भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 146, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 146

अन्वयं नानुभावयति अर्थात् शाब्दबोधं न जनयति, तस्य पदस्य तस्मिन् पदान्तरे आकाङ्क्षेति । एतस्यैव व्याख्यामाह टीकाकारः—अव्यवहितोत्तरत्त्वादि- सम्बन्धेनेति । अयमाशयः—घटमिति पदं यदोच्चार्यते तदैव घटीयं कर्मत्वमिति बोधो जायते, घटस्येति यदोच्चार्यते तदैव घटीयः सम्बन्ध इति बोधो जायते । अतः घटपदाव्यवहितोत्तरम् अम्षदोच्चारणमावश्यकम्, एवं घटपदोत्तरं स्य- ( ङस् ) पदोच्चारणमावश्यकम्, केवले घटेति अमिति वा पदे उच्चारिते व्या बो किञ्चिद्बोधानुत्पादात् । अत्र घटमिति पदेऽव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टम् पृ.६५.अम्पदमस्ति, एवं घटस्येत्यत्र अव्यवहितोत्तरत्वसम्बन्धेन घटपदविशिष्टं स्यपद- मस्ति, घटपदापेक्षया ऽव्यवहितोत्तर एव अम्पादस्य स्यपदस्य च वर्तमानत्वात् । एतावतेतदायाति यत् यत्पदान्यवहितोत्तरं यत्पदाभावे सति यादृशशाब्दबोधो न जायते, तादृशशाब्दबोधे अव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्वं तद्पदे आकाङ्क्षेति । अत्र घटमिति पदे घटपदं प्रकारः अम्पदं विशेष्यम्, घटपदनिष्ठा या प्रकारता साऽव्यवहितोत्तरत्वसम्बन्धेन । अत एतदायाति यत् घटीयं कर्मत्वमिति बोध- जननाय अव्यहितोत्तरत्वसम्बन्धेन घटपदप्रकारकम् अम्पादविशेष्यकं घटमित्येता- वज्ज्ञानमावश्यकम्, एवंविधज्ञानाभावे तु शाब्दबोधो न जनिष्यते । तथा च अव्यवहितोत्तरत्वसम्बन्धेन यत्पदप्रकारकतत्पदविशेष्यकज्ञानाभावप्रयुक्तः (ज्ञाना- भाववशात्) यादृशशाब्दबोधो न जायतेऽव्यवहितोत्तरत्वसम्बन्धेन तत्पदवत्त्वं तत्पदनिष्ठमाकाङ्क्षेति टीकाकृतां निष्कृष्टं प्रकारान्तरम् । अत एव अम्घट इति वैपरीत्येनोच्चारणे सति अम्पदस्यैव प्रकारतया घटपदप्रकारकाम्पदविशेष्य- कज्ञानाभावात् घटीयं कर्मत्वमिति स्वाभीष्टः शाब्दबोधो न जायते । तस्मात् सिद्धमाकाङ्क्षाज्ञानं शाब्दबोधं प्रति कारणमिति । पङ्क्त्यर्थस्तु व्याख्येयैव निपुणं करणीय इति । न्या.बो अर्थबाधो योग्यतेति मूलस्यार्थमाह—बाधाभाव इति । अर्थबाधाभावो पृ ६६.योग्यतेत्यर्थः । अग्निना सिञ्चेदिति मूलोदाहृतं व्याचष्टे—अग्निनेति । सन्निधिनिरूपणे “असह्योच्चारितानी” त्यस्यार्थमाह—विलम्बोच्चारिता- नीति । लौकिकवैदिकद्विविधवाक्ययोः वैदिकपदेन यद्गृह्यते तदाह—वेदवाक्य- मित्यर्थ इति । नहि वेदवाक्यमेव प्रमाणं, किन्तर्हि वेदमूलकानि स्मृत्यादीन्यपि सर्वाणि प्रमाणत्वेन ग्राह्याणीत्याह—इदमुपलक्षणमिति । लौकिकपदस्यार्थमाह- वेदवाक्यभिन्नमिति । लौकिकवाक्यमाप्तोक्तमेव प्रमाणं, तत्राप्तोक्तत्वं किम् ? तदाह आप्तत्वञ्चेति । शब्दादिप्रयोगहेतुभूतं यद् यथार्थज्ञानं तद्वत्त्वमित्यर्थः । इति तर्कसंग्रहन्यायबोधिनीव्याख्यायां कलायां शब्दपरिच्छेदः । —:०:— ९