तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 153, कुल 199 में से
संदर्भ में पढ़ें१३६ तर्कसंग्रहे [ अवशिष्टपरिच्छेदः
आद्यप्राणशरीरसंयोगो जन्म । तथा च तादृशसंयोगरूपस्य प्रेत्यभावस्य गुणे, सुख- दुःखानुभवरूपस्य मुख्यफलस्य गुणे, शेषफलानां तु यथासंभवं द्रव्यादिषु, दुःखस्य गुणे, आत्यन्तिकदुःखध्वंसरूपस्यापवर्गस्याभावे, संशयस्य गुणे, साध्यत्वेनेच्छा- विषयरूपस्य प्रयोजनस्य यथायथं द्रव्यादिषु, दृष्टान्तस्य महानसादेर्यथायथं द्रव्या- दिषु, शब्दस्वरूपाणाम् प्रतिज्ञाद्यन्यतमरूपावयवानां गुणे, व्याप्यारोपेण व्यापकारो- पस्य तर्कस्य ज्ञानविशेषात्मकतया गुणे, निर्णयस्य गुणे, तत्त्वबुभुत्सोः कथा वादः- विजिगीषुकथा जल्पः—स्वपक्षस्थापनाहीनकथा वितण्डा । कथा नाम नाना वक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसन्दर्भः । तथा चोक्तरूपाणां वादादीनां त्रयाणां शब्दरूप- तया गुणे, हेत्वाभासानां यथायथं द्रव्यादिषु, अभिप्रायान्तरेण प्रयुक्तशब्दस्यार्थान्तरं प्रकल्प्य दूषणाभिधानरूपस्य च छलस्य गुणे, असदुत्तररूपजातेर्गुणे, पराजयहेतु- स्वरूपनिग्रहस्थानानां यथायथं द्रव्यादिष्वन्तर्भाव इत्यर्थः । तत्र विशिष्य प्रतिज्ञातस्य पक्षादेः परित्यागरूपप्रतिज्ञाहनेरभावे, परोक्तदोषोद्दिधीर्षया पूर्वमनुक्तविशेषण- विशिष्टतया प्रतिज्ञातार्थ कथन रूपस्य प्रतिज्ञान्तरस्य गुणे, स्वोक्तसाध्यादिविरुद्ध- हेत्वादिकथनरूपस्य प्रतिज्ञाविरोधस्य गुणे, स्वोक्तसाध्यादेः परेण दूषणे कृते तत्- साध्यापलापरूपस्य प्रतिज्ञासंन्यासस्याभावे, परोक्तदूषणोद्दिधीर्षया पूर्वोक्तहेतुता- वच्छेदकातिरिक्तहेतुतावच्छेदकविशिष्टहेतुकथनरूपस्य हेत्वन्तरस्य गुण, प्रकृता- नाकाङ्क्षिताभिधानरूपस्य अर्थान्तरस्य गुणे, अवाचकपदप्रयोगरूपस्य निरर्थकस्य गुणे, अवाचकवाक्यप्रयोगरूपस्याविज्ञातार्थस्य गुणे, परिषत्प्रतिवादिबोधानुकूलो- पस्थित्यजनकवाक्यप्रयोगरूपाविज्ञातार्थस्य गुणे, अभिमतवाक्यार्थबोधानुकूला- काङ्क्षाशून्यपदप्रयोगरूपस्यापार्थकस्य गुणे, समयनिबन्धनीभूतो यः कथाक्रमः तद्विपरीतक्रमेणाभिधानरूपस्य अप्राप्तकालस्य गुणे, यत्किञ्चिदवयवशून्यावयवा- भिधानरूपस्य न्यूनस्य गुणे, अधिकहेत्वाद्यभिधानरूपस्याधिकस्य गुणे, पुनरभिधान- रूपस्य पुनरुक्तस्य गुणे, परिषदा त्रिरभिहितस्याप्यप्रत्युच्चारणरूपस्यानुभाषण- स्याभावे, परिषदा विज्ञातार्थस्य वादिना त्रिरभिहितस्याप्यविज्ञानरूपाविज्ञान- स्याभावे, उत्तरार्हं परोक्तं बुद्ध्वाऽपि उत्तरस्याप्रतिपत्तिरूपाया अप्रतिभाया अभावे, कथाविच्छेदरूपस्य विक्षेपस्याभावे, स्वपक्षे दोषमनुद्धृत्य परपक्षे दोषा- भिधानरूपमतानुज्ञायाः गुणे, निग्रहस्थानं प्राप्तवतो निग्रहस्थानानुद्भावनरूपस्य पर्यनुयोज्योपेक्षणस्याभावे, निग्रहस्थानानवसरे तन्निग्रहस्थानाभिधानरूपस्य निर- नुयोज्यानुयोगस्य गुणे, कथायां स्वीकृतसिद्धान्तप्रच्यवनरूपस्यापसिद्धान्तस्याभावे, हेत्वाभासानां यथायथं द्रव्यादिष्वन्तर्भाव इति भावः । ननु सादृश्यस्य क्वान्तर्भाव इत्यत आह—तद्भिन्नत्वेति । अयमाशयः— सादृश्यं हि तद्भिन्नत्वे सति तद्गतभूयोधर्मवत्त्वम्, धर्मवत्त्वञ्च धर्म एव । यथा चन्द्रसदृशे मुखे चन्द्रभिन्नत्वे सति चन्द्रगताह्लादकत्वादिरूपभूयोधर्मवत्त्वस्य