तर्कसंग्रह एवं न्यायबोधिनी (अन्नम्भट्ट - पं. केदारनाथ त्रिपाठी सान्वय सटीक)
Tarkasangraha with Nyayabodhini of Annambhatta by Kedarnath Tripathi
अन्नम्भट्ट द्वारा
पृष्ठ 137, कुल 199 में से
संदर्भ में पढ़ें१२० तर्कसंग्रहे [ अनुमानपरिच्छेदः शक्यते, किन्तु तत्र तत्र अभिधेयत्वाभाव इति न शक्यते वक्तुं, तथा चैतावतेवात्र व्यतिरेकव्याप्तिर्नैव सम्भविनीति अन्वयमात्रव्याप्तिकं केवलान्वयीति मूलोक्तं लक्षणमुपपद्यत इत्याशयः । ननु साध्ये कीदृशं केवलान्वयित्वमुच्यते इत्यत आह - अत्यन्तेति । अत्यन्ताभावस्य न प्रतियोगी यत् साध्यं, तत् केवलान्वयि भवतीत्यर्थः । संसारे कुत्रापि अभिधेयत्वाभावो नास्तीति तस्मादभिधेयत्वे प्रतियो- गित्वमपि नास्ति । अतोऽभिधेयत्वं साध्यं केवलान्वयि, केवलान्वयिसाध्यकत्वाच्च द्रव्यत्वं लिङ्गं केवलान्वयि भवतीति भावः । ननु निरुक्तं केवलान्वयित्वं गगनाभावे संयोगाभावे चाव्याप्तम्, गगनाभावस्य, गगनस्वरूपो योऽभावो गगनाभावाभावः तत्प्रतियोगित्वात्, एवं संयोगाभावस्यापि संयोगस्वरूपसंयोगाभावाभावप्रतियोगित्वादिति शङ्कते - नचेति । उत्तरयति - न्या.बो. स्वविरोधीति । स्वविरोधी, वृत्तिमांश्च योऽभावः, तदप्रतियोगित्वं केवलान्व- पृ.४८. यित्वम् । स्वपदेन प्रतियोगी ग्राह्यः । तथा च गगनाभावः गगनाभावाभावस्य प्रतियोगी वर्तते किन्तु स गगनाभावाभावः वृत्तिमान्नास्ति, गगनाभावाभावस्य गगनस्वरूपतया गगनस्य वृत्तिमत्त्वानभ्युपगमात् । एवं संयोगाभावोऽपि यद्यपि संयोगाभावाभावस्य प्रतियोगी वर्तते तथापि स संयोगाभावाभावः संयोगस्वरूप- तया वृत्तिमानस्ति किन्तु स्वपदग्राह्यस्य संयोगाभावरूपप्रतियोगिनः विरोधी नास्ति, यत्र वृक्षे मूलावच्छेदेन कपिसंयोगाभावो विद्यते तत्रैव वृक्षे शाखावच्छेदेन कपिसंयोगस्यापि सत्त्वात् । वृक्षे देशभेदेन संयोगोऽपि विद्यते संयोगाभावोऽपि विद्यत इत्याशयः । तथा च गगनाभावे संयोगाभावे च स्वविरोधिद्वृत्तिमदभावप्रति- योगित्वाभावात् तयोः केवलान्वयित्वमक्षतम् । नव्यरीत्या केवलान्वयित्वमाह - एकेति । एकजातीयसम्बन्धेन-स्वरूपेण गगनाभावसंयोगाभावयोः सर्वत्र विद्यमान- त्वेन तयोः केवलान्वयित्वमिति भावः । केवलव्यतिरेकत्वं व्याकर्तु मारभते - केवलव्यतिरेकिण इति । निश्चि- तेति । अन्वयव्यतिरेकव्याप्त्योः स्वरूपं तु प्रदर्शितमेव । केवलव्यतिरेकि लिङ्ग- मुदाहरति - यथेति । पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यत्र गन्धवत्त्वं लिङ्गं केवलव्यतिरेकि, यत्र यत्र गन्धवत्त्वं तत्र तत्र इतरभेदवत्त्वमित्यन्वयव्याप्तेः, सकलाया गन्धवत्पृथिव्याः पक्षत्वेन, ग्रहासम्भवात् । किन्तु यत्रेतरभेदो नास्ति, तत्र गन्धवत्त्वमपि नास्तीति व्यतिरेकव्याप्तेरेवात्र संभवात् इति भावः । न्या.बो. एतदेवोपपादयति - अत्रेत्यादिना प्रदर्शितवानित्यन्तेन ग्रन्थेन । गन्ध- पृ.५०. व्यापकेतरभेदसामानाधिकरण्यरूपान्वयव्याप्तिग्रहाभावे हेतुरुक्तः - अत्र यद्गन्ध- वदिति । ‘पृथिवी इतरेभ्यो भिद्यते’ इत्यनुमितौ हेतुभूतं व्यतिरेकव्याप्तिघटितं परामर्श- स्वरूपमाह - एवम्प्रकारेणेति । इतरभेदाभावव्यापकीभूताभावप्रतियोगिगन्धवती