो दोषः । तद्वत्त्वाच्च वह्निहेतुः व्यभिचारी भवति । दुष्टहेतुनिरूपणस्य प्रयोजनमाह-हेतौ दोषज्ञाने इति । सव्यभिचारं व्याख्यातुमारभते - सव्यभिचारमिति । लक्षणमाह- साधारणाद्यन्यतमत्वमिति । अन्यतमपदार्थस्तु पूर्वमुक्तः । साधारणत्वस्वरूप- माह-साध्याभाववद्वृत्तित्वमिति । फलनिर्देशसहितमुदाहरणमाह - वह्नि- मान् प्रमेयत्वादिति । अत्र साध्यो वह्निः, तदभाववान् हृदादिः, तत्र प्रमेयत्वस्य न्या.बो. वृत्तित्वमिति लक्षणसमन्वयः । असाधारण इतीति । सर्वसपक्षविपक्षव्यावृत्तत्वे पृ. ५४. सति पक्षमात्रवृत्तित्वम् इत्यसाधारणलक्षणे सर्वसपक्षव्यावृत्तत्वस्यार्थमाह- निश्चितेति । सपक्षपदेन निश्चितसाध्यवतो ग्रहणात् व्यावृत्तत्वपदस्यावृत्तित्वार्थ- कत्वाच्चेति भावः । साध्यवद्वृत्तित्वपदस्य साध्यसामानाधिकरण्यमित्यर्थ इत्याह - साध्यवद्वृत्तित्वमिति । एवं रीत्यैव सर्वविपक्षव्यावृत्तत्वमपि निश्चितसाध्याभावासामानाधिकरण्यरूपं ज्ञेयम् । वायुक्तदुष्टहेतौ एवंविधासाधारण- त्वज्ञानस्य फलमाह - हेताविति । न्या.बो. अनुपसंहारिलक्षणं व्याख्यातुमाह-अनुपसंहारिणं लक्षयतीति । अन्वय- पृ. ५५. व्यतिरेकदृष्टान्तरहितत्वमनुपसंहारित्वमित्यस्य तात्पर्यमाह - उभयत्रेति । दृष्टा- न्ताभावादिति = सपक्षविपक्षयोरभावादित्यर्थः । हेतुमाह - सर्वस्यैवेति । पक्षत्वात् = सन्दिग्धसाध्यवत्त्वात् । पक्षातिरिक्तप्रसिद्धेरिति - निश्चितसाध्यवतो निश्चितसाध्याभाववतश्चाप्रसिद्धेरुभयी अपि व्याप्तिर्नास्तीति भावः । तथा चात्रा- नुमितिहेतुः परामर्श एव न सेत्स्यतीत्याशयः । परिष्कृतमनुपसंहारित्वमाह- किञ्चिदिति । किञ्चिद्विशेष्यको यो निश्चयः तद्विषयीभूतं साध्यं यस्य हेतोः स किञ्चिद्विशेष्यकनिश्चयाविषयसाध्यकः, तत्त्वे सति, किञ्चिद्विशेष्यकनिश्चयस्या- विषयीभूतः साध्याभावो यस्य हेतोः स हेतुः किञ्चिद्विशेष्यकनिश्चयाविषयसाध्या- भावकः, तत्त्वमनुपसंहारित्वमित्यर्थः । यादृशेन हेतुना तत् साध्यमनुमीयेत यत् साध्यमन्यत्र ( पक्षातिरिक्ते ) क्वचित् निश्चितं न स्यात् न वा तदभाव ( साध्या- भाव ) एव क्वचिन्निश्चितो भवेत्, स हेतुग्नुपसंहारी भवतीत्याशयः । अनुपसंहा- रित्वज्ञानस्य फलमाह - एतदीयेति । व्याप्तिसंशयजननद्वारेति । यत्र साध्य- साध्याभावान्यतरनिश्चयः क्वाचदपि न भवति, तत्र साध्यहेत्वोः साध्याभावहेत्व- भावयोर्वा साहचर्यरूपव्याप्तिनिश्चयो नैव जायते अपि तु व्याप्तिसंशय एव जायते, तत्रेत्यर्थः । साध्याभाववदवृत्तित्वमेव व्याप्तिर्युक्ता, केवलान्वयी हेतुश्चानुपसंहारिणि अन्तर्भावनीय इत्याशयेनानुपसंहारित्वं वस्तुगत्या लक्षयति - वस्तुतस्त्विति ।
१२४ तर्कसंग्रहे [ अनुमानपरिच्छेदः न्या.बो. विरुद्धं हेत्वाभासं व्याख्यातुमुपक्रमते—विरुद्धं लक्षयतीति । साध्या- पृ.५६.भावव्याप्त इति । साध्याभावव्याप्तिमानित्यर्थः । का साध्याभावव्याप्ति- रित्याह—साध्याभावव्याप्तिः साध्याभावनिरूपितव्यतिरेकव्याप्तिरिति । एतस्या एव पूर्वोपदर्शितं स्वरूपमाह—साध्यव्यापकीभूताभावप्रतियोगित्वमिति । साध्यं सिषाधयिषुर्वादो साध्यव्याप्तं हेतुमनुपन्यस्य साध्याभावव्याप्तमेवोपन्यस्त- वानतः स स्वयमेव निगृहीतो भवतीत्याशयानः टीकाकार एतज्ज्ञानफलमाह— तथा चेति । सत्प्रतिपक्षस्थलेऽपि एवमेवानुमितिप्रतिबन्ध इत्यतिदिशति— एवमिति । ननु यदि विरुद्धसत्प्रतिपक्षयोरुभयत्रापि एकदिशैवानुमितिप्रतिबन्ध- स्तदा तयोः को भेद इत्याह - विरुद्धसत्प्रतिपक्षयोरिति । विरुद्धस्थले एक एव हेतुर्भवति यः साध्यसाधकत्वेनोपन्यस्यमानोऽपि साध्याभावमेव साधयति, सत्प्रतिपक्षस्थले तु द्वौ हेतू भवतः, एकः साध्यसाधकत्वेनोपन्यस्तोऽपरश्च साध्या- भावसाधकत्वेनोपन्यस्त इति तयोर्भेदः । न्या.बो. सत्प्रतिपक्षस्वरूपमाह—साध्याभावेति । साध्याभावव्याप्यः प्रतिहेतुरर्थात् पृ.५७.द्वितीयः प्रतिद्वन्द्वी हेतु., तद्वान् पक्षो यद्धेतो सति, स सत्प्रतिपक्ष इत्यर्थः । तयोरपरं भेदकारणमाह—साध्याभावेति । साध्याभावसाधकस्यैव हेतोः अज्ञान- वशात् साध्यसाधकत्वेनोपन्यस्तत्वात् वादिनोऽतितरामसामर्थ्यं सूचितं भव- तीत्याशयः । नामतोऽसिद्धभेदाः प्रतिपादिता अपि लक्षिता नेति तल्लक्षणमाह—आश्रया- सिद्धिमिति । पक्षताया अवच्छेदको यो धर्मस्तद्विशिष्टस्य पक्षस्याप्रसिद्धि- रित्यर्थः । मूलोपदर्शितादेवोदाहरणात् एतज्ज्ञानफलमाह—अत्रेति । गगनीयत्वं गगनसम्बन्धित्वमित्यर्थः । न्या.बो. स्वरूपासिद्धिमाह—स्वरूपासिद्धिनमिति । एतादृशो हेतुरुपादीयते यश्च पृ.५८. पक्षे स्यादेव नेत्यर्थ ! एतज्ज्ञानफलमाह—तथा चेति । परामर्शे हि पक्षो हेतु- मत्तया ज्ञायते, तथा च पक्षस्य हेतुशून्यत्वेऽनुमितिहेतुभूतः परामर्श एव नोत्पद्यते इत्यर्थः । व्याप्यत्वासिद्धं हेत्वाभासं व्याख्यातुं प्रतीकमूपादते—व्याप्यत्वासिद्ध इतीति । सोपाधिको हेतुर्व्याप्यत्वासिद्ध इति मूलोक्तं लक्षणम् । उदाहरणमपि मूल एवास्ति । इतः “व्यभिचारस्यानुमानमुपाधेस्तु प्रयोजनम्” इति रीत्या कथमुपाधिना हेतौ व्यभिचारित्वमनुमीयत इति स्पष्टयितुं पूर्वं भूमिका- मारचयति—प्रकृते इति । उपाधिर्हि साध्यव्यापकत्वे सति साधनाव्यापकः । यथा धूमवान् वह्नेरित्यनुमितिस्थले साध्यो धूमः साधनं वह्निरस्ति । यत्र यत्र धूमोऽस्ति तत्र तत्रार्द्रेन्धनसंयोगोऽस्ति अत आर्द्रन्धनसंयोगो धूमव्यापकः । एवं
सति सुतरां धूम आर्द्वेन्धनसंयोगव्याप्य इत्याह - धूमव्यापकत्वमिति । एवं यत्र यत्र वह्निरस्ति तत्र तत्रार्द्रेन्धनसंयोगो नास्ति यथा अयोगोलके, अत आर्द्वेन्धन- संयोगः साधनस्य वह्ने रध्यापको विद्यते । तथा च सुतरां वह्नौ आर्द्वेन्धनसंयोगा- व्याप्यत्वं सिद्धमित्याह - एवमिति । अव्याप्यत्वमेव व्यभिचारित्वमित्यांह- तदेवेति । यद्व्यभिचारित्वं यत्र तद्व्याप्यव्यभिचारित्वमपि तत्रेति नियमात्- आर्द्वेन्धनसंयोगरूपोपाधिव्यभिचारित्व वह्नावस्ति, ततस्तद्व्याप्यधूमव्यभिचारित्व- मपि वह्नावस्ति इत्याह-तथा चेति । अनुमानप्रकारमपि स्वयमेव दर्शयति - अनुमानेति । पूर्वानुमानहेतुं = वादिनोऽनुमाने यो हेतुस्तमित्यर्थः । अत्र सामान्यव्याप्ति प्रदर्शयति - यो यत्- न्या.बो साध्येति । उपाधेः फलमाह - एवं प्रकारेणेति । प्रकृतानुमानम् = पर्वतो पृ.५६. धूमवानित्यनुमानं, तत्र हेतुभूतो वह्निः । तस्मिन् पक्षे = वह्नि पक्षीकृत्येत्यर्थः । साध्यव्यभिचारोत्थापकतया = साध्यव्यभिचारानुमापकत्येत्यर्थः । व्याप्यत्वासिद्धि- न्या बो.रूपदोषज्ञानफलमाह - तथा चेति । साध्याभाववद्वृत्तित्व व्यभिचारः, साध्या- पृ.६०.भाववदवृत्तित्वं व्याप्तिरिति विवेकः । बाधितनामानं हेत्वाभासं व्याख्यातुं प्रतीकमुपादत्ते - यस्येतीति । अर्थः सुगमः । उदाहरणं मूलत एव ज्ञेयम् । एतद्धेत्वाभासज्ञानफलमाह - तथा चेति । अस्य हेत्वाभासस्य बाधित इति नामकरणे निमित्तमाह-बाधितसाध्यकत्वा- दिति । बाधितं साध्यं यस्य स बाधितसाध्यको हेतुः, तत्त्वादित्यर्थः । साध्यस्य बाधितत्वादिति यावत् । । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायामनुमानपरिच्छेदः । ••••०८०••••
अथोपमानपरिच्छेदः न्यायबोधिनी. उपमानम् = उपमाननामकं तृतीयं प्रमाणम् । लक्षयति = लक्षणद्वारा पृ. ६१. बोधयति । उपमितिकरणमितीति । उपमितिनामिकायाः तृतीयप्रमितेः करण- मुपमानं प्रमाणमित्यर्थः । कीदृशमितिनाम्नी प्रमितिरिति जिज्ञासायां प्रदर्शितां तां व्याख्यातुं प्रतीकमुपादत्ते—उपमिति लक्षयतीति । संज्ञा का ? संज्ञी कः ? तयोः सम्बन्धश्च क इति संज्ञासंज्ञीतिप्रतीकोपादानपुरःसर प्रदर्शयति—संज्ञा नामेति । निष्कर्षमाह—तथा चेति । उपमानप्रमाणपदेन किं ग्राह्यमित्यत आह— उपमानं नामेति । आरण्यकपुरुषोक्त "गोसदृशो गवय" इत्यतिदेशवाक्यार्थ- विषयक ज्ञानमित्यर्थः । 'अयं गवयशब्दवाच्य' इत्युपमित्युत्पत्तौ अतिदेशवाक्यार्थ- विषयक शाब्दज्ञानं करणम् । व्यापारोऽत्र क इत्यत आह—अतिदेशवाक्यार्थस्य स्मरणं व्यापार इति । फलमाह—उपमितिरिति । उपमितिकरणभूतमुपमान- प्रमाणं स्फुटयति—गोसदृश इति । अस्मिन् 'गोसदृशो गवयपदवाच्य' इत्यतिदेश- वाक्यार्थबोधे गोसदृश इति विशेष्यम्, गवयपदवाच्यत्वं प्रकारः, अतो गोसादृश्या- वच्छिन्नविशेष्यकं गवयपदवाच्यत्वप्रकारकं ज्ञानं लभ्यते इति भावः । । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायामुपमानपरिच्छेदः ।
Here is the line-by-line transcription of the Sanskrit text from the image into pure Devanagari Markdown:
अथ शब्दपरिच्छेदः न्या. बो. शब्दं व्याख्यातुमुपक्रमते—शब्दं लक्षयतीति । लक्ष्यलक्षणे विवेचयति— पृ. ६२. आप्तोच्चरितत्वे सति वाक्यत्वं लक्षणम्, प्रमाणशब्दत्वं लक्ष्यतावच्छेदक- मिति । एतेन प्रमाणभूतः शब्दो लक्ष्यो भवति । आप्तोच्चरितत्वे सतीति विशेषणस्य फलमाह—वाक्यत्वमात्रोक्ताविति । वाक्यत्वमिति विशेष्यस्य फलमाह—तावन्मात्रोक्ताविति । आप्तोच्चरितत्वमात्रोक्तावित्यर्थः । किं नामाप्तत्वमित्याह आप्तत्वञ्चेति । घटवद्भूतलमिति शब्दप्रयोगहेतुभूतं यज्ज्ञानं घटवदिदं भूतलमित्याकारकं, तद्वत्त्वमित्यर्थः । एतदनन्तर पर्यवसितं शब्दप्रमाणलक्षणमाह—तथा चेति । ज्ञात्वा ह्यर्थं कश्चिच्छब्दं प्रयुङ्क्ते, नहि हिमालयस्थमौषधमजानानस्तद्वाचक शब्दं प्रयुङ्क्ते भिषजां वरेण्योऽपीति प्रयोगहेतुभूतयथार्थज्ञानजन्यत्वं शब्दे सुवपन्नम् । इति तु प्राचीनमताभिप्रायेण । नव्यानां मतमाह—वस्तुतस्त्विति। प्राचीनमते पदमेव करणम्, नवीनमते तु पदस्य ज्ञानमेव करणमर्थात् प्रमाणम्, शब्दस्य करणत्वे अतीतानागतशब्दात् शाब्दबोधानुपपत्तिरिति भावः । फलव्यापारे तु द्वयोर्मने तुल्यौ, व्यापारमाह – वृत्तिज्ञानेति । वृत्तिज्ञानसहकृतं यत् पदज्ञानं तज्जन्या या पदार्थोपस्थितिः सैव न्या बो. व्यापार इति भावः । फलमाह—वाक्यार्थज्ञानमिति । अनुमित्यादिवत् शाब्द- पृ.६३. बोध इति फलस्य संज्ञा । वृत्तिरेव केत्यत आह—वृत्तिर्नामेति । शक्तिलक्ष- णान्यतरूपेति । द्विविधैवेत्यर्थः । एतेन साहित्यिकाभिमतस्य व्यञ्जनादेः वृत्तित्वमपाकृतं भवति । कथमिति त्वन्यतोऽनुसन्धेयम् । तत्र शक्तिस्वरूपमाह— शक्तिनमिति । घटादिविशेष्यको यो घटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसङ्केतः स शक्तिरित्यर्थः । सङ्केताकारस्त्वीदृशः-अस्मात् पदादयमर्थो बोद्धव्य इति । अत्र ‘अयम् अर्थः' इति भागो घटादिरूपविशेष्यबोधकः । 'अस्मात् पदात्' इत्यस्य एतत्पदजन्ये यर्थः। तव्यप्रत्ययान्तस्य ‘बोद्धव्य’ इति पदस्य बोधविषयत्वेनेश्वरसङ्केतविषयत्वमर्थः तथा च एतदर्थविशेष्यकैतत्पदजन्यबोध- विषयत्वप्रकारक ईश्वरसङ्केतः शक्तिरिति लभ्यते । अतो घटादेरर्थत्वात् घटादि- विशेष्यकेत्याद्युक्तिर्युक्ता । एवंविध ईश्वरसङ्केनः ईश्वरेच्छा रूप एव भवतीत्याह- ईश्वरसङ्केतो नामेति । ईश्वरेच्छैव एवंविधा शक्तिरित्याह – सैवेति । एतावता विषयतासम्बन्धेन घटपदनिरूपिता शक्तिर्घटेऽस्तीति लभ्यते । तथा च घटविषयकशक्तिनिरूपकत्वाद् घटादिपदं शक्तमित्युच्यते इत्याह शक्तिनिरूप- कत्वमेवेति । अर्थः पदानां शक्य इत्युच्यते कथमित्याह -विषयतासम्बन्धे- नेति । पदानिरूपितायाः शक्तेः विषयतासम्बन्धेनाश्रयो अर्थो भवतीत्यत इत्यर्थः ।
शक्तिलक्षणान्यतररूपायां वृत्तौ शक्तिरुक्ता, लक्षणा केत्याह—शक्यसम्बन्धो लक्षणेति । शक्यस्य यः सम्बन्धः सामीप्यादिः, स एव लक्षणेत्यर्थः । यथा गङ्गायां घोषः इत्यत्र गङ्गापदस्य शक्यार्थः प्रवाहः, तत्र घोषः ( आभीरपल्ली ) क्षणमपि स्थातुं नार्हति, तस्माद् गङ्गापदस्य सामीप्यसम्बन्धवति तीरे लक्षणा, अतस्तस्माद् वाक्याद् गङ्गातीरे घोष इत्यर्थो लक्षणया लभ्यते । गौणी-शुद्धाभेदेन लक्षणा द्वेधेत्याह— सेति । तत्र गौणीमाह--गौणी नामेति । दृष्टान्तं प्रदर्श- यति—यथेति । माणवकस्तु सिंहो नास्ति, किन्तु विशिष्टे लक्षणां कृत्वा सिंह- सदृशो माणवक इत्यर्थो लभ्यते । इयमेव गौणी लक्षणा । शुद्धायास्त्रैविध्यमाह— जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेतीति । प्रथमामाह— लक्ष्यतावच्छेदकरूपेणेति । गङ्गापदस्य लक्ष्यं तीरं भवत्यतो लक्ष्यतावच्छेदकं तीरत्वं, तेन रूपेणेत्यर्थः । लक्ष्यमात्रबोधेति मात्रपदेन शक्यार्थस्य प्रवाहादेर्व्य- वच्छेदः । उदाहरति--यथा गङ्गायां घोष इति । गङ्गापदस्य वाच्यो ( शक्यः ) यः प्रवाहः तत्सम्बन्धस्य तीरे सत्त्वादिति । अग्रे सुगमोऽन्वयबोधः । द्वितीयामाह—लक्ष्येतेति । या शक्यार्थसहितं लक्ष्यार्थं बोधयति सा अजहल्लक्षणा कथ्यते । उदाहरति—यथा काकेभ्य इति । न्या बो. अयमाशयः—काकेभ्यो दधि रक्ष्यतामिति वाक्येन काकेभ्य एव दधिरक्षणं **पृ.६४.**करणीयं न विडालादिभ्य इत्यर्थो न भवति, किन्तु यावन्तो दध्युपघातका विडाला- दयस्तेभ्यः सर्वेभ्य एव दधि रक्षणीयमिति वक्तुस्तात्पर्यं तत्रास्ति । अतस्तत्र काक- पदस्य दध्युपघातके लक्षणा स्वीक्रियते । तथा च लक्ष्यतावच्छेदकीभूतदध्युपघात- कत्वेन रूपेणापरे विडालादयो बोध्यन्ते । एवं सति काकपदशक्यार्थः काकोऽपि न हीयतेऽतोऽजहल्लक्षणेत्यन्वर्थेयं संज्ञेति । अक्षरार्थः स्पष्टः । यत्र लक्षणया शक्यार्थेषु कश्चिदर्थो हीयते कश्चिदर्थो न हीयते, सा जहद- जहल्लक्षणा भवति, तां च वेदान्तिनां मतेनोदाहरति--जहदजहल्ल- क्षणेति । स्वयं तस्याः स्वरूपमाह—सा चेति । अत्र शक्यतावच्छेदकं परित्यज्यते व्यक्तिमात्रं बोध्यत इत्याशयः । अयं सारः--वेदान्तनये तत् त्वमसीति श्रुतौ तत्पदेन सर्वज्ञत्वविशिष्टात्म- व्यक्तिः बोध्यते, त्वम्पदेन चाल्पज्ञत्वविशिष्टात्म ( जीवात्म ) व्यक्तिर्बोध्यते । घटो द्रव्यमितिवत् "तत् त्वमिति" प्रथमान्ताभ्यां पदाभ्यामभेदो बोध्यते । स चाभेदः सर्वज्ञत्वाल्पज्ञव्यक्तयोरनुपपन्नः, ततोऽत्र जहदजहल्लक्षणया सर्वज्ञत्वाल्प- ज्ञत्वांशौ हित्वा व्यक्त्यंशञ्चाहित्वा परस्परमभिन्नमात्ममात्रं बोध्यत इति । आकाङ्क्षालक्षणं व्याख्यातुमाह—आकाङ्क्षां लक्षयतीति । पदस्ये- तीति । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षेति मूलोक्तं लक्षणम्, तस्यायमर्थः—व्यतिरेकोऽभाव इत्यनर्थान्तरम् । एकं पदं यत्पदाभाववशात्
अन्वयं नानुभावयति अर्थात् शाब्दबोधं न जनयति, तस्य पदस्य तस्मिन् पदान्तरे आकाङ्क्षेति । एतस्यैव व्याख्यामाह टीकाकारः—अव्यवहितोत्तरत्त्वादि- सम्बन्धेनेति । अयमाशयः—घटमिति पदं यदोच्चार्यते तदैव घटीयं कर्मत्वमिति बोधो जायते, घटस्येति यदोच्चार्यते तदैव घटीयः सम्बन्ध इति बोधो जायते । अतः घटपदाव्यवहितोत्तरम् अम्षदोच्चारणमावश्यकम्, एवं घटपदोत्तरं स्य- ( ङस् ) पदोच्चारणमावश्यकम्, केवले घटेति अमिति वा पदे उच्चारिते व्या बो किञ्चिद्बोधानुत्पादात् । अत्र घटमिति पदेऽव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टम् पृ.६५.अम्पदमस्ति, एवं घटस्येत्यत्र अव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टं स्यपद- मस्ति, घटपदापेक्षया ऽव्यवहितोत्तर एव अम्पादस्य स्यपदस्य च वर्तमानत्वात् । एतावतेतदायाति यत् यत्पदान्यवहितोत्तरं यत्पदाभावे सति यादृशशाब्दबोधो न जायते, तादृशशाब्दबोधे अव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्वं तद्पदे आकाङ्क्षेति । अत्र घटमिति पदे घटपदं प्रकारः अम्पदं विशेष्यम्, घटपदनिष्ठा या प्रकारता साऽव्यवहितोत्तरत्वसम्बन्धेन । अत एतदायाति यत् घटीयं कर्मत्वमिति बोध- जननाय अव्यहितोत्तरत्वसम्बन्धेन घटपदप्रकारकम् अम्पादविशेष्यकं घटमित्येता- वज्ज्ञानमावश्यकम्, एवंविधज्ञानाभावे तु शाब्दबोधो न जनिष्यते । तथा च अव्यवहितोत्तरत्वसम्बन्धेन यत्पदप्रकारकतत्पदविशेष्यकज्ञानाभावप्रयुक्तः (ज्ञाना- भाववशात्) यादृशशाब्दबोधो न जायतेऽव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्वं तत्पदनिष्ठमाकाङ्क्षेति टीकाकृतां निष्कृष्टं प्रकारान्तरम् । अत एव अम्घट इति वैपरीत्येनोच्चारणे सति अम्पदस्यैव प्रकारतया घटपदप्रकारकाम्पदविशेष्य- कज्ञानाभावात् घटीयं कर्मत्वमिति स्वाभीष्टः शाब्दबोधो न जायते । तस्मात् सिद्धमाकाङ्क्षाज्ञानं शाब्दबोधं प्रति कारणमिति । पङ्क्त्यर्थस्तु व्याख्येयैव निपुणं करणीय इति । न्या.बो अर्थबाधो योग्यतेति मूलस्यार्थमाह—बाधाभाव इति । अर्थबाधाभावो पृ ६६.योग्यतेत्यर्थः । अग्निना सिञ्चेदिति मूलोदाहृतं व्याचष्टे—अग्निनेति । सन्निधिनिरूपणे “असह्योच्चारितानी” त्यस्यार्थमाह—विलम्बोच्चारिता- नीति । लौकिकवैदिकद्विविधवाक्ययोः वैदिकपदेन यद्गृह्यते तदाह—वेदवाक्य- मित्यर्थ इति । नहि वेदवाक्यमेव प्रमाणं, किन्तर्हि वेदमूलकानि स्मृत्यादीन्यपि सर्वाणि प्रमाणत्वेन ग्राह्याणीत्याह—इदमुपलक्षणमिति । लौकिकपदस्यार्थमाह- वेदवाक्यभिन्नमिति । लौकिकवाक्यमाप्तोक्तमेव प्रमाणं, तत्राप्तोक्तत्वं किम् ? तदाह आप्तत्वञ्चेति । शब्दादिप्रयोगहेतुभूतं यद् यथार्थज्ञानं तद्वत्त्वमित्यर्थः । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायां शब्दपरिच्छेदः । —:०:— ९
अथावशिष्टपरिच्छेदः न्या.बो. पूर्वं यथार्थानुभवभेदा व्याख्याता इदानीमयथार्थानुभवभेदान् व्याख्यातु- पृ. ६७. माह—यथार्थानुभवमिति । एकस्मिन्नित्यादिसंशयस्वरूपं व्याचष्टे—एकधर्मा- वच्छिन्नेति । एकधर्मविच्छिन्ना या विशेष्यता, तादृशविशेष्यतानिरूपिता या भावाभावोभयनिष्ठा प्रकारता, तादृशप्रकारतानिरूपकं यज्ज्ञानं तत् संशय इत्यर्थः । यथा जीवो नित्यो नवेति ज्ञानं संशयः । अत्रैकधर्मः जीवत्वं, तदवच्छिन्ना विशेष्यता जीवनिष्ठा, तन्निरूपिता प्रकारता नित्यत्वतदभावयोरुभयोरस्ति, तादृशप्रकारताक- मिदं ज्ञानमतोऽत्र लक्षणसमन्वयः । ननूक्तलक्षणानुसारं यत्रैकस्मिन् विशेष्ये भावा- भावौ विशेषणीभूतौ स्याताम्, तदेव ज्ञानं संशयः कथ्येत, किन्तु अयं स्थाणुर्वा पुरुषो वेति ज्ञानं संशयो न भवेत्, तत्र स्थाणुत्वपुरुषत्वयोर्भावयोरेव विशेषणत्वा- दिति शङ्कामपाकर्तु माह—भावद्वयेति । अप्रसिद्धेरिति । भावद्वयकोटिकः संशयो मयाऽपि नाङ्गीक्रियत इति भावः । शङ्कितस्थले सशयत्वमुपपादयति — स्थाणुर्वेत्यत्रेति । न्या.बो. व्याप्यारोपेणेतीति । यथा—पर्वतो वह्निमान् इत्यनुमितौ शङ्कानिवा- पृ. ६८. रणाय “यद्यत्र वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात्” इति तर्कः प्रयुज्यते । अत्र वह्नयभावो व्याप्यो धूमाभावश्च व्यापकः । तर्के किं कारणमित्याह—तर्के इति । व्याप्यस्य वह्नयभावादेः व्यापकस्य धूमाभावादेः पर्वतादावभावनिश्चय इत्यर्थः । अन्यथेति । ‘यदि वह्निर्न स्यात् धूमोऽपि न स्यात्’ इत्युक्तौ न स्याद्- धूमोऽपि, का नो हानिरिति परे ब्रूयादिति भावः । सुखलक्षणं व्याख्यातुमाह—सुखं निरूपयतीति । इतरविषयीणी येच्छा, तदनधीना येच्छा, तद्विषयीभूतं यत् तत् सुखमित्यर्थः । इष्टं वस्तु द्विविधं भवति, साक्षात् परम्परया च । साक्षादिष्टं सुखं परम्परया चेष्टं तत्साधनम् । सुख- साधनीभूते भोजनादौ तदैवेच्छा भवति, यदा पूर्वं सुखस्येच्छा स्यात् । अतो भोजनेच्छा सुखेच्छाधीना । तथा च सुखेच्छाधीनेच्छाविषयत्वात् भोजने न सुख- लक्षणातिप्रसङ्गः । सुखेच्छा तु नेतरेच्छाधीनाऽत इतरेच्छानधीनेच्छाविषयत्वात् सुखे लक्षणसमन्वयः । यथाश्रुतेऽनुकूलत्वप्रकारकज्ञानविशेष्यत्वरूपे सुखलक्षणेऽभिप्रेते घटोऽनुकूल इति ज्ञानस्यानुकूलत्वप्रकारकघटविशेष्यकतया विशेष्यीभूते घटे सुखलक्षणातिव्याप्ति- न्या.बो.रित्याह—यथाश्रुते इति । निष्कृष्टलक्षणे इतरेच्छानधीनेति विशेषणानुक्तौ पृ. ६८. इच्छाविषयत्वमात्रस्य सुखलक्षणत्वे दोषमाह – सुखेच्छाधीन इति । तथा
न्यायबोधिनी-संस्कृत-कला १३१
भोजनादेः सुखेच्छाधीनेच्छाविषयत्वेन इतरेच्छानधीनेच्छाविषयत्वाभावात् भोज- नादौ सुखलक्षणस्य नातिव्याप्तिरिति भावः । मूले लक्षणसमन्वयमाह - सुखे- च्छाया इति । अर्थात् सुखेच्छा नेतरेच्छाधीना, किन्तु सुखमिदमिति सुखत्व- प्रकारकज्ञानमात्राधीनाऽत इतरेच्छानधीनेच्छाविषयत्वात् सुखे भवति लक्षण- समन्वयः । दुःखलक्षणं व्याख्यातुमाह - दुःखं निरूपयतीति । निष्कृष्टं लक्षणमाह - अत्रापीति । इतरद्वेषानधीनेत्यस्य फलमाह - द्वेषविषयत्वमात्रोक्ताविति । अयमाशयः - सर्पो न साक्षात् द्वेषविषयः, किन्तु तज्जन्यं दुःखमेव साक्षात् द्वेषविषयः, सर्पस्तु दुःखजनकत्वाल्लोकैर्द्विष्यतेऽतो दुःखद्वेषाधीनद्वेषविषयत्वात् सर्पो न दुःखं किन्तु दुःखसाधनमिति । एतत्स्वयमुप- पादयति सर्पजन्यदुःखादाविति । अत्रत्यं रहस्यमाह - फलेच्छेति । फलं सुखम्, उपायो भोजनादिः । एवं दुःखमपि फलं, सर्पादिरुपायः । उपायेच्छां प्रति फलेच्छा कारणं भवति । अतः फलेच्छाधीनैनैवोपायेच्छा भवति । एवमुपायद्वेषं प्रति फलद्वेषः कारणम् । अतः फलद्वेषाधीन एवोपायद्वेष इति भावः । न्या.बो. संस्कारस्वरूपव्याख्यानायाह - संस्कारं विभजते इति । वेगस्य सर्व- पृ.७०. प्रसिद्धत्वात् भावनास्वरूपमाह - अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावना- न्या.बो. लक्षणमिति । विशेषणफलमाह - अत्रेति । स्पष्टोऽर्थः । स्मृतिहेतुत्वरूपविशे- पृ.७१. ष्यानुपादानेऽनुभवजन्यत्वमात्रस्य चोक्तौ दोषमाह - तावन्मात्र इति । अयं भावः- यदि प्रतियोग्येव न भवेत्तर्हि कस्य ध्वंसो भवेत् ? अतो ध्वंसं प्रति प्रतियोगिनः कारणत्वम् । अनया रीत्या अनुभवध्वंसं प्रत्यपि अनुभवस्य प्रति- योगिविधया कारणता । एवञ्चानुभवध्वंसस्यानुभवजन्यत्वात्तत्रातिव्याप्तिवारणाय स्मृतिहेतुत्वं देयम् । तथा चानुभवध्वंसस्य स्मृतिं प्रति हेतुत्वाभावात् नाति- व्याप्तिरिति । ननु यत्र पूर्वं दण्डोऽयमिति प्रत्यक्षं, तदनन्तरं दण्डी पुरुष इति दण्डविशिष्ट- पुरुषप्रत्यक्षमुत्पन्नं, तत्र दण्डी पुरुष इत्याकारकप्रत्यक्षे भावनालक्षणातिव्याप्तिः, तस्य दण्डोऽयमिति प्रत्यक्षात्मकानुभवजन्यत्वे सति भाविन्यां दण्डी पुरुष इति स्मृतौ हेतुत्वात् । न च दण्डी पुरुष इति प्रत्यक्षं प्रति दण्डोऽयमिति प्रत्यक्षात्मक- ज्ञानस्य कथं कारणत्वमिति वाच्यम् दण्डी पुरुष इति ज्ञानस्य दण्डप्रकारकज्ञानत्वेन विशिष्टबुद्धित्वात्, विशिष्टबुद्धिं प्रति च दण्डादिरूपविशेषणज्ञानस्य कारणत्वादङ्गी- कारादित्याशङ्कते - नन्वित्यादिना चेदित्यन्तेन ग्रन्थेन । अत्रत्यशङ्काया उपपादनञ्च सरलत्वात् स्वयम्बोध्यम् ।
१३२ तर्कसंग्रहे [ अवशिष्टपरिच्छेदः न्या. बो. उत्तरयति — अत्र ब्रूम इत्यादिना नातिव्याप्तिरित्यन्तेन ग्रन्थेन । पृ. ७२. अयमाशयः — अनुभवजन्यत्वं नाम अनुभवत्वावच्छिन्नकारणतानिरूपित- कार्यताशालित्वम् । अर्थात् अनुभवत्वावच्छिन्ना या अनुभवनिष्ठा कारणता, तादृश- कारणतानिरूपिता या कार्यता, तादृशकार्यताशालि यत् तदेवात्रानुभवजन्यपदेन विवक्षितमिति । अत्र कारणता अनुभवत्वेन रूपेण विवक्षितेति तात्पर्यम् । दण्डी पुरुष इति बुद्धित्वावच्छिन्नकार्यता निरूपिता कारणता दण्डोऽयमिति ज्ञाने विद्यते, किन्तु तज्ज्ञानं न दण्डानुभवत्वेन रूपेण कारणं तत्र भवति, दण्डानुभवादिव दण्ड- स्मरणादपि दण्डी पुरुष इति विशिष्टबुद्ध्युत्पत्तेः, किन्तु अनुभवस्मरणसाधारणेन दण्डज्ञानत्वेनैव । अतो विशिष्टबुद्धित्वावच्छिन्नकार्यता निरूपिता कारणता दण्डज्ञानत्वावच्छिन्ना न तु दण्डानुभवत्वावच्छिन्ना । तथा च अनुभवत्वावच्छिन्न- कारणतानिरूपितकार्यताशालित्वरूपस्यानुभवजन्यत्वस्य दण्डी पुरुष इति प्रत्यक्षेऽभावान्न भावनालक्षणातिव्याप्तिरिति । अक्षरार्थस्तु स्वयमेव बोध्यः । न्या. बो. उक्तपरिष्कृतलक्षणं भावनायां सङ्गमयति — तथा हीति । अवच्छेदक- पृ. ७३. मिति । भावनात्वावच्छिन्नकार्यता निरूपिता याऽनुभवनिष्ठा कारणता, तस्या अनुभवत्वं कारणतावच्छेदकमित्यर्थः । अत्रापि अवच्छेदकादिपरिचर्या "गन्धवती पृथिवी" इत्यत्रत्या न्यायबोधिनीव्याख्या पुनरनुसन्धेया । शेषः स्पष्टार्थः । भावनालक्षणे स्मृतिहेतुत्वविशेषणस्य वैयर्थ्यमाशङ्कते — नन्वेवमिति । अयमत्र पूर्वपक्षाशयः — स्मृतिहेतुत्वविशेषणं हि अनुभवध्वंसेऽतिव्याप्ति- वारणाय प्रागुपात्तम् । सा चातिव्याप्तिः अनुभवजन्यत्वविशेषणेनैव नायाति । तथा हि सामान्यतो ध्वंसं प्रति प्रतियोगिनः कारणत्वं प्रतियोगित्वेनैव रूपेण भवति । एवं तत्तद्ध्वंसं प्रति तत्तत्प्रतियोगिव्यक्तेः तत्तद्व्यक्तित्वेनैव कारणत्वं भवति, अर्थात् ध्वंसनिष्ठकार्यता निरूपिता कारणता सामान्यतः प्रतियोगिताव- च्छिन्ना, विशेषतश्च तत्तद्व्यक्तित्वावच्छिन्ना भवति, न तु अनुभवत्वेनाप्यवच्छिन्ना भवति । तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताशालित्वरूपानुभव- जन्यत्वविशेषणस्याभावादेव अनुभवध्वंसे नातिव्याप्तिरिति व्यर्थं स्मृतिहेतुत्व- विशेषणमिति भावः । अक्षरार्थस्तु स्पष्टः । न्या. बो. उत्तरयति — स्मृतावतिव्याप्तिवारणायैवेति । अयं भावः — स्मृतिं पृ. ७३. प्रत्यनुभव एव कारणं न तु स्मृतिरपि, अतो घटस्मृतित्वावच्छिन्नं प्रति घटानु- भवस्य घटानुभवत्वेनैव कारणता न तु घटज्ञानत्वेन । यदि स्मृतिं प्रति स्मृत्य- नुभवौ द्वावपि कारणे भवेताम् तदोभयसाधारणं ज्ञानत्वमेव स्मृतिकारणता- वच्छेदकं भवेत् न त्वेवमस्ति, तस्मात् स्मृतिव्यावृत्तमनुभवत्वमेव स्मृतिनिष्ठ- कार्यतानिरूपितकारणतावच्छेदकम् । तथा चानुभवत्वावच्छिन्नकारणतानिरूपित- कार्यताशालित्वस्य स्मृतावपि सत्त्वात् तत्रैव भावनालक्षणातिव्याप्तिवारणाय
न्यायबोधिनी संस्कृत-कला १३३ स्मृतिहेतुत्वमुक्तम् । तथा सति स्मृतौ अनुभवजन्यत्वसत्त्वेऽपि स्मृतिहेतुत्वाभावात् नातिव्याप्तिरिति भावः । अक्षराणि तु स्वयं योज्यानि । न्या.बो. सामान्यलक्षणं व्याख्यातुमाह—सामान्यं निरूपयतीति । लक्षणस्वरूप- पृ.७५.माह—नित्यत्वे सतीति । गोत्वं हि नित्यत्वात् अनेकासु गोव्यक्तिषु समवायेन सत्त्वाच्च सामान्यम् । सामान्यं जातिरित्यनर्थान्तरम् । नित्यत्वविशेषणस्य फलमाह—नित्यत्वेति । संयोगो हि द्विष्ठो भवति । अतोऽनेकसमवेतत्वात् तत्रातिव्याप्तिवारणाय नित्यत्वे सतीति देयम् । संयोगो न नित्य इति नाति- व्याप्तिः । अनेकसमवेतत्वानुक्तौ नित्यत्वमात्रस्य चोपादाने दोषमाह—अनेकेति । आकाशस्य नित्यत्वेऽपि अनेकसमवेतत्वाभावात् नातिव्याप्तिरिति भावः । अनेक- पदोपादानस्य फलमाह—अनेकेति । नित्यत्वे सति समवेतत्वमात्रोक्तौ आकाश- गतैकत्वसंख्यापरिमाणादेः जलीयपरमाणुगतरूपादेश्च नित्यत्वात् स्वाधिकरणे समवायसम्बन्धेन वर्तमानत्वाच्च तत्र तत्रातिव्याप्तिवारणायानेकेति पदम् । तथा च तेषामेकैकस्मिन् समवेतत्वेन नातिव्याप्तिरिति । नित्यत्वे सत्यनेकनिरूपित- समवायसम्बन्धावच्छिन्नवृत्तित्तावत्त्वम्, नित्यत्वे सति स्वाश्रयान्योन्याभावाधिकरण- निरूपितसमवायसम्बन्धावच्छिन्नवृत्तित्तावत्त्वं वा सामान्यत्वमिति निष्कर्षः । एवं= जातित्वेनाभिमतं गोत्वादिकम् । न्या.बो. विशेषलक्षणं व्याख्यातुमाह—नित्यद्रव्यवृत्तय इतीति । नित्यद्रव्यवृत्तय पृ.७६.इति वाक्यम् प्रयोजकपरतया व्याचष्टे—नित्यद्रव्येष्विति । व्यावर्तकाः इत्यस्यार्थमाह—इतरभेदानुमितिहेतव इति । एतदेव स्फुटयति—नित्य- द्रव्यवृत्तित्वेति । नित्यद्रव्यवृत्तित्वरूपा या पक्षधर्मता, तत्प्रयोज्या या इतर- भेदानुमापकता, तच्छालिनो विशेषाः भवन्ति । अयं भावः—विशेषा हि नित्यद्रव्येषु परमाण्वादिषु इतरपरमाण्वादिभ्यो भेदमनुमापयन्ति, अतो विशेषेषु इतरभेदानुमापकता विद्यते । अनुमिति प्रति व्याप्ति- विशिष्टपक्षधर्मताज्ञानस्य हेतुतया विशेषनिष्ठानुमापकतायाः प्रयोजिका नित्यद्रव्यवृ- त्तित्वरूपा पक्षधर्मता भवत्येव । तथाहि अयं घटोऽस्माद् घटाद्भिद्यते भिन्नावयवा- रब्धत्वात् । एवं रीत्या त्रसरेणुपर्यन्तं गत्वा, अयं त्रसरेणुः अस्मात् त्रसरेणोर्भिन्नः, भिन्नावयवारब्धत्वात्, तत इदं द्वयणुकमस्माद् द्वयणुकाद् भिन्नं भिन्नावयवारब्ध- त्वात् इति भिन्नावयवारब्धत्वहेतुना द्वयणुकपर्यन्तम् इतरभेदः साध्यते । किन्तु परमाण्वादिनित्यद्रव्येष्ववयवाभावात् नानेन हेतुना परमाणुषु मिथः इतरभेदः साधयितुं शक्यते । किन्तु अयं परमाणुः अस्मात् परमाणोर्भिन्नः विशेषादिति विशेष एव तत्र हेतुर्भवति । हेतुर्हि पक्षे वर्तमान एव साध्यं साधयति नावर्तमानः । तथा च नित्यद्रव्यरूपपक्षवृत्तित्वमनुमापकतायां प्रयोजकं सिद्धमेव । निष्कर्षमाह—
१३४ तर्कसंग्रहे [ अवशिष्टपरिच्छेदः नित्यद्रव्यनिष्ठेति । नित्यद्रव्यनिष्ठा या विशेष्यता, तन्निरूपिता या एकमात्र- वृत्तिभेदानुमितिजनकतावच्छेदकप्रकारता, तादृशप्रकारताश्रयत्वं विशेषत्वमित्यर्थः । इदमत्र रहस्यम् — नित्यद्रव्यरूपपक्षे इतरभेदानुमितौ करणीयायाम् इतर- भेदरूपसाध्यव्याप्यविशेषवन्नित्यद्रव्यमित्याकारकः परामर्शो जनकः । अत्र नित्य- द्रव्यं विशेष्यं, विशेष्यता नित्यद्रव्यनिष्ठा, तन्निरूपिता प्रकारता विशेषनिष्ठा, सैव च परामर्शनिष्ठाया जनकताया विषयविधया अवच्छेदिका । अत इतरभेदानु- मितिजनकतावच्छेदकप्रकारताश्रयत्वस्य विशेषपदार्थे सत्त्वाल्लक्षणसमन्वयः । उक्तनिष्कर्षे भेदविशेषणीभूतैकमात्रवृत्तित्वविशेषणस्य फलमाह— पार्थिव- परमाणाविति । 'पार्थिवपरमाणुः जलादिभिन्नो गन्धात्' इत्यत्र जलादिभेदव्या- प्यगन्धवान् पार्थिवपरमाणुरित्याकारकपरामर्शस्य जनकतया तदवच्छेदकीभूतप्रका- रताश्रयत्वस्य गन्धे सत्त्वादतिव्याप्तिरतः एकमात्रवृत्तित्व भेदविशेषणम् । तथा च गन्धो नैकस्मिन्नेव परमाणौ इतरभेदानुमिति जनयति किन्तु सर्वेषु परमाणुष्विति नातिव्याप्तिः । विशेषस्तु एकस्मिन्नेवानुमिति जनयतीति भावः । 'घटः इतरेभ्यो भिद्यते, तद्घटीयरूपात्' इति स्थले घटनिष्ठविशेष्यतानिरूपितैकमात्रवृत्तिभेदानु- मितिजनकतावच्छेदकप्रकारताश्रयत्वस्य तद्घटीयरूपे सत्त्वात्तत्र विशेषलक्षणाति- व्याप्तिरतो नित्यद्रव्यनिष्ठविशेष्यतानिरूपितेत्युक्तम् । तथा च घटस्यानित्य- द्रव्यत्वाद वारणम् । न्या.बो. उक्तनिष्कर्षकरणस्य प्रयोजनमाह — एतेनेति । प्रयोजकत्वाभिप्रायेण पृ.७७.नित्यद्रव्यवृत्तय इति पदस्य प्रयोज्यत्वाभिप्रायेण च व्यावर्तका इति पदस्य व्याख्यानेनेत्यर्थः । नित्यद्रव्यविशेष्यकेतरभेदानुमितिप्रयोजका इति । विशेषा इति शेषः । विफलमिति । ननु नित्यद्रव्यवृत्तय इति पदम् स्वरूपप्रद- र्शनपरं स्यादतो न विफलमत आह— स्वरूपाख्यानस्यापीति । व्यावर्तकपदेनैव कृतत्वादित्यर्थः । प्रयुक्तमिति । प्रयोज्यप्रयोजकभावस्य प्रकृते प्रकटनेन तत्- सार्थक्यमिति भावः । समवायं व्याख्यातुमाह समवायमिति । सम्बन्धपदार्थमाह — सम्बन्ध- त्वमिति । विशिष्टप्रतीतिः = रूपी घटो दण्डी पुरुष इति प्रतीतिः । उभयत्र क्रमेण समवायसंयोगौ विशिष्टप्रतीतिनियामकावतस्तौ सम्बन्धौ ब्रूयेते । समवाय- लक्षणे नित्यपदफलमाह — तावदिति । समवायोऽयुतसिद्धयोस्तिष्ठतीत्यतोऽयुत- न्या.बो.सिद्धवृत्तिरित्युच्यते । अयुतसिद्धपदार्थं बोधयितुं प्रतीकमुपादत्ते — ययोर्द्वयोर्मध्य पृ.७८.इतीति । यन्निष्ठं कालनिष्ठाधिकरणतानिरूपिताधेयतासामान्यं यदवच्छिन्नं तदुभयान्यतरत्वमयुतसिद्धत्वमित्यर्थः । अयमाशयः— सर्वे पदार्थाः कालिकसम्बन्धेन काले तिष्ठन्ति स्वाधिकरणा- वच्छेदेन । यथा घटत्वं काले कालिकसम्बन्धेन विद्यते घटावच्छेदेन, न तु पटा-
न्यायबोधिनी-संस्कृत-कला १३५
वच्छेदेन । अत्र कालोऽधिकरणं, घटत्वमाधेयम्, घटोऽवच्छेदकः । तथा च घटत्व- निष्ठं कालनिष्ठाधिकरणतानिरूपिताधेयतासामान्यं घटावच्छिन्नमस्ति, अतो घटत्वं घटश्च परस्परमयुतसिद्धौ भवत इति भावः । अत्यन्ताभावं व्याख्यातुमाह-अत्यन्ताभावमिति । परिष्कृतं तल्लक्षण- माह - प्रागभावेत्यादि । प्रत्येकपदव्यावृत्तिमाह - ध्वंसेति । ध्वंसे अति- व्याप्तिवारणाय प्रागभावाप्रतियोगित्वे सतीति, प्रागभावेऽतिव्याप्तिवारणाय ध्वंसाप्रतियोगित्वे सतीति, अन्योन्याभावेऽतिव्याप्तिवारणायान्योन्याभावभिन्नत्वे सतीति पदान्युक्तानि । आकाशेऽतिव्याप्तिवारणायाभावत्वमित्युक्तम् । त्रैकालिकेति पदमपसार्य मूललक्षणमेव किञ्चित् परिष्कृत्याङ्गीकरोति - वस्तुतस्त्विति । न्याय.बो. ध्वंसप्रागभावयोरतिव्याप्त्यभावं प्रदर्शयति-ध्वंसप्रागभावयोश्चेति । ननु पृ.७८. तर्हि मूलोक्तत्रैकालिकेतिपदस्य का गतिरत आह- स्वरूपाख्यानमेवेति । स्वरूपकथनमात्रमित्यर्थः । अन्योन्याभावं निरूपयतीति । अभावत्रयवारणाय विशेषणम् = तादात्म्यसम्बन्धावच्छिन्नत्वरूपविशेषणमित्यर्थः । ननु तादात्म्यसम्बन्धावच्छिन्न- प्रतियोगितावगाहिज्ञानविषयत्वमन्योन्याभावत्वं स्यात्, न तु तादात्म्यसम्बन्धा- वच्छिन्नप्रतियोगितानिरूपकत्वमन्योन्याभावत्वमिति शङ्कायामाह-घटाभाववन्ने- तीति । तथा च तादृशप्रतीतिविषयत्वस्य घटादौ सत्त्वात् तत्रातिव्याप्तिवारणा- यैव 'प्रतियोगिताक' इति विशेष्यदलमित्यर्थः । उक्तप्रतियोगितानिरूपकोऽन्योन्या- भाव एव भवति न तु घटादिरिति तु सारः । ननु तर्कसङ्ग्रहग्रन्थमूले द्रव्यगुणादयः सप्तैव पदार्था निरूपिताः सादृश्या- दयो न्यायसूत्रोक्तप्रमाणादयश्च पदार्थास्तु न निरूपिताः, अतो न्यूनतेत्याशङ्कां 'सर्वेषामि'ति मूलव्याख्यानायावतारयति - नन्विति । न्यायसूत्रोक्तषोडशपदार्थान् न्याय.बो. सूत्रोपन्यासेन ज्ञापयति-प्रमाणप्रमेयसंशयप्रयोजनेत्यादि । पृ.८०. एतेषां कथं सप्तस्वान्तर्भाव इति चेत्, इत्थम्-प्रमाणानि चत्वारि प्रत्यक्षा- नुमानोपमानशब्दाः । तेषु प्रत्यक्षं प्रमाणमिन्द्रियात्मकम्, इन्द्रियाणां च घ्राणरसन- चक्षुःत्वक्श्रोत्राणां क्रमेण पृथिवीजलतेजोवाय्वाकाशात्मकद्रव्येष्वन्तर्भावः । मनो- रूपेन्द्रियस्यापि द्रव्ये अन्तर्भावः । व्याप्तिज्ञानसादृश्यज्ञानपदज्ञानानाम् अनुमानोप- मानशब्दप्रमाणभूतानां गुणेऽन्तर्भावः । आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रेत्यभावफल- दुःखापवर्गास्तु प्रमेयम् । एतेषु इन्द्रियाणामन्तर्भावस्तु द्रव्ये कथित एव । आत्मनो द्रव्ये, शरीरस्य द्रव्ये, गन्धरसरूपस्पर्शशब्दानामर्थपदवाच्यानां गुणे, बुद्धेर्गुणे, वाग्बुद्धिशरीरारम्भरूपायाः प्रवृत्तेः यत्नरूपतया गुणे, रागद्वेषमोहरूपदोषाणां क्रमेणेच्छाद्वेषमिथ्याज्ञानस्वरूपाणां गुणे, प्रेत्य = मृत्वा भावो = जननमिति व्युत्पत्त्या मरणोत्तरजन्मैव प्रेत्यभावः, तत्र चरमप्राणशरीरसंयोगध्वंसो मरणम्,
१३६ तर्कसंग्रहे [ अवशिष्टपरिच्छेदः
आद्यप्राणशरीरसंयोगो जन्म । तथा च तादृशसंयोगरूपस्य प्रेत्यभावस्य गुणे, सुख- दुःखानुभवरूपस्य मुख्यफलस्य गुणे, शेषफलानां तु यथासंभवं द्रव्यादिषु, दुःखस्य गुणे, आत्यन्तिकदुःखध्वंसरूपस्यापवर्गस्याभावे, संशयस्य गुणे, साध्यत्वेनेच्छा- विषयरूपस्य प्रयोजनस्य यथायथं द्रव्यादिषु, दृष्टान्तस्य महानसादेर्यथायथं द्रव्या- दिषु, शब्दस्वरूपाणाम् प्रतिज्ञाद्यन्यतमरूपावयवानां गुणे, व्याप्यारोपेण व्यापकारो- पस्य तर्कस्य ज्ञानविशेषात्मकतया गुणे, निर्णयस्य गुणे, तत्त्वबुभुत्सोः कथा वादः- विजिगीषुकथा जल्पः—स्वपक्षस्थापनाहीनकथा वितण्डा । कथा नाम नाना वक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः । तथा चोक्तरूपाणां वादादीनां त्रयाणां शब्दरूप- तया गुणे, हेत्वाभासानां यथायथं द्रव्यादिषु, अभिप्रायान्तरेण प्रयुक्तशब्दस्यार्थान्तरं प्रकल्प्य दूषणाभिधानरूपस्य च छलस्य गुणे, असदुत्तररूपजातेर्गुणे, पराजयहेतु- स्वरूपनिग्रहस्थानानां यथायथं द्रव्यादिष्वन्तर्भाव इत्यर्थः । तत्र विशिष्य प्रतिज्ञातस्य पक्षादेः परित्यागरूपप्रतिज्ञाहनेरभावे, परोक्तदोषोद्दिधीर्षया पूर्वमनुक्तविशेषण- विशिष्टतया प्रतिज्ञातार्थ कथन रूपस्य प्रतिज्ञान्तरस्य गुणे, स्वोक्तसाध्यादिविरुद्ध- हेत्वादिकथनरूपस्य प्रतिज्ञाविरोधस्य गुणे, स्वोक्तसाध्यादेः परेण दूषणे कृते तत्- साध्यापलापरूपस्य प्रतिज्ञासंन्यासस्याभावे, परोक्तदूषणोद्दिधीर्षया पूर्वोक्तहेतुता- वच्छेदकातिरिक्तहेतुतावच्छेदकविशिष्टहेतुकथनरूपस्य हेत्वन्तरस्य गुण, प्रकृता- नाकाङ्क्षिताभिधानरूपस्य अर्थान्तरस्य गुणे, अवाचकपदप्रयोगरूपस्य निरर्थकस्य गुणे, अवाचकवाक्यप्रयोगरूपस्याविज्ञातार्थस्य गुणे, परिषत्प्रतिवादिबोधानुकूलो- पस्थित्यजनकवाक्यप्रयोगरूपाविज्ञातार्थस्य गुणे, अभिमतवाक्यार्थबोधानुकूला- काङ्क्षाशून्यपदप्रयोगरूपस्यापार्थकस्य गुणे, समयनिबन्धनीभूतो यः कथाक्रमः तद्विपरीतक्रमेणाभिधानरूपस्य अप्राप्तकालस्य गुणे, यत्किञ्चिदवयवशून्यावयवा- भिधानरूपस्य न्यूनस्य गुणे, अधिकहेत्वाद्यभिधानरूपस्याधिकस्य गुणे, पुनरभिधान- रूपस्य पुनरुक्तस्य गुणे, परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणरूपस्यानुभाषण- स्याभावे, परिषदा विज्ञातार्थस्य वादिना त्रिरभिहितस्याप्यविज्ञानरूपाविज्ञान- स्याभावे, उत्तरार्हं परोक्तं बुद्ध्वाऽपि उत्तरस्याप्रतिपत्तिरूपाया अप्रतिभाया अभावे, कथाविच्छेदरूपस्य विक्षेपस्याभावे, स्वपक्षे दोषमनुद्धृत्य परपक्षे दोषा- भिधानरूपमतानुज्ञायाः गुणे, निग्रहस्थानं प्राप्तवतो निग्रहस्थानानुद्भावनरूपस्य पर्यनुयोज्योपेक्षणस्याभावे, निग्रहस्थानानवसरे तन्निग्रहस्थानाभिधानरूपस्य निर- नुयोज्यानुयोगस्य गुणे, कथायां स्वीकृतसिद्धान्तप्रच्यवनरूपस्यापसिद्धान्तस्याभावे, हेत्वाभासानां यथायथं द्रव्यादिष्वन्तर्भाव इति भावः । ननु सादृश्यस्य क्वान्तर्भाव इत्यत आह—तद्भिन्नत्वेति । अयमाशयः— सादृश्यं हि तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्, धर्मवत्त्वञ्च धर्म एव । यथा चन्द्रसदृशे मुखे चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिरूपभूयोधर्मवत्त्वस्य
सत्त्वात् मुखे चन्द्रसादृश्यमस्तीति । तथा चात्र सादृश्यमाह्लादकत्वम् । आह्ला- दश्च सुखविशेषः । तज्जनकत्वमाह्लादकत्वम् । जनकत्वञ्चाव्यवहितप्राक्क्षणा- वच्छेदेन वृत्तित्वम् । वृत्तित्वस्य च स्वरूपसम्बन्धात्मकतया मुखाद्यात्मकत्वमेवेति । क्वचिच्च सादृश्यं गवाद्यात्मकमेवेति तस्य नातिरिक्तपदार्थत्वमिति भावः । ग्रन्थान्तोक्तस्य काणादन्यायमतयोरिति श्लोकस्यान्यवबोधमाह - काणा- दन्यायाभिन्नेति । काणादन्यायाभिन्नं यन्मतद्वयं तद्विषयिणी या बालसम- वेताऽभिन्ना व्युत्पत्तिः, तादृशव्युत्पत्तिप्रयोजिका या अन्नम्भट्टविद्वन्निष्ठा भूतकालिकी कृतिः, तादृशकृतिविषयाभिन्नः तर्कसंग्रहाख्यो ग्रन्थ इत्यर्थः । न्या.बो. हे कृष्ण ! सच्चिदानन्दघन परमात्मन् ! (तव) लम्बनः त्वदाधाराः गाः- पृ.८१. मम सान्तःकरणानि इन्द्रियाणि अव = पाहि सदा तव चरणारविन्दलग्नानि कुरु इति धिया, पूषा इव पूषा अर्थात् भगवान् भास्कर इव जगति सकलार्थ- प्रकाशकः न्यायशास्त्रव्याख्यानेन सर्वव्युत्पित्सुभ्यः सकलपदार्थसार्थप्रबोधको गोवर्धनस्तं परमात्मानमभ्यर्चन् अस्ति । काभिः सामग्रीभिरभ्यर्चनां करोतीत्याह- विपुलाभीरसभाजनेत्यादि । रसानां भाजनेन सर्वरसशिरोमणिना भक्ति- रसेन (पूरिततया) जिताः विबुधेन्द्राणामपि महापण्डितानामपि स्तवाः याभि- स्तादृशीभिः विपुलाभिरभिरचनाभिः वाग्विलासैरभ्यर्चन्नस्तीति भावः । इति न्यायवेदान्तसांख्ययोगाचार्य श्रीकेदारनाथत्रिपाठिप्रणीतायां तर्कसङ्ग्रहन्यायबोधिनीव्याख्यानां कलायाम् अवशिष्टपरिच्छेदः समाप्तः । सारण्यमण्डले पुण्ये ग्रामे विष्णुपुराभिधे । जंनिस्त्रिपाठिनो लब्ध्वा रामादेयो विहारिणः ॥ न्यायव्याकरणे श्रीमत्सूर्यनारायणाद् गुरोः । वेदान्तं विश्रुताच्छ्रीमद्धरिहरकृपालुतः— श्रुत्वा वादविदग्रणीः स विदितः केदारनाथः कृती, मोहान्तप्रवर गिरिं हरिहरं संश्रित्य सर्वात्मना । अङ्गाङ्गाङ्कविधौ व्यधत्त विशदां व्याख्यां कलानामिकाम् । नव्यन्यायनयप्रवेशमनसां शीघ्रावबोधप्रदाम् ॥ —:०:—