भारतकोश
तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)

Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi

अन्नम्भट्ट द्वारा

DevanagariHindipublished199 पृष्ठ

पृष्ठ 145, कुल 199 में से

संदर्भ में पढ़ें
पृष्ठ 145

शक्तिलक्षणान्यतररूपायां वृत्तौ शक्तिरुक्ता, लक्षणा केत्याह—शक्यसम्बन्धो लक्षणेति । शक्यस्य यः सम्बन्धः सामीप्यादिः, स एव लक्षणेत्यर्थः । यथा गङ्गायां घोषः इत्यत्र गङ्गापदस्य शक्यार्थः प्रवाहः, तत्र घोषः ( आभीरपल्ली ) क्षणमपि स्थातुं नार्हति, तस्माद् गङ्गापदस्य सामीप्यसम्बन्धवति तीरे लक्षणा, अतस्तस्माद् वाक्याद् गङ्गातीरे घोष इत्यर्थो लक्षणया लभ्यते । गौणी-शुद्धाभेदेन लक्षणा द्वेधेत्याह— सेति । तत्र गौणीमाह--गौणी नामेति । दृष्टान्तं प्रदर्श- यति—यथेति । माणवकस्तु सिंहो नास्ति, किन्तु विशिष्टे लक्षणां कृत्वा सिंह- सदृशो माणवक इत्यर्थो लभ्यते । इयमेव गौणी लक्षणा । शुद्धायास्त्रैविध्यमाह— जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेतीति । प्रथमामाह— लक्ष्यतावच्छेदकरूपेणेति । गङ्गापदस्य लक्ष्यं तीरं भवत्यतो लक्ष्यतावच्छेदकं तीरत्वं, तेन रूपेणेत्यर्थः । लक्ष्यमात्रबोधेति मात्रपदेन शक्यार्थस्य प्रवाहादेर्व्य- वच्छेदः । उदाहरति--यथा गङ्गायां घोष इति । गङ्गापदस्य वाच्यो ( शक्यः ) यः प्रवाहः तत्सम्बन्धस्य तीरे सत्त्वादिति । अग्रे सुगमोऽन्वयबोधः । द्वितीयामाह—लक्ष्येतेति । या शक्यार्थसहितं लक्ष्यार्थं बोधयति सा अजहल्लक्षणा कथ्यते । उदाहरति—यथा काकेभ्य इति । न्या बो. अयमाशयः—काकेभ्यो दधि रक्ष्यतामिति वाक्येन काकेभ्य एव दधिरक्षणं **पृ.६४.**करणीयं न विडालादिभ्य इत्यर्थो न भवति, किन्तु यावन्तो दध्युपघातका विडाला- दयस्तेभ्यः सर्वेभ्य एव दधि रक्षणीयमिति वक्तुस्तात्पर्यं तत्रास्ति । अतस्तत्र काक- पदस्य दध्युपघातके लक्षणा स्वीक्रियते । तथा च लक्ष्यतावच्छेदकीभूतदध्युपघात- कत्वेन रूपेणापरे विडालादयो बोध्यन्ते । एवं सति काकपदशक्यार्थः काकोऽपि न हीयतेऽतोऽजहल्लक्षणेत्यन्वर्थेयं संज्ञेति । अक्षरार्थः स्पष्टः । यत्र लक्षणया शक्यार्थेषु कश्चिदर्थो हीयते कश्चिदर्थो न हीयते, सा जहद- जहल्लक्षणा भवति, तां च वेदान्तिनां मतेनोदाहरति--जहदजहल्ल- क्षणेति । स्वयं तस्याः स्वरूपमाह—सा चेति । अत्र शक्यतावच्छेदकं परित्यज्यते व्यक्तिमात्रं बोध्यत इत्याशयः । अयं सारः--वेदान्तनये तत् त्वमसीति श्रुतौ तत्पदेन सर्वज्ञत्वविशिष्टात्म- व्यक्तिः बोध्यते, त्वम्पदेन चाल्पज्ञत्वविशिष्टात्म ( जीवात्म ) व्यक्तिर्बोध्यते । घटो द्रव्यमितिवत् "तत् त्वमिति" प्रथमान्ताभ्यां पदाभ्यामभेदो बोध्यते । स चाभेदः सर्वज्ञत्वाल्पज्ञव्यक्तयोरनुपपन्नः, ततोऽत्र जहदजहल्लक्षणया सर्वज्ञत्वाल्प- ज्ञत्वांशौ हित्वा व्यक्त्यंशञ्चाहित्वा परस्परमभिन्नमात्ममात्रं बोध्यत इति । आकाङ्क्षालक्षणं व्याख्यातुमाह—आकाङ्क्षां लक्षयतीति । पदस्ये- तीति । पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षेति मूलोक्तं लक्षणम्, तस्यायमर्थः—व्यतिरेकोऽभाव इत्यनर्थान्तरम् । एकं पदं यत्पदाभाववशात्