तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 145, कुल 199 में से
संदर्भ में पढ़ेंशक्तिलक्षणान्यतररूपायां वृत्तौ शक्तिरुक्ता, लक्षणा केत्याह—शक्यसम्बन्धो लक्षणेति । शक्यस्य यः सम्बन्धः सामीप्यादिः, स एव लक्षणेत्यर्थः । यथा गङ्गायां घोषः इत्यत्र गङ्गापदस्य शक्यार्थः प्रवाहः, तत्र घोषः ( आभीरपल्ली ) क्षणमपि स्थातुं नार्हति, तस्माद् गङ्गापदस्य सामीप्यसम्बन्धवति तीरे लक्षणा, अतस्तस्माद् वाक्याद् गङ्गातीरे घोष इत्यर्थो लक्षणया लभ्यते । गौणी-शुद्धाभेदेन लक्षणा द्वेधेत्याह— सेति । तत्र गौणीमाह--गौणी नामेति । दृष्टान्तं प्रदर्श- यति—यथेति । माणवकस्तु सिंहो नास्ति, किन्तु विशिष्टे लक्षणां कृत्वा सिंह- सदृशो माणवक इत्यर्थो लभ्यते । इयमेव गौणी लक्षणा । शुद्धायास्त्रैविध्यमाह— जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेतीति । प्रथमामाह— लक्ष्यतावच्छेदकरूपेणेति । गङ्गापदस्य लक्ष्यं तीरं भवत्यतो लक्ष्यतावच्छेदकं तीरत्वं, तेन रूपेणेत्यर्थः । लक्ष्यमात्रबोधेति मात्रपदेन शक्यार्थस्य प्रवाहादेर्व्य- वच्छेदः । उदाहरति--यथा गङ्गायां घोष इति । गङ्गापदस्य वाच्यो ( शक्यः ) यः प्रवाहः तत्सम्बन्धस्य तीरे सत्त्वादिति । अग्रे सुगमोऽन्वयबोधः । द्वितीयामाह—लक्ष्येतेति । या शक्यार्थसहितं लक्ष्यार्थं बोधयति सा अजहल्लक्षणा कथ्यते । उदाहरति—यथा काकेभ्य इति । न्या बो. अयमाशयः—काकेभ्यो दधि रक्ष्यतामिति वाक्येन काकेभ्य एव दधिरक्षणं **पृ.६४.**करणीयं न विडालादिभ्य इत्यर्थो न भवति, किन्तु यावन्तो दध्युपघातका विडाला- दयस्तेभ्यः सर्वेभ्य एव दधि रक्षणीयमिति वक्तुस्तात्पर्यं तत्रास्ति । अतस्तत्र काक- पदस्य दध्युपघातके लक्षणा स्वीक्रियते । तथा च लक्ष्यतावच्छेदकीभूतदध्युपघात- कत्वेन रूपेणापरे विडालादयो बोध्यन्ते । एवं सति काकपदशक्यार्थः काकोऽपि न हीयतेऽतोऽजहल्लक्षणेत्यन्वर्थेयं संज्ञेति । अक्षरार्थः स्पष्टः । यत्र लक्षणया शक्यार्थेषु कश्चिदर्थो हीयते कश्चिदर्थो न हीयते, सा जहद- जहल्लक्षणा भवति, तां च वेदान्तिनां मतेनोदाहरति--जहदजहल्ल- क्षणेति । स्वयं तस्याः स्वरूपमाह—सा चेति । अत्र शक्यतावच्छेदकं परित्यज्यते व्यक्तिमात्रं बोध्यत इत्याशयः । अयं सारः--वेदान्तनये तत् त्वमसीति श्रुतौ तत्पदेन सर्वज्ञत्वविशिष्टात्म- व्यक्तिः बोध्यते, त्वम्पदेन चाल्पज्ञत्वविशिष्टात्म ( जीवात्म ) व्यक्तिर्बोध्यते । घटो द्रव्यमितिवत् "तत् त्वमिति" प्रथमान्ताभ्यां पदाभ्यामभेदो बोध्यते । स चाभेदः सर्वज्ञत्वाल्पज्ञव्यक्तयोरनुपपन्नः, ततोऽत्र जहदजहल्लक्षणया सर्वज्ञत्वाल्प- ज्ञत्वांशौ हित्वा व्यक्त्यंशञ्चाहित्वा परस्परमभिन्नमात्ममात्रं बोध्यत इति । आकाङ्क्षालक्षणं व्याख्यातुमाह—आकाङ्क्षां लक्षयतीति । पदस्ये- तीति । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षेति मूलोक्तं लक्षणम्, तस्यायमर्थः—व्यतिरेकोऽभाव इत्यनर्थान्तरम् । एकं पदं यत्पदाभाववशात्