तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 146, कुल 199 में से
संदर्भ में पढ़ेंअन्वयं नानुभावयति अर्थात् शाब्दबोधं न जनयति, तस्य पदस्य तस्मिन् पदान्तरे आकाङ्क्षेति । एतस्यैव व्याख्यामाह टीकाकारः—अव्यवहितोत्तरत्त्वादि- सम्बन्धेनेति । अयमाशयः—घटमिति पदं यदोच्चार्यते तदैव घटीयं कर्मत्वमिति बोधो जायते, घटस्येति यदोच्चार्यते तदैव घटीयः सम्बन्ध इति बोधो जायते । अतः घटपदाव्यवहितोत्तरम् अम्षदोच्चारणमावश्यकम्, एवं घटपदोत्तरं स्य- ( ङस् ) पदोच्चारणमावश्यकम्, केवले घटेति अमिति वा पदे उच्चारिते व्या बो किञ्चिद्बोधानुत्पादात् । अत्र घटमिति पदेऽव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टम् पृ.६५.अम्पदमस्ति, एवं घटस्येत्यत्र अव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टं स्यपद- मस्ति, घटपदापेक्षया ऽव्यवहितोत्तर एव अम्पादस्य स्यपदस्य च वर्तमानत्वात् । एतावतेतदायाति यत् यत्पदान्यवहितोत्तरं यत्पदाभावे सति यादृशशाब्दबोधो न जायते, तादृशशाब्दबोधे अव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्वं तद्पदे आकाङ्क्षेति । अत्र घटमिति पदे घटपदं प्रकारः अम्पदं विशेष्यम्, घटपदनिष्ठा या प्रकारता साऽव्यवहितोत्तरत्वसम्बन्धेन । अत एतदायाति यत् घटीयं कर्मत्वमिति बोध- जननाय अव्यहितोत्तरत्वसम्बन्धेन घटपदप्रकारकम् अम्पादविशेष्यकं घटमित्येता- वज्ज्ञानमावश्यकम्, एवंविधज्ञानाभावे तु शाब्दबोधो न जनिष्यते । तथा च अव्यवहितोत्तरत्वसम्बन्धेन यत्पदप्रकारकतत्पदविशेष्यकज्ञानाभावप्रयुक्तः (ज्ञाना- भाववशात्) यादृशशाब्दबोधो न जायतेऽव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्वं तत्पदनिष्ठमाकाङ्क्षेति टीकाकृतां निष्कृष्टं प्रकारान्तरम् । अत एव अम्घट इति वैपरीत्येनोच्चारणे सति अम्पदस्यैव प्रकारतया घटपदप्रकारकाम्पदविशेष्य- कज्ञानाभावात् घटीयं कर्मत्वमिति स्वाभीष्टः शाब्दबोधो न जायते । तस्मात् सिद्धमाकाङ्क्षाज्ञानं शाब्दबोधं प्रति कारणमिति । पङ्क्त्यर्थस्तु व्याख्येयैव निपुणं करणीय इति । न्या.बो अर्थबाधो योग्यतेति मूलस्यार्थमाह—बाधाभाव इति । अर्थबाधाभावो पृ ६६.योग्यतेत्यर्थः । अग्निना सिञ्चेदिति मूलोदाहृतं व्याचष्टे—अग्निनेति । सन्निधिनिरूपणे “असह्योच्चारितानी” त्यस्यार्थमाह—विलम्बोच्चारिता- नीति । लौकिकवैदिकद्विविधवाक्ययोः वैदिकपदेन यद्गृह्यते तदाह—वेदवाक्य- मित्यर्थ इति । नहि वेदवाक्यमेव प्रमाणं, किन्तर्हि वेदमूलकानि स्मृत्यादीन्यपि सर्वाणि प्रमाणत्वेन ग्राह्याणीत्याह—इदमुपलक्षणमिति । लौकिकपदस्यार्थमाह- वेदवाक्यभिन्नमिति । लौकिकवाक्यमाप्तोक्तमेव प्रमाणं, तत्राप्तोक्तत्वं किम् ? तदाह आप्तत्वञ्चेति । शब्दादिप्रयोगहेतुभूतं यद् यथार्थज्ञानं तद्वत्त्वमित्यर्थः । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायां शब्दपरिच्छेदः । —:०:— ९