तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 139, कुल 199 में से
संदर्भ में पढ़ें१२२ तर्कसंग्रहे [ अनुमानपरिच्छेदः इदमपर्यन्तं सद्धेतवो व्याख्याताः, इतो हेत्वाभासान् ( असद्धेतून् ) व्याख्या- तुमारभते—एवमिति । हेत्वाभासपदार्थमाह— हेतुवदिति । हेतुवद् ये आभा- सन्तेमात्रं, न तु वस्तुतो हेतवस्ते हेत्वाभासा इत्यर्थः । दुष्टहेतव इति यावत् । ते च हेत्वाभासाः पञ्च । तथा च गौतमसूत्रम्— "सव्यभिचार-विरुद्ध प्रकरणसम- साध्यसम-कालातीता हेत्वाभासा।" (१।२।४) । ननु के दोषाः यैर्दोषैर्हेतवो न्या.बो. दुष्टहेतव इति कथ्यन्ते ? तत्राह—दोषाश्चेति । ननु व्यभिचारादिदोषः साक्षात्- पृ.५३. सम्बन्धेन हेतौ तिष्ठतीति सव्यभिचारो हेतुः दुष्टः प्रतिपाद्यतान्नाम किन्तु ये बाधादिदोषाः हेतौ न तिष्ठन्ति । किन्तु पक्षादौ एव तिष्ठन्ति, तत्रत्यहेतवः कथ दुष्टाः कथ्येरन्निति शङ्कामपाकर्त्तुमाह— एकज्ञानेति । तथा च एकज्ञानविषय- प्रकृतहेतुतावच्छेदकवत्त्वसम्बन्धेन सर्वे एव हेतवो दोषवन्तो भविष्यन्तीति न कापि क्षतिः । पृथक् पृथक् दोषलक्षणानि त्वग्रे वक्ष्यन्ते, इह पञ्चविधदोषसाधारणं लक्षणं तावदाह— यद्विषयकत्वेनेति । अत्र तृतीयाया अवच्छिन्नत्वमर्थः । ज्ञानस्येति षष्ठ्या निष्ठत्वमर्थः । तथा च यद्विषयकत्वावच्छिन्न ज्ञाननिष्ठमनुमितितत्करणा- न्यतरप्रतिबन्धकत्वं तत्त्वं दोषसामान्यलक्षणम् । यद्विषयकं ज्ञानम् अनुमितितत्क- रणान्यतरप्रतिबन्धकं स दोष इति तात्पर्यम् । अयं भावः—दोषा हि अनुमिति तत्करणीभूतं व्याप्तिज्ञानञ्च प्रतिबध्नन्ति । तत्र प्रतिबन्धकता दोषज्ञानेऽस्ति, प्रतिबध्यता चानुमितितत्करणीभूतव्याप्तिज्ञान- योरस्ति । एवं सति लक्ष्यतालक्ष्योक्तनियमानुसारं दोषज्ञाननिष्ठाया अनुमिति- तत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकताया अवच्छेदकं दोषविषयक- ज्ञानत्वम् । एवं दोषज्ञाननिष्ठोक्तप्रतिबन्धकता दोषविषयकज्ञानत्वावच्छिन्ना (दोषविषयकत्वावच्छिन्ना ) भवति । तथा च यद्विषयकत्वावच्छिन्ना दोषज्ञान- निष्ठा अनुमितितत्करणान्यतरनिष्ठप्रतिबध्यतानिरूपितप्रतिबन्धकता तत्त्वं दोषत्व- मिति पर्यवसितम् । यथा ह्रदो वह्निमानित्यनुमितौ वह्न्यभाववद्ध्रद इत्याका- रकबाधो दोषः । तत्र वह्न्यभाववद्ध्रदविषयकं ह्रदो वह्न्यभाववानिति ज्ञाने सति ह्रदो वह्निमानित्यनुमितिर्न जायते, तथा च ह्रदो वह्निमानित्यनुमितिनिष्ठ- प्रतिबध्यतानिरूपितप्रतिबन्धकताया वह्न्यभाववद्ध्रदविषयके ज्ञाने सत्त्वेन एतत्स्थले वह्न्यभाववद्ध्रदरूपबाधदोषः । एवं धूमवान् वह्नेरित्यनुमितिस्थले धूमाभाववद्वृत्तित्वं वह्निगतं व्यभिचारनामकदोषः । तत्र धूमाभाववद्वृत्तिर्वह्नि- रिति व्यभिचारज्ञाने सति धूमाभाववद्वृत्तिर्वह्निरिति व्याप्तिज्ञानं न जायते । तथा च धूमाभाववद्वृत्तिर्वह्निरिति व्याप्तिज्ञानरूपानुमितिकरणनिष्ठप्रतिबध्यता- निरूपितप्रतिबन्धकताया धूमाभाववद्वृत्तित्वरूपव्यभिचारज्ञाने सत्त्वेन एतत्स्थले