तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 136, कुल 199 में से
संदर्भ में पढ़ेंमानिति तात्पर्यम् । व्यतिरेकेण व्याप्तिमदित्यस्यार्थमाह — व्यतिरेकेणेतीति । व्यतिरेकशब्दस्य वाच्यार्थमाह — व्यतिरेको नामाभाव इति । भावार्थमाह — तथाचेति । अन्वयव्याप्तिर्हि साध्यहेत्वोर्भवति, व्यतिरेकव्याप्तिस्तु साध्याभाव- हेत्वभावयोर्भवतीत्याशयः । इयमपि व्याप्तिः साहचर्यरूपैव, किन्तु अन्वयव्याप्तौ हेतुसाध्ययोः साहचर्यम्, अत्र तु साध्याभावहेत्वभावयोः साहचर्यमिति विशेष इत्याह -- इयञ्चेति । यथा यत्र यत्र धूमस्तत्र तत्र वह्निरिति साहचर्यमन्वय- व्याप्तिर्भवति तथैव यत्र यत्र वह्नयभावस्तत्र तत्र धूमाभाव इति साहचर्यं व्यतिरेक- न्या.बो.व्याप्तिर्भवतीत्यर्थः । यथान्वयव्याप्तौ 'यत्र' पदवीप्सया वह्नौ धूमव्यापकत्वं लभ्यते, पृ.४७.तथात्रापि यत्रपदवीप्सया धूमाभावे वह्नयभावव्यापकत्वं लभ्यत इत्याह — यत्रपदवीप्सेयेति । ननु वह्निधूमयोः साहचर्यात् यथान्वयव्याप्तिः धूमनिष्ठा भवति तथात्रापि यत्र यत्रेति साहचर्यनियमात् व्यतिरेकव्याप्तिर्वह्नयभावनिष्ठा भवति । तथा च धूमः अन्वयव्याप्तिमान् भवन्नपि व्यतिरेकव्याप्तिमान्न भवति, तर्हि कथं धूमहेतु- रन्वयव्यतिरेकित्वेन गीयते इत्यत आह — एवञ्चेति । अयं भावः — व्यतिरेक- व्याप्तिर्यद्यपि वह्नयभावनिष्ठा भवति तथापि स्वाश्रयीभूतवह्नयभावव्यापकी- भूताभावप्रतियोगित्वरूपलम्बायमानसम्वन्धेन धूमनिष्ठैवास्ति । तत्र स्वं व्यतिरेक- व्याप्तिः, तदाश्रयीभूतो वह्नयभावः, तद्व्यापकीभूतोऽभावः धूमाभावः, तत्प्रति- योगित्वं धूमेऽस्तीत्येतेन सम्बन्धेन व्यतिरेकव्याप्तेः धूमनिष्ठतया धूमो व्यतिरेक- व्याप्तिमान् भवति, एवं पूर्वोक्तधूमव्यापकवह्निसमानाधिकरण्यरूपान्वयव्याप्ति- मांश्च भवतीति तस्यान्वयव्यतिरेकिलिङ्गत्वेन गीयमानता युक्तैवेति । व्यतिरेक- परामर्शस्य स्वरूपमाह — व्यतिकेरेति । न्या बो. द्वितीयलिङ्गस्वरूपं व्याख्यातुमाह -- केवलान्वयिन इति । केवलान्वयिनो पृ.४८. मूलोक्तलक्षणे मात्रपदस्यार्थकथनपुरःसरं तत्स्वरूपमाह — व्यतिरेकव्याप्तिशून्यत्वे सति अन्वयव्याप्तिमत्त्वं केवलान्वयित्वमिति । यथा-घटोऽभिधेयः प्रमेयत्वादित्यत्र केवलमन्वयव्याप्तिरेवास्ति 'यत्र यत्र प्रमेयत्वं तत्र तत्र अभिधेयत्व'मिति, न तु व्यतिरेकव्याप्तिरस्ति, प्रमेयत्वाभिधेयत्वयोरखिले जगति सत्त्वेन तदभावस्यैवा- प्रसिद्धेः । अतः प्रमेयत्वं लिङ्गं केवलान्वयि । लक्षणान्तरमाह -- अथवेति । केवलान्वयि साध्यं यस्य तत् केवलान्वयि लिङ्गं भवतीत्यर्थः । अथवेति लक्षणान्तरकरणे निमित्तमाह — एतच्चेति । तदेवोपपादयति -- साध्यस्येति । अयं भावः — यद्यपि 'इदमभिधेयं द्रव्यत्वात्' इत्यत्रत्यो द्रव्यत्वहेतुः व्यतिरेकी अस्ति, तथापि साध्यस्य केवलान्वयित्वादेव व्यतिरेकव्याप्तिर्न भविष्यति । यतो हि यत्र यत्र द्रव्यत्वाभावः इति तु वक्तुं