तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 140, कुल 199 में से
संदर्भ में पढ़ेंन्यायबोधिनी-संस्कृत-कला १२३ धूमाभाववद्वृत्तित्वरूपो व्यभिचारो दोषः । तद्वत्त्वाच्च वह्निहेतुः व्यभिचारी भवति । दुष्टहेतुनिरूपणस्य प्रयोजनमाह-हेतौ दोषज्ञाने इति । सव्यभिचारं व्याख्यातुमारभते - सव्यभिचारमिति । लक्षणमाह- साधारणाद्यन्यतमत्वमिति । अन्यतमपदार्थस्तु पूर्वमुक्तः । साधारणत्वस्वरूप- माह-साध्याभाववद्वृत्तित्वमिति । फलनिर्देशसहितमुदाहरणमाह - वह्नि- मान् प्रमेयत्वादिति । अत्र साध्यो वह्निः, तदभाववान् हृदादिः, तत्र प्रमेयत्वस्य न्या.बो. वृत्तित्वमिति लक्षणसमन्वयः । असाधारण इतीति । सर्वसपक्षविपक्षव्यावृत्तत्वे पृ. ५४. सति पक्षमात्रवृत्तित्वम् इत्यसाधारणलक्षणे सर्वसपक्षव्यावृत्तत्वस्यार्थमाह- निश्चितेति । सपक्षपदेन निश्चितसाध्यवतो ग्रहणात् व्यावृत्तत्वपदस्यावृत्तित्वार्थ- कत्वाच्चेति भावः । साध्यवद्वृत्तित्वपदस्य साध्यसामानाधिकरण्यमित्यर्थ इत्याह - साध्यवद्वृत्तित्वमिति । एवं रीत्यैव सर्वविपक्षव्यावृत्तत्वमपि निश्चितसाध्याभावासामानाधिकरण्यरूपं ज्ञेयम् । वायुक्तदुष्टहेतौ एवंविधासाधारण- त्वज्ञानस्य फलमाह - हेताविति । न्या.बो. अनुपसंहारिलक्षणं व्याख्यातुमाह-अनुपसंहारिणं लक्षयतीति । अन्वय- पृ. ५५. व्यतिरेकदृष्टान्तरहितत्वमनुपसंहारित्वमित्यस्य तात्पर्यमाह - उभयत्रेति । दृष्टा- न्ताभावादिति = सपक्षविपक्षयोरभावादित्यर्थः । हेतुमाह - सर्वस्यैवेति । पक्षत्वात् = सन्दिग्धसाध्यवत्त्वात् । पक्षातिरिक्तप्रसिद्धेरिति - निश्चितसाध्यवतो निश्चितसाध्याभाववतश्चाप्रसिद्धेरुभयी अपि व्याप्तिर्नास्तीति भावः । तथा चात्रा- नुमितिहेतुः परामर्श एव न सेत्स्यतीत्याशयः । परिष्कृतमनुपसंहारित्वमाह- किञ्चिदिति । किञ्चिद्विशेष्यको यो निश्चयः तद्विषयीभूतं साध्यं यस्य हेतोः स किञ्चिद्विशेष्यकनिश्चयाविषयसाध्यकः, तत्त्वे सति, किञ्चिद्विशेष्यकनिश्चयस्या- विषयीभूतः साध्याभावो यस्य हेतोः स हेतुः किञ्चिद्विशेष्यकनिश्चयाविषयसाध्या- भावकः, तत्त्वमनुपसंहारित्वमित्यर्थः । यादृशेन हेतुना तत् साध्यमनुमीयेत यत् साध्यमन्यत्र ( पक्षातिरिक्ते ) क्वचित् निश्चितं न स्यात् न वा तदभाव ( साध्या- भाव ) एव क्वचिन्निश्चितो भवेत्, स हेतुग्नुपसंहारी भवतीत्याशयः । अनुपसंहा- रित्वज्ञानस्य फलमाह - एतदीयेति । व्याप्तिसंशयजननद्वारेति । यत्र साध्य- साध्याभावान्यतरनिश्चयः क्वाचदपि न भवति, तत्र साध्यहेत्वोः साध्याभावहेत्व- भावयोर्वा साहचर्यरूपव्याप्तिनिश्चयो नैव जायते अपि तु व्याप्तिसंशय एव जायते, तत्रेत्यर्थः । साध्याभाववदवृत्तित्वमेव व्याप्तिर्युक्ता, केवलान्वयी हेतुश्चानुपसंहारिणि अन्तर्भावनीय इत्याशयेनानुपसंहारित्वं वस्तुगत्या लक्षयति - वस्तुतस्त्विति ।