भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 147, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 147

अथावशिष्टपरिच्छेदः न्या.बो. पूर्वं यथार्थानुभवभेदा व्याख्याता इदानीमयथार्थानुभवभेदान् व्याख्यातु- पृ. ६७. माह—यथार्थानुभवमिति । एकस्मिन्नित्यादिसंशयस्वरूपं व्याचष्टे—एकधर्मा- वच्छिन्नेति । एकधर्मविच्छिन्ना या विशेष्यता, तादृशविशेष्यतानिरूपिता या भावाभावोभयनिष्ठा प्रकारता, तादृशप्रकारतानिरूपकं यज्ज्ञानं तत् संशय इत्यर्थः । यथा जीवो नित्यो नवेति ज्ञानं संशयः । अत्रैकधर्मः जीवत्वं, तदवच्छिन्ना विशेष्यता जीवनिष्ठा, तन्निरूपिता प्रकारता नित्यत्वतदभावयोरुभयोरस्ति, तादृशप्रकारताक- मिदं ज्ञानमतोऽत्र लक्षणसमन्वयः । ननूक्तलक्षणानुसारं यत्रैकस्मिन् विशेष्ये भावा- भावौ विशेषणीभूतौ स्याताम्, तदेव ज्ञानं संशयः कथ्येत, किन्तु अयं स्थाणुर्वा पुरुषो वेति ज्ञानं संशयो न भवेत्, तत्र स्थाणुत्वपुरुषत्वयोर्भावयोरेव विशेषणत्वा- दिति शङ्कामपाकर्तु माह—भावद्वयेति । अप्रसिद्धेरिति । भावद्वयकोटिकः संशयो मयाऽपि नाङ्गीक्रियत इति भावः । शङ्कितस्थले सशयत्वमुपपादयति — स्थाणुर्वेत्यत्रेति । न्या.बो. व्याप्यारोपेणेतीति । यथा—पर्वतो वह्निमान् इत्यनुमितौ शङ्कानिवा- पृ. ६८. रणाय “यद्यत्र वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात्” इति तर्कः प्रयुज्यते । अत्र वह्नयभावो व्याप्यो धूमाभावश्च व्यापकः । तर्के किं कारणमित्याह—तर्के इति । व्याप्यस्य वह्नयभावादेः व्यापकस्य धूमाभावादेः पर्वतादावभावनिश्चय इत्यर्थः । अन्यथेति । ‘यदि वह्निर्न स्यात् धूमोऽपि न स्यात्’ इत्युक्तौ न स्याद्- धूमोऽपि, का नो हानिरिति परे ब्रूयादिति भावः । सुखलक्षणं व्याख्यातुमाह—सुखं निरूपयतीति । इतरविषयीणी येच्छा, तदनधीना येच्छा, तद्विषयीभूतं यत् तत् सुखमित्यर्थः । इष्टं वस्तु द्विविधं भवति, साक्षात् परम्परया च । साक्षादिष्टं सुखं परम्परया चेष्टं तत्साधनम् । सुख- साधनीभूते भोजनादौ तदैवेच्छा भवति, यदा पूर्वं सुखस्येच्छा स्यात् । अतो भोजनेच्छा सुखेच्छाधीना । तथा च सुखेच्छाधीनेच्छाविषयत्वात् भोजने न सुख- लक्षणातिप्रसङ्गः । सुखेच्छा तु नेतरेच्छाधीनाऽत इतरेच्छानधीनेच्छाविषयत्वात् सुखे लक्षणसमन्वयः । यथाश्रुतेऽनुकूलत्वप्रकारकज्ञानविशेष्यत्वरूपे सुखलक्षणेऽभिप्रेते घटोऽनुकूल इति ज्ञानस्यानुकूलत्वप्रकारकघटविशेष्यकतया विशेष्यीभूते घटे सुखलक्षणातिव्याप्ति- न्या.बो.रित्याह—यथाश्रुते इति । निष्कृष्टलक्षणे इतरेच्छानधीनेति विशेषणानुक्तौ पृ. ६८. इच्छाविषयत्वमात्रस्य सुखलक्षणत्वे दोषमाह – सुखेच्छाधीन इति । तथा