तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 148, कुल 199 में से
संदर्भ में पढ़ेंन्यायबोधिनी-संस्कृत-कला १३१
भोजनादेः सुखेच्छाधीनेच्छाविषयत्वेन इतरेच्छानधीनेच्छाविषयत्वाभावात् भोज- नादौ सुखलक्षणस्य नातिव्याप्तिरिति भावः । मूले लक्षणसमन्वयमाह - सुखे- च्छाया इति । अर्थात् सुखेच्छा नेतरेच्छाधीना, किन्तु सुखमिदमिति सुखत्व- प्रकारकज्ञानमात्राधीनाऽत इतरेच्छानधीनेच्छाविषयत्वात् सुखे भवति लक्षण- समन्वयः । दुःखलक्षणं व्याख्यातुमाह - दुःखं निरूपयतीति । निष्कृष्टं लक्षणमाह - अत्रापीति । इतरद्वेषानधीनेत्यस्य फलमाह - द्वेषविषयत्वमात्रोक्ताविति । अयमाशयः - सर्पो न साक्षात् द्वेषविषयः, किन्तु तज्जन्यं दुःखमेव साक्षात् द्वेषविषयः, सर्पस्तु दुःखजनकत्वाल्लोकैर्द्विष्यतेऽतो दुःखद्वेषाधीनद्वेषविषयत्वात् सर्पो न दुःखं किन्तु दुःखसाधनमिति । एतत्स्वयमुप- पादयति सर्पजन्यदुःखादाविति । अत्रत्यं रहस्यमाह - फलेच्छेति । फलं सुखम्, उपायो भोजनादिः । एवं दुःखमपि फलं, सर्पादिरुपायः । उपायेच्छां प्रति फलेच्छा कारणं भवति । अतः फलेच्छाधीनैनैवोपायेच्छा भवति । एवमुपायद्वेषं प्रति फलद्वेषः कारणम् । अतः फलद्वेषाधीन एवोपायद्वेष इति भावः । न्या.बो. संस्कारस्वरूपव्याख्यानायाह - संस्कारं विभजते इति । वेगस्य सर्व- पृ.७०. प्रसिद्धत्वात् भावनास्वरूपमाह - अनुभवजन्यत्वे सति स्मृतिहेतुत्वं भावना- न्या.बो. लक्षणमिति । विशेषणफलमाह - अत्रेति । स्पष्टोऽर्थः । स्मृतिहेतुत्वरूपविशे- पृ.७१. ष्यानुपादानेऽनुभवजन्यत्वमात्रस्य चोक्तौ दोषमाह - तावन्मात्र इति । अयं भावः- यदि प्रतियोग्येव न भवेत्तर्हि कस्य ध्वंसो भवेत् ? अतो ध्वंसं प्रति प्रतियोगिनः कारणत्वम् । अनया रीत्या अनुभवध्वंसं प्रत्यपि अनुभवस्य प्रति- योगिविधया कारणता । एवञ्चानुभवध्वंसस्यानुभवजन्यत्वात्तत्रातिव्याप्तिवारणाय स्मृतिहेतुत्वं देयम् । तथा चानुभवध्वंसस्य स्मृतिं प्रति हेतुत्वाभावात् नाति- व्याप्तिरिति । ननु यत्र पूर्वं दण्डोऽयमिति प्रत्यक्षं, तदनन्तरं दण्डी पुरुष इति दण्डविशिष्ट- पुरुषप्रत्यक्षमुत्पन्नं, तत्र दण्डी पुरुष इत्याकारकप्रत्यक्षे भावनालक्षणातिव्याप्तिः, तस्य दण्डोऽयमिति प्रत्यक्षात्मकानुभवजन्यत्वे सति भाविन्यां दण्डी पुरुष इति स्मृतौ हेतुत्वात् । न च दण्डी पुरुष इति प्रत्यक्षं प्रति दण्डोऽयमिति प्रत्यक्षात्मक- ज्ञानस्य कथं कारणत्वमिति वाच्यम् दण्डी पुरुष इति ज्ञानस्य दण्डप्रकारकज्ञानत्वेन विशिष्टबुद्धित्वात्, विशिष्टबुद्धिं प्रति च दण्डादिरूपविशेषणज्ञानस्य कारणत्वादङ्गी- कारादित्याशङ्कते - नन्वित्यादिना चेदित्यन्तेन ग्रन्थेन । अत्रत्यशङ्काया उपपादनञ्च सरलत्वात् स्वयम्बोध्यम् ।