तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 147, कुल 199 में से
संदर्भ में पढ़ेंअथावशिष्टपरिच्छेदः न्या.बो. पूर्वं यथार्थानुभवभेदा व्याख्याता इदानीमयथार्थानुभवभेदान् व्याख्यातु- पृ. ६७. माह—यथार्थानुभवमिति । एकस्मिन्नित्यादिसंशयस्वरूपं व्याचष्टे—एकधर्मा- वच्छिन्नेति । एकधर्मविच्छिन्ना या विशेष्यता, तादृशविशेष्यतानिरूपिता या भावाभावोभयनिष्ठा प्रकारता, तादृशप्रकारतानिरूपकं यज्ज्ञानं तत् संशय इत्यर्थः । यथा जीवो नित्यो नवेति ज्ञानं संशयः । अत्रैकधर्मः जीवत्वं, तदवच्छिन्ना विशेष्यता जीवनिष्ठा, तन्निरूपिता प्रकारता नित्यत्वतदभावयोरुभयोरस्ति, तादृशप्रकारताक- मिदं ज्ञानमतोऽत्र लक्षणसमन्वयः । ननूक्तलक्षणानुसारं यत्रैकस्मिन् विशेष्ये भावा- भावौ विशेषणीभूतौ स्याताम्, तदेव ज्ञानं संशयः कथ्येत, किन्तु अयं स्थाणुर्वा पुरुषो वेति ज्ञानं संशयो न भवेत्, तत्र स्थाणुत्वपुरुषत्वयोर्भावयोरेव विशेषणत्वा- दिति शङ्कामपाकर्तु माह—भावद्वयेति । अप्रसिद्धेरिति । भावद्वयकोटिकः संशयो मयाऽपि नाङ्गीक्रियत इति भावः । शङ्कितस्थले सशयत्वमुपपादयति — स्थाणुर्वेत्यत्रेति । न्या.बो. व्याप्यारोपेणेतीति । यथा—पर्वतो वह्निमान् इत्यनुमितौ शङ्कानिवा- पृ. ६८. रणाय “यद्यत्र वह्निर्न स्यात् तर्हि धूमोऽपि न स्यात्” इति तर्कः प्रयुज्यते । अत्र वह्नयभावो व्याप्यो धूमाभावश्च व्यापकः । तर्के किं कारणमित्याह—तर्के इति । व्याप्यस्य वह्नयभावादेः व्यापकस्य धूमाभावादेः पर्वतादावभावनिश्चय इत्यर्थः । अन्यथेति । ‘यदि वह्निर्न स्यात् धूमोऽपि न स्यात्’ इत्युक्तौ न स्याद्- धूमोऽपि, का नो हानिरिति परे ब्रूयादिति भावः । सुखलक्षणं व्याख्यातुमाह—सुखं निरूपयतीति । इतरविषयीणी येच्छा, तदनधीना येच्छा, तद्विषयीभूतं यत् तत् सुखमित्यर्थः । इष्टं वस्तु द्विविधं भवति, साक्षात् परम्परया च । साक्षादिष्टं सुखं परम्परया चेष्टं तत्साधनम् । सुख- साधनीभूते भोजनादौ तदैवेच्छा भवति, यदा पूर्वं सुखस्येच्छा स्यात् । अतो भोजनेच्छा सुखेच्छाधीना । तथा च सुखेच्छाधीनेच्छाविषयत्वात् भोजने न सुख- लक्षणातिप्रसङ्गः । सुखेच्छा तु नेतरेच्छाधीनाऽत इतरेच्छानधीनेच्छाविषयत्वात् सुखे लक्षणसमन्वयः । यथाश्रुतेऽनुकूलत्वप्रकारकज्ञानविशेष्यत्वरूपे सुखलक्षणेऽभिप्रेते घटोऽनुकूल इति ज्ञानस्यानुकूलत्वप्रकारकघटविशेष्यकतया विशेष्यीभूते घटे सुखलक्षणातिव्याप्ति- न्या.बो.रित्याह—यथाश्रुते इति । निष्कृष्टलक्षणे इतरेच्छानधीनेति विशेषणानुक्तौ पृ. ६८. इच्छाविषयत्वमात्रस्य सुखलक्षणत्वे दोषमाह – सुखेच्छाधीन इति । तथा