तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 149, कुल 199 में से
संदर्भ में पढ़ें१३२ तर्कसंग्रहे [ अवशिष्टपरिच्छेदः न्या. बो. उत्तरयति — अत्र ब्रूम इत्यादिना नातिव्याप्तिरित्यन्तेन ग्रन्थेन । पृ. ७२. अयमाशयः — अनुभवजन्यत्वं नाम अनुभवत्वावच्छिन्नकारणतानिरूपित- कार्यताशालित्वम् । अर्थात् अनुभवत्वावच्छिन्ना या अनुभवनिष्ठा कारणता, तादृश- कारणतानिरूपिता या कार्यता, तादृशकार्यताशालि यत् तदेवात्रानुभवजन्यपदेन विवक्षितमिति । अत्र कारणता अनुभवत्वेन रूपेण विवक्षितेति तात्पर्यम् । दण्डी पुरुष इति बुद्धित्वावच्छिन्नकार्यता निरूपिता कारणता दण्डोऽयमिति ज्ञाने विद्यते, किन्तु तज्ज्ञानं न दण्डानुभवत्वेन रूपेण कारणं तत्र भवति, दण्डानुभवादिव दण्ड- स्मरणादपि दण्डी पुरुष इति विशिष्टबुद्ध्युत्पत्तेः, किन्तु अनुभवस्मरणसाधारणेन दण्डज्ञानत्वेनैव । अतो विशिष्टबुद्धित्वावच्छिन्नकार्यता निरूपिता कारणता दण्डज्ञानत्वावच्छिन्ना न तु दण्डानुभवत्वावच्छिन्ना । तथा च अनुभवत्वावच्छिन्न- कारणतानिरूपितकार्यताशालित्वरूपस्यानुभवजन्यत्वस्य दण्डी पुरुष इति प्रत्यक्षेऽभावान्न भावनालक्षणातिव्याप्तिरिति । अक्षरार्थस्तु स्वयमेव बोध्यः । न्या. बो. उक्तपरिष्कृतलक्षणं भावनायां सङ्गमयति — तथा हीति । अवच्छेदक- पृ. ७३. मिति । भावनात्वावच्छिन्नकार्यता निरूपिता याऽनुभवनिष्ठा कारणता, तस्या अनुभवत्वं कारणतावच्छेदकमित्यर्थः । अत्रापि अवच्छेदकादिपरिचर्या "गन्धवती पृथिवी" इत्यत्रत्या न्यायबोधिनीव्याख्या पुनरनुसन्धेया । शेषः स्पष्टार्थः । भावनालक्षणे स्मृतिहेतुत्वविशेषणस्य वैयर्थ्यमाशङ्कते — नन्वेवमिति । अयमत्र पूर्वपक्षाशयः — स्मृतिहेतुत्वविशेषणं हि अनुभवध्वंसेऽतिव्याप्ति- वारणाय प्रागुपात्तम् । सा चातिव्याप्तिः अनुभवजन्यत्वविशेषणेनैव नायाति । तथा हि सामान्यतो ध्वंसं प्रति प्रतियोगिनः कारणत्वं प्रतियोगित्वेनैव रूपेण भवति । एवं तत्तद्ध्वंसं प्रति तत्तत्प्रतियोगिव्यक्तेः तत्तद्व्यक्तित्वेनैव कारणत्वं भवति, अर्थात् ध्वंसनिष्ठकार्यता निरूपिता कारणता सामान्यतः प्रतियोगिताव- च्छिन्ना, विशेषतश्च तत्तद्व्यक्तित्वावच्छिन्ना भवति, न तु अनुभवत्वेनाप्यवच्छिन्ना भवति । तथा चानुभवत्वावच्छिन्नकारणतानिरूपितकार्यताशालित्वरूपानुभव- जन्यत्वविशेषणस्याभावादेव अनुभवध्वंसे नातिव्याप्तिरिति व्यर्थं स्मृतिहेतुत्व- विशेषणमिति भावः । अक्षरार्थस्तु स्पष्टः । न्या. बो. उत्तरयति — स्मृतावतिव्याप्तिवारणायैवेति । अयं भावः — स्मृतिं पृ. ७३. प्रत्यनुभव एव कारणं न तु स्मृतिरपि, अतो घटस्मृतित्वावच्छिन्नं प्रति घटानु- भवस्य घटानुभवत्वेनैव कारणता न तु घटज्ञानत्वेन । यदि स्मृतिं प्रति स्मृत्य- नुभवौ द्वावपि कारणे भवेताम् तदोभयसाधारणं ज्ञानत्वमेव स्मृतिकारणता- वच्छेदकं भवेत् न त्वेवमस्ति, तस्मात् स्मृतिव्यावृत्तमनुभवत्वमेव स्मृतिनिष्ठ- कार्यतानिरूपितकारणतावच्छेदकम् । तथा चानुभवत्वावच्छिन्नकारणतानिरूपित- कार्यताशालित्वस्य स्मृतावपि सत्त्वात् तत्रैव भावनालक्षणातिव्याप्तिवारणाय